________________ 508 व्याख्यात्रोपेतप्रकाशयुते न्यायकुसुमाअलौ [ 5 कारिकाव्याख्यायो - पदशब्देनात्र पद्यते गम्यते व्यवहाराङ्गमर्थोऽनेनेति वृद्धव्यवहार एचोच्यते / अतोऽपीश्वरसिद्धिः / तथाहि-यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दाऽऽदीनां, वाग्व्यवहारश्च व्यक्तवाचां, लिपितत्क्रमव्यवहारश्च बालानां, स सर्वः स्वतन्त्रपुरुषविश्रान्तो व्यवहारत्वात् निपुणतरशिल्पिनिर्मितापूर्वघटघटनानैपुण्यवत् , चैत्रमैत्रादिपदवत् , पत्रातरवत् , पाणिनीयवर्णनिर्देशक्रमवच्चेति / आदिमान व्यवहार एवम् , अयन्त्वनादिरन्यथाऽपि भविष्यतीति चेन्न / तदसिद्धः। आदिमत्तामेव साधयितुमयमारम्भः। न चैवं संसारस्यानादित्वभङ्गप्रसङ्गः। तथापि तस्याविरोधात् / न हि चैत्रादिव्यवहारोऽयमादिमानिति भवस्याप्यनादिता नास्ति, तदनादित्वे घा न चैत्रादिपदव्यवहारोऽप्यादिमानिति / अस्त्व:ग्दर्शी कश्चिदेवात्र मूलमिति चेन्न / तेनाऽशक्यत्वात् , कल्पादावादर्शाभासस्याप्यऽसिद्धः / साधितौ च सर्गप्रलयौ। ननु व्यवहारयितृवृद्धः शरीरी समधिगतो, न च ईश्वरस्तथा, तत्कथमेवं स्यात् / न। शरीरान्वयव्यतिरेकाऽनुविधायिनि कार्येतस्यापि तद्वत्त्वात्। गृह्णाति हि ईश्वरोऽपि कार्यवशाच्छरीरमन्तरान्तरा, दर्शयति च विभूतिमिति / अत्राप्यागमः पिताऽहमस्य जगतो माता धाता पितामहः / तथा, 'यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः। मम वर्मानुवर्त्तन्ते मनुष्याः पार्थ सर्वशः॥ उत्लीदेयुरिमे लोका न कुर्या कर्म चेदहम् // इति // एतेन 'नमः कुलालेभ्य कारेभ्य' इत्यादि यजूंषि बोद्धव्यानि / प्रकाशः। व्यक्तवाचो मनुष्याः / स्वतन्त्रेति / तज्जातीयव्यवहारानुपजीवित्वं पुरुषस्य स्वातन्त्र्यम् / साध्येषु क्रमेण दृष्टान्ताः-निपुणेत्यादि / आदिमानिति / सादिव्यवहारत्वमुपाधिरित्यर्थः / अन्यथाऽपीति / स्वतन्त्रपुरुषं विनाऽपीत्यर्थः / तथापीति / पूर्वपूर्वसर्गेऽपि तज्जातीयव्यवहारस्येश्वरपूर्वकत्वादित्यनादित्वं न विरुद्धयते इत्यर्थः / इदानीन्तनापूर्वव्यवहारस्य सादित्वेऽपि न भवस्यानादित्वं हीयते इत्याह न हीति / तदनादित्वे इत्यत्रापि न हीत्यनुषज्ज्यते / प्रादर्शति / यद्व्यवहारं दृष्ट्वा व्यवहियते, सोऽपि नास्तीत्यर्थः। शरीरान्वयेति / ईश्वरस्यादृष्टाभावेऽपि तच्छरीरसाध्यहेतुकास्मदादिभोगसम्पादकाऽदृष्टादेवेश्वरस्य शरीरोत्पत्तिरिति भावः। पिताऽहमस्येति / अस्य जगतोऽहमेव पित्रादिरित्यर्थः। यदि हहमिति / यदि ह्यहं न वत्तेयं तदा लोक्यन्ते इति लोकाः प्रामाणिकव्यवहारा उत्सीदेयुरिति व्यवहितेनान्वयः। अत्र हेतुः-मम वत्मेति / एतेन-घटादिव्यवहारस्य स्वतन्त्र पुरुषपूर्वकत्वव्युत्पादनेन / कुलालादिदेहवत ईश्वरस्य तथाभावादित्यर्थः। प्रकाशिका। न तेन व्यभिचारः। पित्रादिरिति / व्यवहारपितृत्वादिति भावः / मूले कारणपदं व्यर्थ अदृष्टादिजत्व मकरन्दः। साध्याप्रसिद्धिः, अस्मदादिप्रयत्नस्यैव दृष्टान्तत्वात् / तन्नाशचरमकारणस्य स्वविषयकसाक्षात्कारस्य स्वजनकप्रयत्नेन विषयीभूतेन समानकालत्वात् / यत्नध्वंसकारणयत्न समानकालीनस्वसाक्षात्कारहेतुक. नाशप्रतियोगित्वाच्च / पटादिश्व पक्षसम इति न तेषु व्यभिचारः। पित्रादिरिति / व्यवहारयितृत्वादिति भावः। ननु मूले कारणपदवैयय, अदृष्टादिजन्यत्वमा