________________ पंचमस्तवके ] ... ईश्वरसाधनम् / .. 513 अन्यं प्रत्यनैकान्तिकत्वात् / श्राकस्मिकस्मितबीजसुखानुस्मृतेः कारणविशेषस्यान्यं - प्रति प्रमाणान्तरागोचरस्यापि तेनैव वक्त्रा प्रतिपाद्यमानत्वात्। . . वक्तैव प्रकृते न सम्भवति / हेत्वभावे फलाभावात्। चक्षुरादीनां तत्रासाम र्थ्यात् / अस्मदादीन्द्रियवत्। मनसो बहिरस्वातन्त्र्यात् / न / चेतनस्य ज्ञानस्ये न्द्रियस्य मनसो वा पक्षीकरणे आश्रयासिद्धेः प्रागेव प्रपञ्चनात् / नित्यनिराकरणे चासामर्थ्यात् / परमाण्वादयो न कस्यचित् प्रत्यक्षाः तत्सामग्रीरहितत्वादिति चेन्न / द्रष्टारं प्रत्यसिद्धेः। अन्यं प्रति सिद्धसाधनात् / ___ तथापि वाक्यत्वं न प्रमाणम् / अप्रयोजकत्वात्। प्रमाणान्तरगोचरार्थत्वप्रयुक्तं तत्र पौरुषेयत्वं, न तु वाक्यत्वप्रयुक्तम् / न / सुगताद्यागमानामपौरुषेयत्वप्रसङ्गात् / प्रमाणवाक्यस्य सत इति चेन्न / प्रणेतृप्रमाणान्तरगोचरार्थत्वस्य साध्यानुप्रवेशात्। स्वतन्त्र पुरुषप्रणीतत्वं हि पौरुषंयत्वम् / अर्थप्रतीत्येक विषयौ हि विवक्षाप्रयत्नौ स्वातन्त्र्यम् / मन्वादिवाक्यस्याऽपौरुषेयत्वप्र . प्रकाशः। प्रणेतारमिति / अनेकान्तिकत्वं स्पष्टयति आकस्मिकेति / दृष्टकारणोपहारं विना जातस्मितस्य यद्बीजं सुखानुस्मृतिरूपं कारणं तस्येत्यर्थः। सर्वज्ञो वेदवक्ता न सम्भावनाऽऽस्पदम् , वाक्यार्थज्ञानसामग्रीरहितत्वादित्याह वक्तैवेति / ईश्वरो नातीन्द्रियार्थदर्शी पुरुषत्वात् , तज्ज्ञानं चा नातीन्द्रियविषयं ज्ञानत्वात् , तदिन्द्रियं वा नातीन्द्रियार्थप्राहि इन्द्रियत्वात् , तन्मनो वा नातीन्द्रिये प्रवर्तते मनस्त्वादित्यादयः प्रयोगाः प्रागेव निरस्ता इत्याह चेतनस्येति / अपि च सामग्यभावात् कार्यज्ञानाभावेऽपि अकार्य ज्ञानं न निवर्तते इत्याह नित्येति / उपाधि शङ्कते प्रमाणान्तरेति / अत्र साध्याव्यापकत्वमाह सुगतेति / पक्षधर्मावच्छिन्नसाध्यव्यापकत्वादुपाघित्वं स्यादित्याह प्रमाणेति / प्रणेत्रिति / साभ्यादभिन्नत्वे साध्याव्यापकत्वाद् भेदनिबन्धनत्वाच्च व्याप्यव्यापकभावस्येत्यर्थः / प्रमाणान्तरगोचरार्थत्वेन शब्देतरप्रमाणगोचरार्थत्वं विवक्षितं, मानान्तरगोचरार्थत्वं वा, मूलभूतमानान्तरगोचरार्थत्वं वा ? / आये मन्वादीति / द्वितीय प्रकाशिका। इत्यत आह दृष्टकारणेति / साध्यादभिन्नत्व इति / यद्यपि नात्राभेद उपाधिभेदात् किच्चापौरषेयत्वस्य सुगतागमवृत्तित्वादुक्तोपाधेश्च तदवृत्तित्वात् सर्वथाभेद एव, तथापि साध्यसिद्धिपर्यवसितसिद्धिकत्वाद् वयादिसामप्रीवदुत्सर्गतोऽस्यानुपाधित्वमित्यत्र तात्पर्यम् / शब्देतरेति। शब्दतदुप मकरन्दः / - साध्यादभिन्नत्वे इति / यद्यप्यत्र नाभेदः, उपाधिभेदस्य स्फुटत्वात्, किश्च पौरुषेयत्वस्य सुगतागमादावपि सत्त्वादन्यथा वाक्यत्वस्य तत्र व्यभिचारापत्तेरिदञ्च तद्याप्तमिति सर्वथा भेद एव, तथाप्येतदस्वरसादेव दोषान्तरदानमिति बमः / अन्यथा तु चिन्त्यम् / .. शब्देतरेति / शब्दतदुपजीविप्रमाणेतरप्रमाणगोचरार्थत्वमित्यर्थः / टिप्पणी परमाण्वादय इत्यादि। अत्रास्मत्सिद्धान्ते परमाण्वादीनामपीश्वरादिप्रत्यक्षविषयतया सामान्यतः प्रत्यक्षविषयत्वाभावस्याप्रसिद्ध्या तेन रूपेण साध्यत्वे साध्याप्रसिद्धिः स्यादतो यत्किंचित्प्रत्यक्षविषयत्वाभावः साधनीयः, तथाच यत्किञ्चित्पदेनेश्वरग्रहणे परमाण्वादावीश्वरप्रत्यक्षविषयत्वा. भावो मास्तु प्रत्यक्षसामग्रीरहितत्वमस्त्विति व्यभिचारशंकानिवर्तकानुकूलतर्कशून्यत्वाव्याप्यत्वासिद्धिः, यदि च यत्पिदेन जीवो गृह्यत तदा सिद्धसाधनमित्यर्थः / 65 न्या० कु०