________________ पंचमस्तवकै] ईश्वरसाधनम् / 505 नाभ्युपगमप्रसङ्गात् / स्पर्शवद्रव्यान्तराप्रयोगे सतीतिचेन्न / ज्वलनपवनादौ तथा भावाभ्युपगमापत्तेः / शरीरस्य स्पर्शवद्रव्यान्तराप्रयुक्तस्येति चेन्न / चेष्टयैव शरीरस्य लक्ष्यमाणत्वात् / सामान्यविशेषश्चेष्टात्वं, यत उन्नीयते प्रयत्नपूर्विकेयं क्रियेति चेन्न / क्रियामात्रेणैव तदुन्नयनात् / भोक्तबुद्धिमत्पूर्वकत्वं यत इति चेत् , तर्हि तद्विश्रान्तत्वमेव तस्य / न चैतावतैव क्रियामात्र प्रत्यचेतनमात्रस्य चेतनाधिष्ठानेन व्याप्तिरपसार्यते / विशेषस्य विशेष प्रति प्रयोजकतया सामान्यव्याप्ति प्रत्यविरोधकत्वात् / अन्यथा सर्वसामान्यव्याप्तरुच्छेदादित्युक्तम् // एतेनाऽशरीरत्वादिना सत्प्रतिपक्षत्वमपास्तम् / अत्राण्यागमसंवादः यदा स देवो जागर्ति तदेदं चेष्टते जगत्। यदा स्वपिति शान्तात्मा तदा सर्व निमीलति // अशो जन्तुरनीशोऽयमात्मनः सुखदुःस्त्रयोः। ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा // मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् / तपाम्यहमहं वर्षे निगृह्णाम्युत्सृजामि च // इत्यादि // .. अत्र जागरस्थापौ सहकारिलाभालाभौ / ईश्वरप्रेरणायामज्ञत्वमप्रयतमानत्वञ्च हेतू दर्शितौ परमाण्वादिसाधारणौ / स्वर्गश्चभ्रे चेष्टानिष्टोपलक्षणे / एतदेव सर्वाधिष्ठानमुत्तरत्र विभाव्यते-मयेत्यादिना। न केवलं प्रेरणायामहमधिष्ठाता, अपितु प्रतिरोधेऽपि / यो हि यत्र प्रभवति, स तस्य प्रेरणावद्धारणेऽपि समर्थः। यथाचीनः शरीरप्राणप्रेरणधारणयोरिति दर्शितं तपामीत्यादिना // 4 // . .... प्रकाशः। मृतशरीरक्रियायां साध्याव्याप्तरित्यर्थः / एतच्च समव्याप्तोपाध्यभिप्रायेण / मृतेत्युपलक्षणं, जीवशरीरस्याऽपि वायुवशात् क्रियायां तथात्वमिति भावः / विषमव्याप्तोपाधिपक्षे तु शरीरावयवक्रियायां साध्याव्यापकत्वं मन्तव्यम् / नेत्रेति / इदमपि दूषणं समव्याप्तोपाधिपक्षे / विषमव्याप्ते तु करादिक्रियायां साध्याव्यापकम् / स्पर्शवदिति / नेत्रादिस्पन्दनन्तु स्पर्शवद्वायुनोदनजन्यमिति नोक्तदोष इत्यर्थः / ज्वलनेति / त्वन्मते ज्वलनादिक्रिया न प्रयत्नजन्या, किन्त्वदृष्टवदात्मसंयोगजन्येत्यतस्तत्रापि समव्याप्तोपाधिपक्षे साध्यापत्तिरित्यर्थः / चेष्टयवेति / चेष्टाश्रयः शरीरमिति लक्षणपक्षेऽन्योन्याऽऽश्रय इत्यर्थः / लक्षणान्तरे तु करादिक्रिया यां साध्याव्याप्तिरिति भावः / सामान्येति / अतो नोक्तदोष इति भावः। तत्र मानमाह यत इति / क्रियामात्रेणेति / क्रियामात्रस्यैव मया प्रयत्नजन्यत्वानुमापकत्वाङ्गीकारादिति न तेनैषा जातिः सिद्धयतीत्यर्थः / विशेषस्येति / क्रियाप्रयत्नयोः सामान्यतः कार्यकारणभावनिश्चये साध्याऽव्यापकत्वमावश्यकमिति भावः / यद्वा प्रयत्नवदात्मसंयोगजसंयोग एव साध्याव्यापकत्वमिति भावः / . - ननु परमाणवो न चेतनाधिष्ठिताः प्रवर्त्तन्ते शरीरेतरत्वादिति सत्प्रतिपक्षता स्यादित्यत आह-एतेनेति। शरीरेतरक्रियायाश्चेष्टात्वाभावाद्भोक्तृप्रयत्नजन्यत्वं निवर्त्तते, क्रियामात्रे तु प्रयत्नजन्यत्वं स्यादेवेत्यर्थः / 'यदा स देव' इत्यादिपरकीयविचारे आगमविरोधप्रदर्शनम् / अध्यक्षेण प्रकाशिका। तत्साध्येऽन्तर्भावयतीति सामान्योपादानेनायमपि विशेषः संगृहीत इति होतयतीत्यर्थः / 64 न्या० कु०