________________ पंचमस्तवके ] ईश्वरसाधनम्। 507 संहरणात् खल्वपि / ब्रह्माण्डादिव्यणुकपर्यन्तं जगत् प्रयत्नवद्विनाश्यं विनाश्यत्वात् पाव्यमानपटवत् / अत्राप्यागमः एष सर्वाणि भूतानि समभिव्याप्य मूर्तिभिः। जन्मवृद्धिक्षयैर्नित्यं सम्भ्रामयति चक्रवत् // सर्वभूतानि कौन्तेय ! प्रकृति यान्ति मामिकीम्। कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् // इत्यादि / एतेन रौद्रमंशं प्रतिपादयन्तोऽध्यागमा व्याख्याताः। पदात् खल्वपि कार्यत्वानिरुपाधित्वमेवं धृतिविनाशयो। विच्छेदेन पदस्थापि प्रत्ययादेश्च पूर्ववत् // 5 // प्रकाशः। काशपत्रस्थितिवत् सा स्यादित्यपास्तम् / अनुपाधित्वादिति / साधनव्यापकत्वादित्यर्थः / प्राङ्न्यायेन, विशेषश्च विशेषवानिति न्यायेनेत्यर्थः / किमिदं शरीरत्वं यत्साक्षात् प्रयत्नाधिष्ठितत्वे परमाणूनां प्रसज्ज्यते इत्यादिना वेत्यर्थः। घृत्यादेरित्यादिपदसंग्राह्यमाह संहरणादिति / ब्रह्माण्डादीति। ब्रह्माण्डादिकं स्वजमकप्रयत्नसमानकालीनचरमकारणनाशप्रतियोगीति साध्यार्थः / सर्वभूतानीति / परमाणुमात्रावशिष्टानीत्यर्थः / / ___ ननु नाशविशेष एव प्रयत्नपूर्वकोऽन्यस्त्वन्यथाऽपि भविष्यतीत्याशङ्कय वृत्तसमाधानं कुर्वाण एव प्रन्थलाघवाय वर्तिष्यमाणेऽप्यऽतिदिशति कार्यत्वादिति / यथा धृतिविनाशयोः कार्यकारणभावो विपक्षे बाधको निरूपाधित्वप्राहकः / तथा पदस्याऽपि स एव तद्नाहक इत्यर्थः / न चादिमत्त्वमुपाधिः / प्रलये विच्छेदादनादित्वाभावेन साधनव्यापकत्वादित्याह विच्छेदेनेति / प्रत्ययादिहेतुष्वपि पूर्ववत् कार्यकारणभाव एव विपक्षबाधक इत्यर्थः। प्रकाशिका। लीनं चरमकारणं यस्यैवंभूतो योः नाशः तत्प्रतीयोगीत्यर्थः। स्वपदं ध्वंसपरं, साध्यप्रसिद्धिश्चास्मदादिप्रयत्ने, तन्नाशचरमकारणस्य तद्गोचरसाक्षात्कारस्य विषयीभूतप्रयत्नसमानकालत्वात् तस्य च प्रयत्नस्य प्रतियोगितया नाशकारणत्वात् संसारिप्रयत्नसमानकालीनं कालादिकमादायार्थान्तरं तत्प्रयनस्यापि अदृष्टद्वारा नाशकत्वादिति / चरमेति। कालादिसमानकालीनं चरमकारणमादायार्थान्तरमिति प्रयन्नेति / उदासीनप्रयन्तसिद्धावप्रयोजकत्वमिति जनकेति / पाठादिश्च पक्षसम एवेति मकरन्दः। चरमकारणं यस्य नाशस्य तत्प्रतियोगीत्यर्थः / अष्टद्वारकप्रयत्नस्यापि कालादिकारणसमानकाली. नतयाऽर्थान्तरतावस्थ्यमत उक्तं घरमेति / कालीनादिसमानकालीनत्वमादायार्थान्तरत्वमत प्राह प्रयत्नेति / उदासीनप्रयत्नसिद्धयाऽर्थान्तरमत उक्तं स्वजनकेति / केचित्तु उदासीनसिद्धावप्र. योजकत्वमिति विपक्षबाधकसूचनाय तदित्याहुः / स्वपदं चरमकारणपरं ध्वंसपरं वा / न चैवं टिप्पणी ननु व्यवहारस्यानादित्वात्पूर्वपूर्वकुलालादिप्रयुक्त एव सर्वो व्यवहारः सेत्स्यतीति किमीश्वरेणैत्यत भाह विच्छेदेनेति / प्रलये विच्छेदेन व्यवहारस्य नानादित्वम् / एवं वक्ष्यमाणवेदजन्यधीप्रामाज्यरूपप्रत्ययादिहेतोः आदिपदप्रायवक्ष्यमाणश्रुतिसंख्याविशेषयोरपि पूर्ववत् कार्यत्वादेव निरुपाधित्वम् , अनुकूलतर्कवत्त्वं बोध्यम् /