________________ 500 व्याख्ययात्रोपेतप्रकाशयुते न्यायकुसुमाअलौ [ 2 कारिकाव्याख्यायो तर्काभासतयाऽन्येषां तर्काशुद्धिरदूषणम् / अनुकूलस्तु तर्कोऽत्र कार्यलोपो विभूषणम् // 3 // ___ कारकव्यापारविगमे हि कार्यानुत्पत्तिप्रसङ्गः। चेतनाचेतनव्यापारयोहेतुफलभाषावधारणात्कारणान्तराभावे इव कर्बभावे कार्यानुत्पत्तिप्रसङ्गः, कर्तुरपि कारणत्वात् / यस्त्वाह-प्रत्यक्षानुपलम्भाभ्यां तदुत्पत्तिनिश्चयो दृश्ययोरेव, न त्वदृश्ययोः। प्रत्यक्षस्यानुपलम्भस्य च तावन्मात्रविधिनिषेधसमर्थत्वात् , धूमाग्निवत् , कम्पमारुतवच्च / न हि धूमः कार्योऽनलस्येति उदर्यस्यापि, न हि शाखाकम्पो मातरिश्वन इति स्तिमितस्यापि स्यात् , किन्तु भौमस्पृश्ययोरेव / तथेहापि शरीरवत एव कारणत्वमवगन्तुमुचितं, नान्यस्येति / प्रकाश। तर्कापरिशुद्धिश्च यदि प्रतिकूलतर्काप्रतीघातस्तदा तेषां यदि ईश्वरः कर्ता स्याच्छरीरी स्यादित्यादीनां तर्काणामीश्वरसिद्धथसिद्धिभ्यां व्याघातेनाभासत्वान्न दूषणत्वमित्याह-तर्कामासतयेति / अथानुकूलतर्काभावरूपा सा ? तत्राह अनुकूलस्त्विति / कर्तुः कारणस्याभावे कार्य न स्यादित्येवानुकूलस्तर्क इत्यर्थः // ___ननु कर्मभावेऽपि कारणान्तरव्यापारात् कार्यं स्यादित्यत श्राह-कारकव्यापारेति। कारकान्तरव्यापार प्रति चेतनव्यापारस्य हेतुत्वात् कञभावे सोऽपि न स्यादित्यर्थः / कारणान्तरव्यापारसत्त्वेऽपि कञभावे कार्य न स्यात् यत्किञ्चित्कारणाभावस्य कार्यानुत्पत्तिव्याप्यत्वादित्याह-कारणान्तरेति / सौगतमाह यस्त्विति / कृतिमात्रकार्यमात्रयोर्नान्वयव्यतिरेकाभ्यां व्याप्तिप्रहः, त्वन्मते व्यापककृतेः सत्त्वेनायोग्यकृतेर्व्यतिरेकाऽनिरूपणात् / यदि च कृतिमात्रेण व्याप्तिग्रहाददृश्यकर्तृसिद्धिः, तदा वह्निमात्रव्याप्यधूमाददृश्यजाठर्यादिवह्निरपि सिद्ध्येत् / शाखाकम्पे चायोग्यस्यापि स्तिमितवायोः कारणताग्रहश्च स्यादित्यर्थः / प्रकाशिका। तदर्थतो तत्सिद्धिरिति भावः / न चैवं घटपटगोचरज्ञानेन पटेष्ठसाधनतानवशाहिना जनितायां घटमा त्रगोचरेच्छायां पटगोचरतापत्तिरिति वाच्यम् / तज्ज्ञानस्य घटांश एवेच्छाविषयतात्मकत्वात् ज्ञानरूपसम्बन्धस्य फलवलकल्पनीयत्वादिति / अयोग्यस्यापीति / अयोग्यत्वम् = उद्भूतस्पर्शशून्य मकरन्दः। अयोग्यस्यापोति। उद्भुतस्पर्शवेगशून्यवायोरित्यर्थः / पालोकात्मकस्येति / आलोक टिप्पणी। प्रयत्नपूर्वकत्वसाधने कार्यबुद्धेरुपाधित्वं प्रतिक्षिपति कार्यबुद्धीति / तर्काभासतयेति / अन्येषाम् क्षित्यादिकं यदि सकर्तृकं स्यात् शरीरजन्यं स्यात्, यदि बुद्धिमत्पूर्वकं स्यात् अनित्ययत्नजन्यं स्यात्, यदि नित्यप्रयत्नजन्यं स्यात् बुद्धीच्छाजन्यं न स्यात् ईश्वरो यदि कर्ता स्यात् शरीरी स्यादिति तर्काणामाभासत्वात् प्रतिकूलतर्केण या क्षितिः सकर्तृका कार्यवादित्यनुमानेऽशुद्धिरीश्वरास्तित्वनिराकरणरूपोद्भाव्यते सा न दूषणम् तत्र हेतुमाह / मदीये त्वनुमाने क्षित्यादिकं सकर्तृकं न स्यात् कार्यमेव न स्यात् कार्यलोपः स्यात् इत्यनुकूलस्तर्को भूषणमस्तीत्यर्थः / दृश्ययोरेव कार्यकारणभावो नादृश्ययोः यतोऽयं प्रत्यक्षानुपलम्भाभ्याम् तत्सत्त्वेतत्सत्त्वं तदभावे तदभाव' इत्यन्वयव्यतिरेकाभ्याम् अवधार्यते न चादृश्ययोरेतौ सम्भवत इति सौगतमतमाह यस्त्वि