________________ पंचमस्तवके] ईश्वरवाधकखण्डनम् / तदसत् / प्रत्यक्षाऽनुपलम्भौ हि दृश्यविषयावुपायस्तदुत्पत्तिनिश्चये, न तु दृश्यतैव तत्रोपेया। किन्नाम दृश्याश्रितं सामान्यद्वयम् / तदालीढस्य हि तदुत्पत्तिनिश्चये दृश्यमदृश्यं वा सर्वमेव जातीयं तदुत्पत्तिमत्तया निश्चिवं भवति। यथा स्पर्शरूपरसगन्धानामुत्तरोत्तरनिमित्ततायां तव, अस्माकचातीन्द्रियसमवायादिसिद्धौ / न चेदेवमुदाहृतयोरेव दहनपवनयोरालोकरूपवतोस्तदुत्पत्तिनिश्चये कथमनालोकनिरस्तरूपयोः सिद्धिर्यदुदर्यस्तिमितसाधारणी सिद्धिः स्यादिति / तद्भवेदप्येवं यदि शरीरादिकं विना कार्यमिव भौमं स्पर्शवद्वेगवन्तञ्च विनाऽ. प्रकाशः। कृतिविशेषकार्यविशेषयोरन्वयव्यतिरेकाहो वाधकं विना कृतिमात्रकार्यमात्रयोर्व्याप्तिप्रहो. पायः, न तु पक्षधर्मतालभ्यविशेषयोरन्वयादिप्रहः, यथा वह्निधुमविशेषयोरन्वयादिमा तत्सामान्ययोरपि व्याप्तिप्रहः, अन्यथाऽनुमानमात्रोच्छेदादित्याह-प्रत्यक्षानुपलम्भाविति / अन्यथा पाकं प्रत्यालोकात्मकस्यैव वहः कम्पं प्रति रूपवत एव दण्डादेः प्रत्यक्षानुपलम्भाभ्यां कारणत्वनिश्चयादनालोकात्मकजाठर्यदहनस्य निरस्तरूपस्य पवनस्य च कथं सिद्धिः स्यादित्याह न चेदेवमिति / उदाहृतयोः पूर्वोक्तयोरित्यर्थः / दहनपवनयोरनालोकनिरस्तरूपयोः कुतः सिद्धिरालोकरूपवतोरेव तदुत्पत्तिनिश्चये सतीति योजना। आलोकवत एव वढेधूमोत्पत्तिनिश्चये रूपवत एव हस्तादेर्लोष्टादौ कम्पनिश्चये सतीत्यर्थः / अदृश्यवहे—मानुत्पत्तेः पवनमात्राच कम्पानुत्पत्तेस्तत्र - प्रकाशिका। त्वम् / स्तिमितत्वं = वेगशून्यत्वम् / कृतिविशेषेति / अतिप्रसक्तत्वेनाज्ञातस्यान्वयव्यतिरेकविषयवृत्तितया ज्ञायमानस्य व्यवच्छेदकत्वग्रह इति भावः / श्रालोकात्मकस्येति / आलोकवत इत्यर्थः / तथा च पाकेन जठर्यवन्हिसिद्धिः कम्पेन च पवनो नानुमीयेतेत्यर्थः / पूर्वोक्तयोरिति / यद्यपि पवनस्तिमित एवं पूर्वमुक्तम् , स च न कम्पानुमेयः, तथापि च कम्पमारुतवच्चत्यनेन कम्पजनकवायोरपि पूर्वोक्तत्वमिति भावः / दहनस्तु जठर्य एव बोध्यो न तु धूमामिवदित्यनेनोदा. हृतः, अत एवोदाहृतयोरित्यस्य पूर्वोक्तयोरिति व्याख्या कृता, अन्यथा दृष्टान्तकृतयोरित्यर्थे धूमजनकामिलाभे प्रकृतासातेः / पाकोत्पत्तिनिश्चय इति प्रामाणिकः पाठः / क्वचिद् धूमोत्पत्तिनिश्चय इति पाठः, तत्र धूमपदं पाकपरम् / एवमूष्ममात्रादित्यत्राप्युष्मपदं वाष्पमात्रपरम् / क्वचित् पाठ एव तथा। मकरन्दः। वत इत्यर्थः। तथा च पाकेन जाठर्व्यवह्निः कम्पेन पवनो नानुमीयेतेत्यर्थः / पूर्वोक्तयोरिति / यद्यपि पवनः स्तिमित एव पूर्वोक्तः स च न कम्पानुमेयस्तथापि कम्पमारुतवच्चेत्यनेन कम्पजनकवायोरपि पूर्वोक्तत्वमिति भावः / दहनस्तु धूमाग्निवदित्यनेनोक्तो न बोध्यः, किन्तु जाठर्य एव। उदाहृतस्थल एवेति जाठर्यलाभात् पूर्वोक्तयोरित्यर्थ इति व्याख्यातमिति ध्येयम् / धूमोत्पत्तिनिश्चय इति पाठे धूमपदेनैव पाक उपलक्षितः। तस्यैव जाठर्य्यवह्निसाधकत्वादुपक्रान्तत्वाच्चेति / तेनापि आठ>वह्निसिद्धिर्न स्यादित्यर्थः। उष्ममात्राचेति यदि पाठस्तदा उष्मपदं वायुपरमेवेति बोध्यम् / दोषान्तरमाह प्रकृतादिति / टिप्पणी। ति। कार्यतावच्छेदककोटौ कारणतावच्छेदकोटौ च दृश्यत्वमप्रवेश्यैव तेन तेन सामान्यरूपेण कार्यकारणभाव इत्याह नतु दृश्यतैवेत्यादि / तदालीढस्य-उक्तसामान्यधर्मावच्छिन्नस्थ // 3 //