________________ 502 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलौ [ 3 कारिकाव्याख्यायां ग्निमात्रात् पवनमात्रादा धूमकम्पो स्याताम् , न त्वेवम् / नचैवं चेतनव्यभिचा. रोऽपि शक्याऽभिधान इत्यलं बालप्रलापानां समाधानः। तदुत्पत्तेरसिद्धावपि तत्तदुपाधिविधूननेन स्वाभाविकत्वस्थितौ यदि कर्तारमतिपत्य कार्य स्यात् स्वभावमेवातिपतेदिति कार्यविलोपप्रसङ्ग इति / एतच्च सर्वमात्मतत्त्वविवेके निपुणतरमुपवादितमिति नेह प्रतन्यते / एवञ्च सिद्ध प्रतिबन्धे न प्रतिबन्ध्यादेः क्षुद्रोपद्रवस्यावकाशः। प्रतिबन्धसिद्धाविष्टापादनात् / तद्सिद्धौ तत एव तत्सिद्धेरप्रसङ्गादिति / ननु तस्य सर्वदा सर्वत्राविशेषे कार्यस्य सर्वदोत्पत्तिप्रसङ्ग इति निरपेक्षेश्वरपक्षे दोषः, सापेक्षे उपेक्षणीय एवास्त्विति बालस्य प्रदीपकलिकाक्रीडयैव नगरदाहः। तन्न। स्थेमभाजो जगत एवाकारणत्वप्रसङ्गात् / ॐमिति ब्रुवतः सौग. तस्य दत्तमुत्तरं प्राक्। आर्ष धर्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्तकंणानुसन्धत्ते स धर्म वेद नेतरः॥ प्रकाशः। दृश्यत्वमेव तन्त्रमिति न धूमाददृश्यवह्निसिद्धिर्न वा कम्पात् पवनमात्रस्यानुद्भूतस्पर्शस्य सिद्धिरित्याह न त्विति। ____ कारणत्वसिद्धावपि प्रकारान्तरेण कार्यलोपप्रसङ्गं वक्तुमाह तदुत्पत्तेरिति / ननूपा. धिविधूननमेव कथमित्याह एतच्चेति / प्रतिबन्ध्यादेरिति / शशे पशुत्वाद् दृश्यशृङ्गबा. धेऽप्यऽदृश्यशृङ्गसिद्धिरित्यादेरित्यर्थः / प्रतिबन्धसिद्धाविति / वस्तुतो विपक्षाबाधकाभावाद्यापत्यभाव इत्यर्थः / प्रकृतादर्थादर्थान्तरं शृङ्गत्वस्य योग्यसंस्थानव्यङ्ग्यत्वेनायोग्यं शृङ्गं विरोधाच्छङ्कितुमप्यशक्यं शशे शृङ्गस्यात्यन्ताभाव इति सर्वेषामबाधितप्रत्यक्षबाधश्चेति भावः। तत एवं प्रतिबन्धासिद्धेरेवेत्यर्थः / अप्रसङ्ग इति शेषः शशशृङ्गादेरित्यर्थः / दत्तमिति / कार्यस्याहेतुकत्वे कादाचित्कत्वानुपपत्तिरित्यादिनेत्यर्थः / नन्वागमादेवेश्वरसिद्धौ तत्र न्यायप्रदर्शनं व्यर्थमित्यत आह आर्षमिति / तर्कानुसन्धान विनाऽऽर्षधर्मोपदेशे तात्पर्यमेव निश्चेतुमशक्यमित्यर्थः / यदा आगमाविरोधं न्यायमाह प्रकाशिका। शृङ्गत्वस्येति / यद्यपि त्वस्य योग्यसंस्थानव्यङ्गत्ववदात्मत्वस्यापि योग्योपाधिव्यङ्गत्वनियमः, यदि तत् संसारिमात्रविश्रान्तं तदेदमपि योग्यशृङ्गनियतमिति नायोग्यप्रत्यक्षबाधः, तथापि विपक्षबाधकाभाव एव दृषणम् , शृङ्गस्य व्यतिरेकानिश्चये पशुत्वस्य केवलान्वयित्वस्वीकारे मीमांसकस्यापसिद्धान्तश्चेति भावः / शेष इति / तदसिद्धौ तत एवाप्रसङ्ग इति मूलपाठपक्षे पूरणमिदम् / क्वचित्त तदसिद्धौ तत एव तसिद्धेरप्रसङ्गादिति पाठः, तत्र च न पूरणापेक्षा। न त्वेतावतापि तर्कप्रदर्शनमुचितम् , न तु न्यायप्रदर्शनमित्यत आह यदेति / अनेन समानविषयताप्रतिपाद. मकरन्दः। शृङ्गत्वस्येति / यद्यपि शृङ्गत्वस्य योग्यसंस्थानव्यङ्गयत्ववदात्मनोऽपि योग्योपाधिमत्त्वनियमः / यदि च तत्संसारिमात्रविश्रान्तं तदा तदपि योग्यशृङ्गविश्रान्तमिति अयोग्यस्य न बाधः प्रत्यक्षे. णापि, तथापि विपक्षबाधकाभाव एव मूलम् , अन्यथा पशुत्वस्य केवलान्वयित्वापत्तेः, तस्य च स्वयाऽनभ्युपगमादिति भावः। नन्वेवमपि तर्कोपदर्शनमात्रमहं न तु न्यायोपदर्शनमित्यत श्राह यति। अनेनोभयोः समानविषयत्वप्रतिपादनात् विरोधमाह इत्यर्थः॥३॥ मूलोक्तस्य तस्य व्योमादौ