________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलो [5 कारिकाव्याख्यायो मनु किमिदं वेदत्वं नाम ? वाक्यत्वस्यादृष्टविषयवाक्यत्वस्य च विरुद्धत्वात् , अष्टविषयप्रमाणवाक्यत्वस्य चासिद्धः, मन्वादिवाक्ये गतत्वेन विरोधाच्चेति केन / अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वस्य तत्त्वात् / न खत्मवादीनां प्रत्यक्षादि मूलम् / भ्रमविप्रलिप्से, महाजनपरिग्रहादित्युक्तम् / नापि परम्परेक मूलं, महाप्रलये विच्छेदादित्युक्तम् / प्रकाशः। वेदानाजन्यज्ञानजन्यत्वस्य साध्यत्वादिति भावः / विरुद्धत्वादिति / प्रतारकवाक्यस्याप्यदृष्टविषयत्वादित्यर्थः / मन्वदीति / मन्वादिवाक्यस्याप्यदृष्टविषयप्रमाणत्वादित्यर्थः / अनुपलभ्यमानेति / मन्वादिवाक्ये च वेदस्यैव मूलान्तरस्योपलभ्यमानत्वादित्यर्थः // ननु वाफ्यत्वमसिद्धम् , समुदायस्याप्रतिपादिकत्वात् / न च शाखासमुदायो वेदः / प्रकाशिका। दुचरितवेदस्य पक्षसमत्वेन तदनुपपत्तेः एतदभिप्रायेणैव मूले नन्वादिवाक्ये व्यभिचारोद्भावनं वेदशामाजन्येति / वेदज्ञानेतिविशेषणमप्रसिद्धिवारणाय अन्यथा अस्मदायुच्चरितवेदस्यापि. पक्षसमत्वान तेन व्यभिचार इति भावः / न चैवं वेदत्वघटकीभूतशब्दत्वस्यैव हेतुत्वमिति व्यर्थविशेषणतेति वाच्यम् / व्यतिरेकव्याप्तावखण्डाभावतया तदभावात् / न चैवं व्यतिरेकव्याप्ती नीलधूमादित्यपि हेतुः स्यादिति वाच्यम् / इष्टत्वात् अन्वयव्याप्तावेव तस्य हेत्वाभासत्वात् / विशिष्ठैकार्थप्रतिपादकत्वं वाक्यत्वं पदधर्मः समुदाये नास्तीत्याशङ्कते ननु वाक्यत्वमिति / ननु समुदितानि पदान्येव समुदायः तत्र च प्रतिपादकत्वमस्त्येव, अन्यथा वाक्यत्वमप्रसिद्धमेव स्थात्, प्रत्येकादस्य वाक्यत्वाभावात् , समुदायस्य चाप्रतिपादकत्वात् / किञ्चैवंप्रमाणत्वस्य प्रतिपादकत्वविशेषतया तद्गर्भसिद्धान्तलक्षणमपि वेदस्यायुक्तं स्यादित्यरुचेः पक्षतावच्छेदकविकल्पमाह मकरन्दः / तस्यापि सर्वत्रप्रणीतत्वेन तदभावात् / अन्यथा तु चिन्त्यम् / वेदज्ञानाजन्येति / अप्रसिद्धिधारणाय वेदज्ञानेति विशेषणम् / अस्मदाद्यच्चरितवेदस्यापि पक्षत्वादजन्यज्ञानमादाय साध्यसत्त्वातत्र न व्यभिचारः। न चैवं वेदत्वहेतुविवेचने व्यर्थविशेषणत्वम् / अखण्डाभावतया व्याप्तिप्रहे तदभावात् / वस्तुतस्तथा सति व्यतिरेकिणि व्यर्थविशेषणत्वं नोद्भाव्येत / न चेष्टापत्तिः, कथकसम्प्रदायविरोधात् / नीलधूमस्यापि व्यतिरेकितया गमकत्वापत्तेः। यदि च व्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यते इति मतं, तदा प्रकृतेऽपि तुल्यमिति पूर्वास्वरसादेवान्वयतो वेति कल्पान्तरमिति / समुदायस्येति / पदवाक्यसमुदायविशेषो वेदः पक्षः, तत्र विशिष्टैकार्थप्रतिपादकत्वरूपस्य वाक्यत्वस्य समुदाये विरहादसिद्धिरित्यर्थः / ननु समुदितानि पदान्येव समुदायः, अतिरिक्तस्यानभ्युपगमात् / तत्र च प्रतिपादकत्वसत्त्वाद्वाक्यत्वमप्रत्यूहमेव / अन्यथा वाक्यत्वमप्रसिद्धमेव स्यात् / प्रत्येकपदे वाक्यत्वाभावात् / समुदायस्याप्रतिपादकत्वात् | यदि च नैवं, तदा प्रमाणस्वस्यापि प्रतिपादकगर्भतथा तदर्भसिद्धान्तलक्षणमपि भज्यतेति चिन्त्यम् / शब्दतदुपजीचीति शम्दप्रकाशे विपश्चितम् / स्मृत्यादाविति / श्राद्यस्मृत्यादावित्यर्थः / एतदपि तज्जातीयत्वस्याभेद टिप्पणी। महाप्रलय इति। अत्राखिलकार्यद्रव्यध्वंसाधारः कालो महाप्रलयो बोध्यः, अयमपि तत्तत्खण्डप्रलयापेक्षया महाप्रलय उच्यते, निखिलभावकार्यध्वंसाधारः कालो मुख्यो. महाप्रलयस्तु नात्राभिप्रेतः तदनन्तरं सृष्टेरेवाभावात् , स हि क्रमशः सर्वेषु जीवेषु मुक्तेषु भवति तदनन्तरं कस्यचिदप्यदृष्टादिसकारणाभावाम भवति सृष्टिरित्यवगन्तव्यम् /