________________ 504 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलो [3 कारिकाव्याख्या त्वावधारणात् / क्रियाविशेषविश्रान्तोऽयमर्थो, न तु तन्मात्रगोचरः। चेष्टा हि चेतनाधिष्ठानमपेक्षते इति चेत् / अथ केयं चेष्टा नाम ? / यदि प्रयत्नचदात्मसंयोगाऽसमवायिकारणिका क्रिया, प्रयत्नमात्रकारणिकेति वो विवक्षितम् / तन्न / तस्यैव तत्रानुपाधित्वात् / अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम् / तन्न / विषभक्षणोद्वन्धनाद्यग्यापनाद्' इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत् / कारं प्रत्यन्यं वा ? / उभयथाऽपि परमाण्वादिक्रियासाधारण्यादविशेषः। भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापारापेक्षणाच्च / शरीरसमघायिक्रियात्वं तदिति चेन्न। मृतशरीर. क्रियाया अपि चेतनपूर्वकत्वप्रसक्तः। जोवत इति चेन्न / नेत्रस्पन्दादेश्चेतनाधिष्ठा प्रकाशः। निराकार्य चेष्टात्वमुपाधिमाह क्रियाविशेषेति। तस्यैवेति / प्रयत्नवदात्मसंयोगाऽसमवायिकारणकत्वे हि परमाणुक्रियायां चेतनायो जितत्वमिति साध्यम् , तच्च नोपाधिः, साधनव्यापकस्वादित्यर्थः / विषेति / विषभक्षणादिक्रियाया अहितमरणादिप्रापकत्वादित्यर्थः / इष्टेति / विषभक्षणाद्यनुकूलक्रियाया अपि इच्छाविषयविषभक्षणादिप्रापकत्वमस्त्येव, इच्छां विना तत्र प्रवृत्त्यभावादित्यर्थः / उभयथाऽपीति। परमाग्वादिक्रियायास्त कत्तुरीश्वरस्याऽस्मदादेश्वेच्छाविषयार्थहेतुत्वादित्यर्थः / तथाच साधनव्यापकत्वादनुपाधित्वमिति भावः / साध्याव्यापकत्वमप्याह भ्रान्तेति / भ्रमप्रवृत्तस्पन्दस्येष्टरजताप्रापकत्वादनिष्टशुक्तथपरीहारकत्वाच्च तत्र साध्याव्यापकत्वादित्यर्थः / न च रजतत्वेनेच्छाविषयस्य शुक्तः प्रापकत्वमस्त्येवेति वाच्यम् / येन रूपेणेष्टं ताद्रूप्येण प्राप्तेर्विवक्षितत्वादिति भावः / मृतेति / वाय्वाऽऽदिना / प्रकाशिका। * / लीनेति / अत एवाह विशेषणीभूतेति / अत एव चेष्टात्वस्योपाधित्वशङ्कापीति भावः / साधनव्यापकत्वादीति / प्रयत्न जन्यत्वञ्चेत् , तत् कर्ममात्रे तदा तदाश्रयसंयोगासमवायिकारणकत्वमपि तत्र यः स्पन्द इत्यादिव्याप्तेरिति भावः। साध्याव्याप्तेरिति / तन्मत इति शेषः / इदमपीत्युपलक्षणम् त्वन्मतेनेत्यपि द्रष्टव्यम् मन्मते तत्र साध्यसत्वात् / त्वन्मत इति / स्पर्शवद्व्यान्तराप्रयुक्तक्रियार्थवत्त्वमेवोपाधिरित्यत्र दूषणमिदम् / यदि तु शरीरसमवायित्वस्य विशेषण मिदं तदा मूलोक्तान्योन्याश्रय एव दूषणम् / ननु साक्षात्परम्परया वेति / न समुच्चयः एक त्रोभयाधिष्ठानाभावात् / प्रत्येकगर्मसाध्ये च व्यभिचार इत्यत आह प्रयत्नप्रतिबद्धपतनमिति / मकरन्दः। णोभूतेति / अत एव चेष्टात्वस्योपाधित्वशङ्काऽपीति भावः / साधनव्यापकत्वादिति / न च कर्ममात्रस्य तत्प्रयत्नजन्यत्वेऽपि तत्संयोगसमवायिकारणत्वे मानाभाव इति वाच्यम् / यः स्पन्द इत्यादिप्रागुक्तव्याप्तस्तथात्वादिति भावः / मृतशरीरे क्रियैव कथमित्यत आह वायवादिनेति / तन्नोदनादिनेति भावः / इदमपीत्युपलक्षणं, त्वन्मतेनेत्यपि द्रष्टव्यम् / मन्मते तत एव साध्यापत्तेरिएत्वात् त्वन्मत इति / यद्यपि सत्यन्तं शरीरगर्भोपाघिविशेषणमिति ज्वलनक्रियायां तदभावादत्रोक्तिसम्भवाभावस्तथापि तदगर्भतायामिदं, तद्र्भत्वेऽन्योन्याश्रय इति विकल्प्य दृषणे तात्पर्य्यम् / ननु साक्षात् परम्परया वेति न समुच्चयः, एकत्रोभयथाऽधिष्ठानाभावात् , प्रत्येकगर्भसाध्ये च व्यभिचार इत्यत आह प्रयत्नप्रतिबद्धपतनमिति / एतेन मूले व्यर्थविशेषणमपि सूचितम् / टिप्पणी। व्यवहारवदित्यनेनाप्यनुमानेनेश्वरः सिष्यति, अत्रापि कार्यत्वादेव निरुपाधित्वम् /