________________ 514 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाअलौ [ 5 कारिकाव्याख्यायां सङ्गाच्च / तदर्थस्य शब्देतरप्रमाणागोचरत्वात् / प्रयुज्यमानवाक्येतरगोचरार्थत्वमात्रमिति चेन्न। तस्य वेदेऽपि सत्त्वात् , एकस्याप्यर्थस्य शाखामेदेन बहुभिधोक्यः प्रतिपादनात् / अस्त्वेचं, न तु तेषां मिथो मूलमूलीभाव इति चेन्न। उक्तोत्तरत्वात्। ___ संख्याविशेषात् खल्वपि / व्यणुकत्र्यणुके तावत् परिमाणक्ती द्रव्यत्वात् / तच्च परिमाणं कार्य कार्यगुणत्वात् / न च तस्य परमाणुपरिमाणं व्यणुकपरिमाणं या कारणम् / नित्यपरिमाणत्वात् , अणुपरिमाणत्वाच्च, अन्यथा अनाश्रयकार्योत्पत्तिप्रसङ्गात्। व्यणुकस्य महत्त्वप्रसङ्गाच्च व्यणुकवदण्वारभ्यत्वाविशेषात् / तत्र - प्रकाशः। माशङ्कय निराकरोति प्रयुज्यमानेति / तृतीयं शङ्कसे अस्त्वेवमिति। मूलमूलीभाषः उपजीव्योपजीवकभावः / उक्तेति / प्रणेतृमूलभूतप्रमाणान्तरागोचरार्थस्वस्यासिद्धेरन्यं प्रत्यनैकान्तिकत्वादित्यादिनेत्यर्थः। घणुकादिपरिमाणमनेकवृत्तिसङ्घयाजन्यं, तस्याश्च द्वित्वादेरपेक्षाबुद्धित उत्पत्तिः, तदाश्रय ईश्वर इति साधयितुमाह___ ह्यणुकेति / कार्यगुणत्वादिति / कार्यवृत्तिगुणत्वादित्यर्थः / ननु घणु के परमाणुपरिमाणात् व्यणुके च घ्यणुकपरिमाणादेव परिमाणोत्पादोपपत्तेः किं द्वित्वादिसङ्ख्ययेत्यत आह न चेति / आकाशपरिमाणवदिति शेषः / यदि च परः परममहत्परिमाणमेव न स्वीकुर्यात्, तदा हेत्वन्त. रमाह अणुपरिमाणत्वादिति / यद्यपि नात्र मनःपरिमाणं दृष्टान्तः, परमते मनसो विभुत्वात् , न थानारम्भकधणुकपरमाणुपरिमाणं दृष्टान्तः, तयोरपि कदाचिदारम्भकत्वात् , अवयवाऽणुपरिमाणस्य जनकत्वा. प्रकाशिका। जीविप्रमाणेतरप्रमाणगोचारार्थत्वमित्यर्थः। साध्यसाधनेति / यद्यपि सुगतागमादाविव साधनव्यापकत्वं तथापि तत्र साध्याव्यापकत्वमपीति प्रमाणत्वावच्छिन्नसाध्यव्यापकत्वं वाच्यं तथा सति तदवच्छिन्नसाधनाव्यापकत्वमपीत्याशयेनेदमुक्तम् / हेत्वन्तरमाहेति / मनःपरिमाणदृष्टान्तावष्टम्भेनेति भावः। तथा च पूर्वहेतावपि तदेव दृष्टान्त इति तात्पर्यम् / वस्तुतो द्वथणुकपरिमाणपक्षतायां प्रथमहेतोरसिद्धिरित्याशयेनोभयसाधारणो हेतुरणुपरिमाणत्वादित्युक्त इति मूलस्य तात्पर्यम् / तयोरिति / अनारम्भके तत्र मानाभावेन तयोरपि कदाचिदारम्भकत्वादित्यर्थः / द्वथणुकादीनामारम्भकरवे च तत्परिमाणस्याप्यवयवपरिमाणतया जनकत्वमिति न दृष्टान्तत्वमित्याह अवयवेति। यदि च मकरन्दः। यदि चेति / अत्रेद चिन्त्यम् / तदस्वीकारे दृष्टान्तान्तरं कर्तुमर्हति, न तु हेत्वन्तरम् / मनःपरिमाणदृष्टान्तत्वेन प्रथमहेलाचप्युपपत्तेः। तस्मात् यणुकपरिमाणपक्षके प्रथमस्यासिद्धत्वमाशङ्कय तदभिप्रायेण हेत्वन्तरम् / तत्र च प्रथमहत्ववष्टम्भात् परमाणुपरिमाणमेव दृष्टान्तो मनः परिमाणं वेति मूलतात्पर्य प्रतिभातीति / सयोरपीति / स्वरूपयोग्यस्वादित्यर्थः / यद्वा अनारम्भके तत्र मानाभावात् तयोरपि कदाचिदारम्भकत्वादित्यर्थः। - व्यणुकादीनामारम्भकत्वनियमे चावयवपरिमाणतया तत्परिमाणस्यापि जनकत्वमेवेति न दृष्टान्तत्वमित्याह अवयवेति /