________________ 468 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जली [ 2 कारिकाव्याख्यायो कुर्वन्तश्चकादिकं नेतामहे / हेतुभूता कारकबुद्धिर्निवर्त्तते इति चेन्न / अयतमानस्यापि दुःखहेतुभूताया अपि तद्धेतुकण्टकस्पर्शबुद्धरभावात् / चिकीर्षा हेतुभूतोऽ. नुभवो निवर्त्तते इति चेन्न / केनचिन्निमित्तेनाऽकुर्वतोऽपि चिकीर्षातद्वेतबुद्धिसम्भपात्। अनपेतकृतिहेतुचिकीर्षाकारणं बुद्धिनिवर्त्तते इति चेद्, न तर्हि बुद्धिमात्रम्। तथावानित्यप्रयत्नहेतुकत्वप्रयुक्तं विशिष्टप्रयत्नचिको हेतुबुद्धिमत्पूर्वकत्वमिति तन्निवृत्तौ तदेव निवर्त्ततां, न तु बुद्धिमत्पूर्वकत्वमात्रम् , तत्र तस्याप्रयोजकत्वादिति बुद्धिमत्पूर्षकत्वसाध्यपक्षे परीहारः। सकर्तृ कमिति प्रयत्नप्रधानपक्षे शङ्केच नास्ति, तस्यैव तत्रानुपाधित्वात्॥ ___एतेन शरीरसम्बन्धे बुद्धिगतकार्यत्ववद् बुद्धिसम्बन्धे प्रयत्नगतकार्यत्वमुपा. प्रकाशः। इत्यर्थः / उदासीनबुद्धरिति कर्मधारयः / दुःखहेत्विति। दुःखहेतुश्चासौ कण्टकस्पर्शश्चेति विप्रहः / तस्य बुद्धरित्यर्थः। __ तत्रेति / बुद्धिमत्पूर्वकत्वे साध्ये। तस्य-अनित्यप्रयत्नस्य / प्रयोजकत्वे वोदासीनबुद्धेर्निवत्तिप्रसङ्ग इति भावः। तदनेन प्रबन्धेन यो बुद्धिमत्पूर्वकमिति साध्यं प्रतिजानीते, तदनुकूलतया परिहतम् / यदा तु सकर्तृकमिति प्रधानीभूतकृतिविषयाप्रधानीभूतबुद्धिमत्पूर्वकत्वं प्रतिज्ञायते, तदानीमनित्यप्रत्नस्योपाधित्वशङ्काऽपि नास्तीत्याह बुद्धिमदिति / ___ननु प्रधानीभूतकृतिपूर्वकत्वसाध्यपक्षे बुद्धिरप्रभानीभूता कुतः सिद्धयेत् ? न हि यत्नात्तसिद्धिः, शरीरसम्बन्धे ज्ञानगतकार्यत्ववद् बुद्धिसम्बन्धेऽपि प्रयत्नगतकार्यत्वस्योपाधेः सुवचत्वात् , तथा च कृतिमात्रशाली कर्ता प्राप्त इत्यत आह एतेनेति / प्रयत्नानित्यत्वस्यानुपाधित्वेनेत्यर्थः / कार्यत्वादेकैकजन्यत्वं सिद्धयेत् त्रितयजन्यत्वमपि सिद्धयति / आर्थस्तु समाजः। अत एव-ज्ञानादित्रयव्यतिरेकान्न कार्यव्यतिरेका, किन्त्वेकैकव्यतिरेकादिति व्यर्थविशेषणत्वेन विशिष्टव्यतिरेको न हेतुव्यतिरेकव्याप्य इति न हेतो प्रकाशिका। मुक्तमिति तदर्थत्वे प्रयत्नाभानतोन स्यादिति प्रयत्नजनकपरेण उदासीनपदेन कर्मधारयसमासात्तदर्थलाभः स्यादित्यभिप्रेत्याह कर्मधारय इति / कर्मधारये बुद्धेर्हेतुत्वं पृथगेवोक्तमिति विषयस्य कारकत्वलाभायाह दुःखहेतुश्चासाविति। तदानीमनित्येति / यद्यपि विशिष्टाविशिष्टभेदाङपाध्युपाधिमद्भावः संभवत्येव, तथापि व्याप्यव्यापककोटौ निवेशयत एव प्रमाणस्य व्याप्तिग्राहकत्वमिति मते विशिष्टस्य व्यापकताग्रहानुपपत्तेरुपाधित्वाभाव इति भावः / वस्तुतो हेतौ विपक्षबाधकादेव नायमुपाधिरिति स्मर्त्तव्यम् / प्रयत्नानित्यत्वस्येति / तथा च प्रयत्नादेव बुद्धिसिद्धिरिति भावः / ____मकरन्दः। ननूदासीनो निष्प्रयत्न इत्यनर्थानन्तरम् , तथा च प्रयत्नाभावेऽपीति व्यर्थमत आह कारणानीति / प्रयत्नाभावलाभार्थमाह उदासीनबुद्धेरिति / पूर्वोक्त व्याख्यानेन तदलाभेऽपि प्रयत्नाजमकबुद्धेरिति कर्मधारयात्तदर्थपर्यवसाने तल्लाभ इत्यर्थः / पौनरुक्त्यभ्रमं निवारयति दुःखहेतुश्चेति। एतच्च कारकत्वद्योतनार्थम् / यदा त्विति / यदि कृतिजन्यत्वमेव साध्यमित्यर्थः / एवञ्च बुद्धि मत्पूर्वकत्वस्याप्राधान्यमनुपादानमेवेति बोध्यम् / यद्यपि विशिष्टाविशिष्टभेदादुपाधित्वं सम्भवति, तथापि व्याप्यं व्यापककोटावनिवेशयत एव व्याप्तिग्राहकत्वमिति मते साध्यव्यापकत्वाग्रहादुपाधित्वमिति भावः / वस्तुतो हेतौ विपक्षबाधकसम्भवादत्र च तदभावान्न तथात्वमिति / / प्रयत्नानित्यत्वस्येति / तथा च प्रयत्नादेव बुद्धिसिद्धिरिति भावः / वस्तुतस्तु समूहालम्व