________________ पंचमस्तवके] ईश्वरसाधनम् / 504 प्रत्ययोऽपि / प्रत्ययशब्देनात्र समाश्वासविषयप्रामाण्यमुच्यते / तथाच प्रयोगः-आगमसंप्रदायोऽयं कारणगुणपूर्वकः प्रमाणत्वात् , प्रत्यक्षादिवत् / न हि प्रामाण्यप्रत्ययं विना क्वचित् समाश्वासः / न चाऽसिद्धस्य प्रामाण्यस्य प्रतीतिः। न च स्वतः प्रामाण्यमित्यावेदितम् / न च नेदं प्रमाणं, महाजनपरिग्रहा. दित्युक्तम् / न चासर्वज्ञो धर्माधर्मयोः स्वातन्त्र्येण प्रभवति / न चासर्वशस्य गुणवत्तेति निःशङ्कमेतत्। श्रुतेः खल्वपि / तथाहि-सर्वज्ञप्रणीता वेदाः, वेदत्वात् / यत् पुनर्न सर्वज्ञप्रणीतं, नाऽसौ वेदो यथेतरवाक्यम् / प्रकाशः। प्रत्ययपदं समाश्वासशक्तं तत्सम्बन्धि तद्विषयं प्रामाण्यं लक्षयतीत्याह प्रत्ययशब्देनेति।तथा चेति / आगमस्य सम्प्रदायः प्रवाहः प्रमात्वप्रयोजकवाक्यार्थप्रमाणरूपगुणजन्यो यथार्थचिख्यापयिषादिवक्तृगुणजन्यो वा प्रमाणशब्दत्वात् लौकिकप्रमाणशब्दवदित्यऽर्थः / लक्षणाबीजं सम्बन्धमाह न हीति / न च प्रमाणत्वमसिद्धं, प्रामाण्याज्ञाने पारलौकिके कर्मणि वेदबोधिते प्रेक्षावतां प्रवृत्त्यनुपपत्तेरित्याह / न चेति / तथापि तेन वक्तृगुणपूर्वकेणैव भाव्यमित्यसिद्धमित्यत आह न च स्वत इति / तथापि वक्तुः सार्वज्ञयं कुतः सिद्धयःतीत्याह न चेति / तथाहीति / यद्यपि परैः सर्वज्ञानङ्गीकारात्तत्प्रणीतत्वं परं प्रत्यसिद्ध, तथाप्यात्मत्वमसंसारिवृत्ति जातित्वात् पटत्ववत् / स चासंसारी किश्चिद्वाक्यप्रणेता पुरुषत्वादिति साध्यप्रसिद्धौ, वेदा असंसारिपुरुषप्रणीता इति साध्यम् / न चास्मदाधुच्चरिते वेदे व्यभिचारः / प्रकाशिका। मादायार्थान्तरं मनसि अभिचारश्चेत्यन्यथा माचष्टे प्रमात्वप्रयोजकेति। एतच्च विपक्षवाधकसूचनाय न साध्यप्रविष्टमत एवाप्रिमसाध्ये तन्नोपात्तम् / अध्यापकादिप्रमामादायार्थान्तरमिति साध्या न्तरमाह यथार्थति। न चात्रापि तद्दोषतादवस्थ्यं वक्तृपदस्य स्वतन्त्रवक्तपरत्वात् / तथाप्यात्मत्वमिति / न च सुखसमवायिकरणतावच्छेदकजातौ व्यभिचारः / नित्यस्येत्यादिव्याप्तेरनभ्युपगमेन तस्यात्रैव पक्षत्वात् / न चाप्रयोजकत्वमन्यथा सुखित्वमसंसारिवृत्तिसुखित्वव्यापकत्वादित्यपि स्यादिति वाच्यम् / ईश्वरप्रतिपादकागमस्यात्र विपक्षबाधकत्वात् तत्र च तदभावादिति भावः / न चास्मदा. दोति। तत्प्रणीतत्वं तत्कण्ठतल्वाद्यभिधातजन्यत्वमित्याशयेन व्यभिचारोद्भावनमिदम् , अन्यथास्म. मकरन्दः। दायार्थान्तरं, मनसि व्यभिचारश्वेत्यन्यथा व्याचष्टे प्रमात्वप्रयोजकेति / एतच्च विपक्षबाधकसूचनाय, न तु साध्ये प्रविष्टम् , अत एवाग्रिमसाध्ये नोपात्तम् / अव्यापकत्वमादायार्थान्तरमित्य: रुचेराह यथार्थेति / न चात्रापि दोषतादवस्थ्यम् , अस्मदादेरनुवक्तृतया वक्तृत्वाभावात् ,स्वतन्त्रवक्तृपरत्वाद्वा / न चाप्रयोजकत्वम्, अन्यथा दुःखित्वमसंसारिवृत्ति धर्मत्वादित्यादिकमपि स्यादिति वाच्यम् / ईश्वरप्रतिपादकागमादेविपक्षबाधकस्य सत्त्वात्तत्र च तदभावात् / न चास्मदादीति / ननु तस्य पक्षत्वात् पक्षसमत्वाद्वा कथं तत्र व्यभिचारः, अन्यथा वेदज्ञानाजन्येत्यादिसिद्धान्ते का गतिः, यदि चाजन्यज्ञानमादाय तत्र साध्यसत्त्वमिति व्यतिरेकित्वमविकलं, तदाश्रयपुरुषमादाय प्रकृतेऽपि तथेति तुल्यमिति चेत् / न / असंसारिपुरुषप्रणीतत्वं तत्कण्ठताल्वाद्यच्चरितत्वमा भिप्रेत्य व्यभिचारदर्शनात् / एतदभिप्रायेणैव मूले मन्वादिवाक्ये व्यभिचारोद्भावनम् , अन्यथा