________________ 534 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमावलौ [ 10 कारिकाव्याख्यायों प्रकाशः। तदा ममापि व्यापारविशेषो वाच्य इत्यस्तु, यत्नधीस्त्वाक्षेपात् धात्वर्थविशेषस्य पाकादेस्तेन विनाऽनुपपत्तेः / न चाख्यातस्य यत्नो वाच्यः, पचतीत्यस्य पाकानुकूलयत्नवानिति विवरणादिति वाच्यम् / तथा सति कर्तुरपि तद्वाच्यताऽऽपत्तेः / न हि पाकयत्न इत्येव विवरणम् / अथ तात्पर्यविवरणस्याऽऽक्षेपादिनाऽपि निर्वाहः, तुल्यं यत्नेऽपि / अत एव रथो गच्छति विद्यते व्योमेत्यत्र न भावनाऽनुभवः / भावनाया धात्वर्थान्वयायोग्यतया त्वयाऽपि तत्र गौणत्वाङ्गीकारादिति / अत्र वदन्ति-चैत्रः पचतीत्यत्र पाकानुकूलयत्नानुभवात् स एवाख्यातवाच्यः, लाघवात् / न त्वनुकूलव्यापारः, यत्नत्वजात्यपेक्षया व्यापारत्वस्योपाधित्वेन गुरुत्वात् / न चाचेतनेऽप्याख्यात स्य मुख्यत्वार्थमनुगतो व्यापार एव शक्य इति वाच्यम् / शक्तिप्राहकेण लघुनि शक्ति प्रहात् / मुख्यत्वार्थं शक्तिकल्पने वृत्त्यन्तरोच्छेदापत्तेः / न च पाकस्य यत्नसाध्यत्वानुमित्या यत्नस्यापि लाभादन्यलभ्यत्वेन स नाख्यातवाच्यः। चैत्रः पचतीत्यत्र चैत्रः पाकानुकूलवर्त्तमानयत्नवान् प्रतीयते / न च पाकस्य वर्तमानयत्नेन प्राप्तिरस्ति, अतीतादौ व्यभिचारात् / नापि धात्वर्थेनानुमिते यत्ने आख्यातेन वर्तमानत्वान्वयबोधः सम्भवी, यत्नस्यापदार्थत्वात् , स्वार्थव्यापारवर्त्तमान- . स्वबोधनेनाख्यातस्य पर्यवसितत्वाच्च / न चाचेतने आख्यातस्य व्यापारावाचकत्वावधारणादेवं कल्पनेति युक्तम् / गौणतया शक्तिभ्रमेण वा तत्राख्याताद्व्यापारावगमोपपत्तेः। यत्नविगमदशायां सज्जन्यव्यापारकाले पचतीत्यत्र वर्तमानव्यापाराभिधानमाख्यातेन लक्षणया, रथो गच्छतीत्यत्र यथा, अतोऽन्यलभ्यत्वान्न तदनुरोधेन व्यापारे शक्तिः, अन्यथा तवापि यत्नकाले पचतीति न स्यादिति / .. ननु धात्वर्थानुकूलयत्नस्याख्यातशक्यत्वे एककृतिकाले पचतीतिवत् कृतेव॑से अग्रिमकृतेरनुत्पाददशायां मध्येऽप्यपाक्षीत् पक्ष्यतीति स्यात् / यत्नप्रचयंस्य च शक्यत्वे पचतीति न स्यादेव, एकदा तस्याभावात् / अथ भूतभविष्यतोर्यत्नाभावनिरूप्यत्वात् यत्नकाले तदभावान्नोक्तदोष इति चेन्न / ध्वंसानुत्पादयोर्यत्नविशेषप्रतियोगिकतया यत्नकालेऽपि तत्सत्त्वात् , तयोः सकलकृतिप्रतियोगिकत्वाभावात् / मैवम् / यत्राख्यातवाच्ये प्रचये एकैकस्य वर्तमानव्यवहारनिमित्तत्वं, तत्र तावतां ध्वसैः प्रागभावैश्व भूतभविष्यद्व्यवहारः, न तु वर्तमानव्यवहारनिमित्तकिञ्चिदभावात् ; चेतनाचेतनभोजनगमनादौ तथैव प्रयोगात् , प्रयोगे सति निमित्तानुसरणात् / धातोराख्यातस्य चानुकूलव्यापारवाच. कत्ववादिभिरनन्यगतिकतया तथैव स्वाकाराच्चेति / चैत्र श्रोदनं पचति चैत्रेण पच्यते श्रोदन इत्यत्र कर्तरि कर्मणि आख्यातार्थसङ्ख्याऽन्वयात् कर्तृकर्मणी लकारवाच्ये, तेन वाच्यगामिनी सङ्ख्येति नियमो भवति, अन्यथाऽऽक्षिप्तसङ्खयान्वये प्रकाशिका। धात्वर्थविशेषस्येति। विद्यते व्योमेत्यत्र; भावनानुभवो न भवत्येवेत्यग्रे वाच्यमेवेति भावः / अन्यथा तत्रापि यत्नकाल इत्यादि, इदश्च यत्नातिरिक्तस्यैव व्यापारस्य शक्यत्वमिति मतेन दूषणम् , अन्यथा यत्नस्यापि व्यापारतया शक्यत्वेनासमतेः, पच्यते इत्यत्र तु कर्मवाचकत्व इष्टापत्तिरत आह मकरन्दः। अन्यथा तवापि यत्नकाले पचतीत्यादि न स्यादिति / यद्यपि व्यापारवत्त्वेन यत्नस्यापि शक्यत्वात्तत्काले पचतीति स्यादेव, तथापि तेनापि रूपेण यदि यत्नो न शक्यस्तदेदं दूषणं बोध्यम् / अपरं शब्दप्रकाशे प्रपश्चितम् /