________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जली [ 4 कारिकाव्याख्यायो धृतेः खल्वपि। क्षित्यादिब्रह्माण्डपर्यन्तं हि जगत् साक्षात् परम्परया घा विधारकप्रयत्नाधिष्ठितं गुरुत्वे सत्य ऽपतनधर्मकत्वाद्वियति विहङ्गमशरीरवत् तत्संयुक्तद्रव्यवञ्च / एतेनेन्द्राग्नियमादिलोकपालप्रतिपादका अध्यागमा व्याख्याताः। सर्वावेशनिबन्धनश्च सर्वतादात्म्यव्यवहारः-आत्मैवेदं सर्वमिति / यथैक एव मायावी अश्वो वराहो व्याघ्रो वानरः किन्नरो भिक्षुस्तापसो विप्र इत्यादि / अदृष्टादेव तदुपपत्तेरन्यथासिद्धमिदमिति चेत् / तद्भावेऽपि प्रयत्नान्धयन्यतिरेकानुविधानेन तस्यापि स्थिति प्रति कारणत्वात् / कारणैकदेशस्य च कार. णान्तरं प्रत्यनुपाधित्वात् , उपाधित्वे वा सर्वेषामकारणत्वप्रसङ्गात् / शरीरस्थितिरेवं नत्वन्यस्थिति रितिचेत् / न / प्राणेन्द्रिययोः स्थितेरव्यापनात् ,प्रान्यायेनापास्तत्वाच्च / अत्राप्यागमः-एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ. विधृते तिष्ठतः' इति / प्रशासनं-दण्डभूतः प्रयत्नः। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ इति स्मृतिः। अत्रोत्तमत्वमसं. सारित्वं सर्वज्ञत्वादि च / परमत्वं सर्वोपास्यता। लोकत्रयमिति सपिलक्षणम् / आवेशो ज्ञानचिकोर्षाप्रयत्नवतः संयोगः। भरणं धारणम् / अव्ययत्वमागन्तुकविशेषगुणशून्यत्वम् / ऐश्वर्य संकल्पाप्रतिघातः इति / एतेन कूर्मादिविषया अध्यागमा व्याख्याताः। प्रकाशः। अधिष्ठात्रा प्रकृतिः परमाणुः। तित्यादीति / क्षित्यादिकं प्रयलप्रतिबद्धपतनं(१) गुरुत्वे सत्यपातित्वादित्यर्थः। विहगादिसंयुक्तद्रव्यान्तरेण व्यभिचारनिरासाय तत् साध्येऽन्तर्भावयति साक्षात् परम्परया वेति / तत्र दृष्टान्तमाह तत्संयुक्तेति / एतेन धारकप्रयत्नधृतत्वव्युत्पादनेन / व्याख्याताः, मुख्यार्थतयेति शेषः। नन्विन्द्रादिदेवताभेदप्रतिपादकागमस्य मुख्यार्थतायामभेदप्रतिपादकागमविरोध इत्यत आह सर्वावेशेति / आवेशो ज्ञानादिमत्संयोग इति वक्ष्यते / तद्भावेऽपीति / पतनप्रतिबन्धकसंयोगभेदः स्थितिः / श्रत एच वायुसंयोमादा प्रकाशिका। तत्र दृष्टान्तमिति / तद्विशेषपुररस्कारेण सामान्यदृष्टान्तमित्यर्थः। शेष इति / तल्लोकधारकप्रयत्नाश्रयतया तेषां परस्परमन्त्राच्च भेदसिद्धावद्वैतनिरासे मुख्यार्था एवेन्द्रादिदेवताभेदप्रतिपादकागमा इत्यर्थः। आवेश इति / ज्ञानादिमता ईश्वरेण संयोगः सम्वन्धः साक्षात्परम्परासाधारणः यथाश्रुते व्यापकेऽव्याप्तेः। अत एवेति / अन्वयव्यतिरेकाभ्यां स्थितिं प्रति प्रयत्नस्य हेतुत्वादेवेत्यर्थः। अदृष्टद्वाराऽस्मदादिनाश्यत्वेनार्थान्तरमित्यनुशयादाह स्वजनकेति / स्वजनकप्रयत्नेन समानका मकरन्दः। मुख्यार्थतयेति शेष इति / धारकप्रयत्नात्तदाश्रयाच भेदसिद्धावद्वैतनिरासे इन्द्रादिदेवतानां परस्परभेदप्रतिपादकागमा मुख्यार्था एवेत्यर्थः / श्रावेश इति / ज्ञानादिमता ईश्वरेण संयोगः सम्बन्धः साक्षात्परम्परासाधारण इत्यर्थः / वक्ष्यते इति / यो लोकत्रयमाविश्येत्यत्रावेशपदव्यख्यानावसरे मूल एव / अत एवेति / प्रयत्नान्वयव्यतिरेकानुविधानेन स्थितिं प्रति तद्धेतुत्वादेवेत्यर्थः / नन्वदृष्टद्वारा अस्मदादिनाश्यत्वेनार्थान्तरमित्यनुशयादाह स्वजनकेति / स्वजनकप्रयत्नेन समानकालीनं (1) प्रयत्नप्रतिरुद्धेति प्रकाशिकाभिमतः पाठः /