________________ છ6 पंचमस्तवके ] ईश्वरबाधकखण्डनम्। धिरिति निरस्तम् / यो हि बुद्धया शरीरवच्छरीरनिवृत्त्या बुद्धिनिवृत्तिवद्वा प्रयत्नेन बुद्धि बुद्धिनिवृत्त्या प्रयत्ननिवृत्ति साधयेत् , स एवं कदाचिदुपालभ्यः। वयं त्ववगतहेतुभावं कलितसकलशक्तिकारकप्रयोक्तारं कार्यादेवानुमिमाना नैवमास्कन्दनीयाः, तत्र तस्यानुपाधित्वात् / न च प्रयत्न प्रात्मलाभार्थमेव मतिमपेक्षते। विषयलाभाऽर्थमप्यपेक्षणात् / ततः प्रयत्नाद् बुद्धिः, तन्निवृत्तेश्च प्रयत्ननिवृत्तिः सिद्धयत्येवेति विस्तृतमन्यत्र / कार्यबुद्धिनिवृत्त्या तु कार्य एव प्रयत्नो निवर्त्तते, न नित्यः। नित्ये च प्रयत्ने नित्यैव बुद्धिः प्रवर्त्तते, नानित्या / न हि तया तस्य विषयलाभसम्भवः। शरीरादेः प्राक् तदसम्भवे देहानुपपत्तौ सर्वानुपपत्तेः। शरीराजन्यत्ववच्चानित्यप्रयत्नाजन्यत्वमिति संक्षेपः / प्रकाशः। विशिष्टसिद्धिः, साध्याभावव्यापकाभावप्रतियोगिन एव साध्यगमकत्वात्-इत्यपास्तम् , ज्ञानाचेकै कजन्यत्वस्यैव साध्यत्वात् , तथैव व्याप्तेरिति भावः / तत्रेति / ज्ञानाद्येकैकजन्यत्वे साध्ये इत्यर्थः / तस्य प्रयत्नगतकार्यत्वस्येत्यर्थः / किश्च यदि प्रयत्नेन बुद्धिः स्वोत्पत्त्यर्थमेवापेक्ष्यते, तदा प्रयत्नगतकार्यत्वमेवोपाधिः स्यात् , न चैवम् , प्रयस्नस्य निर्विषयकत्वेन ज्ञानविषयेषु कार्यजनकमिति तदर्थ बुद्धथपेक्षा स्यादेवेत्याह, नच प्रयत्न इति / तथापि नित्या बुद्धिः कुतः सिद्धयतीत्याह नित्ये च प्रयत्न इति / न हीति / बुद्धयनित्यत्वे तद्धेतुशरीरात् प्राक् तदभावे शरीरोत्पत्तिरेव न स्यादिति कदाऽपि सा बुद्धिर्न जायतेत्यर्थः / अनित्यप्रयत्नाजन्यत्वात् क्षित्यादेरकर्तृकत्वे साध्ये शरीराजन्यत्ववध्यर्थविशेषणत्वमित्याह शरीराजन्यत्ववदिति। प्रकाशिका। वस्तुतो न प्रयत्नात्तत् सिद्धिरपि तु तत्समूहालम्वनरूपैवानुमितित्रितयगोचरेत्याह कार्यत्वस्येति / ज्ञानाद्यकैकेति / प्रत्येकव्याप्तिरिति भावः / प्रयत्नगतेति / बुद्धिजत्वे साध्येऽनित्यप्रयत्नजत्वं नोपाधिः, प्रयत्न एव साध्याव्यापकत्वात् प्रयत्नजत्वे च तन्नोपाधिः, सामान्ये विशेषस्यानुपाघित्वादिति भावः / प्रयत्नस्य निर्विषयकत्वेनेति / ज्ञानवत् स्वाभाविकसविषकत्वाभावेनेत्यर्थः / तथा च समानाधिकरणस्वाधिकरणक्षणाव्यवहितपूर्ववर्तिताज्ञानमेवेच्छाप्रयत्नविषयतेति / ___ मकरन्दः। नरूपैवानुमितिर्न तु प्रयत्नात्तत्सिद्धिरित्येकदैव त्रितयजन्यत्वं सिद्धयतीत्याह कार्यत्वादिति / ज्ञानाचेकैकेति / प्रत्येकव्याप्तिभिरिति शेषः / टिप्पणी। चिकीर्षा तत्कारणं या बुद्धिस्तव्यापकत्वमनित्यप्रयत्नस्येति शंकते अनपेक्षेत्यादि / ननु क्षित्यादौ बुद्धिपूर्वकत्वेन हेतुना शरीरपूर्वकत्वानुमाने यथा कार्यबुद्धिपूर्वकत्वमुपाधिर्मा प्रत्यभिधीयते, एवं भवत्पक्षेऽपि प्रयत्नेन बुद्धयनुमाने कार्यप्रयत्नस्योपाधित्वं स्यादित्याशंकामपाकरोति एतेनेति / तत्र हेतुमाह यो हीति। बुद्धिनिवृत्येति। तत्र व्यतिरेकव्याप्तौं प्रयत्नेन बुद्धिः साध्या तत्र जन्यप्रयत्नस्योपाधित्वमिति भावः। वयंत्विति। तथा च क्षितिः सकर्तृका कार्यत्वादित्यनुमाने यदिजन्यप्रयत्ना. दिरुपाधिः स्यात् तदा उपाधेस्तस्याभावेन सकर्तृकत्वाभावोऽनुमीयेत, तत्र यदि क्षित्यादिकं सकर्तृक न स्यात् कार्यमेव न स्यादिति प्रतिकूलतर्कस्य जागरूकत्वानोपाधिरिति भावः। आत्मलाभ:-उत्पत्तिः। विषयलाभार्थमिति। मतिविषयविषयक एव भवति प्रयत्नोऽतस्तां विना प्रयत्नस्वरूपमेव न निष्पद्येतातोऽपि प्रयत्नस्य निरुपाधिकी बुद्धिव्याप्तिरित्यर्थः / बुद्धिरिति सिध्यत्येवेत्यन्वयः /