________________ 552 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलो [5 कारिकाव्याख्यायां . .. अर्थवादमात्रमिदमिति चेन्न / कर्तृस्मरणस्य सर्वत्राविध्यर्थत्वात्। तथा चास्मरणे कालिदासादेरस्मरणात् / एवञ्च कुमारसम्भवादेरकर्तृकत्वप्रसङ्गः। अनैकान्तिकत्वं वा हेतो।। प्रमाणान्तरागोचरार्थत्वात् सत्प्रतिपक्षत्वमिति चेन्न / प्रणेतारं प्रत्यसिद्धः / प्रकाशः। नकस्यैव पदस्य शक्ति प्रहादित्याह अर्थवादेति / 'आदित्यो वै यूप' इत्यादेरर्थवादस्य मुख्यार्थत्वे बाधकादप्रमाणत्वात् , स्तुतिपरत्वेऽपि प्रकृते बाधकानां निरासादविध्यर्थस्याऽपि मुख्यार्थत्वमेव / अन्यथा यन्न दुःखेन सम्भिन्नमित्यादेरपि स्वाऽर्थपरित्यागप्रसङ्गात् / कालिदासस्मरणेऽपि विध्यभावात् तत्काव्यस्याप्यकत्तु कत्वप्रसङ्गात् / सकर्तृकत्वे वा तत्रैवार्थ हेतुरनैकान्त इत्याह कर्तृस्मरणस्येति / .. 'प्रमाणान्तरेति / वेदा न पौरुषेयाः प्रमाणान्तरागोचरार्थत्वात् , यन्नैवं तन्वम् , यथा मन्वादिवाक्यमित्यर्थः / यदि वेदप्रणेतृप्रमाणान्तरागोचरार्थत्वं हेतुः, तदा तत्प्रणेतुरीश्वरस्य. प्रत्यक्षगोचरस्वादसिद्धिः। अथ यस्य कस्यापि प्रमाणान्तरागोचरार्थत्वं, तदाऽनैकान्तिकमित्याह प्रकाशिका। समानानुपूर्वीकसकलवाक्यवृत्तिधर्मत्वस्य हेतुत्वात् / न च विशेषमात्रमेव व्याप्यमिति वाच्यम् / स्वसमानाधिकरणानुपूर्वीसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्याखण्डाभावस्य हेतुत्वात् / अत एव भोगाधारत्वं भोगसमवायिकारणातिरिक्तवृत्तिसकलभोगाधिकरणवृत्तित्वादित्यत्रापि भोगसमानाधिकरणात्यन्ताभावाप्रतियोगित्वहेतुरित्यन्यत्र विस्तरः / अाकस्मिकमहेतुकं न च तत्र बीजसम्भव मकरन्दः। तनिष्ठव्याप्तेरग्रहात् / प्रकृते च विशेष्यभागस्य न्यूनवृत्तित्वविशिष्टस्याधिकवृत्तित्वमिति तस्य विकाशकत्वमिति / तत् प्रमादविजृम्भितम् / व्याप्याश्रयस्यैवंविकाशेऽपि व्याप्त्याश्रयविकाशाभावात् तद्धटितोपाधेरेकत्वात् / न च व्याप्याश्रयविकाशस्यापि न व्यर्थत्वं, तत्र यनिष्ठेत्यादिन्यायस्याप्यसम्भवेन मानाभावादिति / अन्यथा धूमालोकान्यतरत्वादावपि व्यर्थविशेषणत्वं न स्यात् / आलोकादिपदस्यायोगोलकादिव्याप्याश्रयविकाशत्वात् / . आकस्मिकञ्च तत्र बीजञ्चेति व्याहतमत आह दृष्टेति / टिप्पणी। अर्थवादमात्रमिति / अर्थवादस्त्रिवा भवति गुणवादोऽनुवादो भूतार्थवादश्च, तदुक्तम्-विरोधेगुणवादः स्यादनुवादोऽवधारिते / भूतार्थवादस्तखानादर्थवादस्त्रिधा मतः // इति / तत्र प्रमाणान्तरविरोधे गुणवादः, यथाऽऽदित्यो यूप इत्यादिः, प्रमाणान्तरावगतार्थबोधकोऽनुवादः, यथाऽमिहिमस्य भेषजमित्यादिः, प्रमाणान्तरेण प्राप्तिविरोधयोरभावे भूतार्थवादः, यथा इन्द्रो वृत्राय वजमुदयच्छदित्यादि। ७प्रणेतारमिति / प्रणेतृप्रमाणान्तरागोचरार्थकत्वस्य हेतुत्वं न संभवति अपौरुषेयत्वं साधयतां भवतां मीमांसकानां मते वेदे पक्षे प्रणेतृघटितहेतोरभावादित्यर्थः / यत्किंचित्पुरुषीयप्रमाणान्तरगोचरार्थकत्वस्य हेतुत्वं दूषयति अन्यं प्रतोति / नसत.