________________ पंचमस्तवके ] ईश्वरसाधनम् / तमिममर्थमागमः संवदति, विसंवदति तु परेषां विचारम्. विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् / / सम्बाहुभ्यां धमति सम्पतत्रावाभूमी जनयन् देव एकः॥ अत्र प्रथमेन सर्वशत्वं, चक्षुषा दृष्टरुपलक्षणात् / द्वितीयेन सर्ववक्तृत्वं, मुखेन घागुपलक्षणात् / तृतीयेन सर्वसहकारित्वं, बाहुना सहकारित्वोपलक्षणात् / चतुथेन व्यापकत्वं, पदा व्याप्तरुपलक्षणात् / पञ्चमेन धर्माधर्मलक्षणप्रधानकारणत्वं, तौ हि लोकयात्रावहनाद् बाहू / षष्ठेन परमाणुरूपप्रधानाधिष्ठेयत्वं, ते हि गतिशीलत्वात् पतत्त्रव्यपदेशा:-पतन्तीति / सन्धमति, सञ्जनयन्निति च व्यवहितोपसर्गसम्बन्धः। तेन संयोजयति समुत्पादयन्नित्यर्थः। द्यावा इत्यूर्वसप्तलोकोपललणं, भूमीत्यधस्तात् , एक इत्यनादितेति / स्मृतिरपि-अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्त्तते-इत्यादि / एतेन ब्रह्मादिप्रतिपादका आगमा बोद्धव्याः॥३॥ आयोजनात् खल्वपि स्वातन्त्र्ये जडताहानिर्नादृष्टं दृष्टघातकम् / हेत्वभावे फलाभावो विशेषस्तु विशेषवान् // 4 // परमाण्वादयो हि चेतनायोजिताः प्रवर्तन्ते अचेतनत्वाद् वास्यादिवत् / अन्यथा कारणं विना कार्यानुत्पत्तिप्रसङ्गः। अचेतनक्रियायाश्चेतनाधिष्ठानकार्य * प्रकाशः। पार्षमिति / अस्मन्न्याये नागमविरोधोऽपि तु तत्संवादः, परोक्तन्याये तु नैवमित्याह तमिममिति / व्यवहितेति / व्यवहिताश्चेत्यनेन उपसर्गसंज्ञाविधानादिति भावः / एतेन ब्रह्मादीति। ब्रह्मादिशरीरमधिष्ठाय ईश्वर एव जगत् सृजतीत्यर्थः // 3 // खल्वपीति निपातसमुदायः, उदाहियते-इत्यर्थे वर्त्तते, न समुच्चयार्थः। स, साध्यो विश्व. विदव्यय इत्यनेनान्वीयते इत्येके / साद्धयते इत्यनुवर्तते इत्यन्ये / एवमग्रेऽपि / आ युज्यते संयुज्यतेऽन्योन्यं द्रव्यमनेनेत्यायोजनं द्यणुकारम्भकसंयोगजनकं सर्गाद्यकालीनपरमाणुकर्मात्र विवक्षितम् / तद् यदि स्वप्रयत्नादेव तेषां स्यात् , तदा परमाणुनामचैतन्यानुपपत्तिरित्याह स्वातन्त्र्ये इति / यदि च प्रयत्ननिरपेक्षाददृष्टादेव तत् स्यात् , तदा व्यणुकादीनामपि तत एवोत्पादः स्यादिति हेत्वन्तरोच्छेद इत्याह नादृष्टमिति / चेतनव्यापारसहितात्तस्मादिति भावः / तथाच सर्गाद्यकालीनद्यणुकोत्पादकं कर्म स्वसमानकालीनप्रयत्नजन्यं कर्मत्वाच्चेष्टावदिति मानार्थः / विपक्षे किं बाधकमित्याह हेत्वभाव इति / हेतोश्चेतनव्यापारस्यान्यत्रोपलब्धस्याभावे क्रियारूपफलाभाव इत्यर्थः / ननु चेष्टारूपः क्रियाविशेषस्तथा, न तु क्रियामात्रमित्यत आह विशेषस्त्विति / चेष्टा हि भोक्तृगतप्रयत्नस्य प्रयोज्या, न तु प्रयत्नमात्रस्येत्यर्थः। तर्कोपकार्य मानमाह परमाण्वादयो हीति / आयोजिता उत्पादितकर्माणः प्रवर्त्तन्ते कार्यमारभन्ते इत्यर्थः। विशेषणीभूतकर्मपक्षत्वे पूर्वदर्शितानुमाने तात्पर्यम् / विशेषस्त्वित्यि प्रकाशिका। नादुभयोरागमानुरोधमाहेत्यर्थः // 3 // मूलोक्तानुमानस्य व्याप्यमादौ व्यभिचारादाह सर्गाधका मकरन्दः / व्यभिचारातत्रापरितुष्यन् स्वयं तर्कोपकार्यमानमाह सर्गाधकालीनेति / अत एवाह विशेष टिप्पणि। स्वातन्ये जडताहानिरित्यादि / आयोजनं ( कर्मविशेषः ) प्रयत्नजन्यं कर्मत्वात् मदीय