________________ पंचमस्तवके] ईश्वरबाधकखण्डनम् / परमाण्वदृष्टायधिष्ठातृत्वसिद्धौ ज्ञानाऽऽदीनां सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि न्यायप्राप्तत्वात्। न तु तदधिष्ठानार्थमेवेश्वरसिद्धिः // . न तृतीयः / तस्मिन् प्रमाणाभावात्। तथाप्येकाऽधिष्ठितमपरः किमर्थमधितिष्ठतीति प्रश्ने किमुत्तरमिति चेत्। हेतुप्रश्नोऽयं, प्रयोजनप्रश्नो वा ? / नाद्या / ईश्वराधिष्ठानस्य नित्यत्वात् / कुविन्दाद्यधिष्ठानस्य स्वहेत्वधीनत्वात् / न द्वितीयः / कार्यनिष्पादनेन भोगसिद्धः स्पष्टत्वात् // . एकाधिष्ठानेनैव कार्य स्यादिति चेत्। स्यादेव / तथापि न सम्भेदेऽन्यतरवैयर्थ्यम् / परिमाणं प्रति सङ्ख्यापरिमाणप्रचयवत् प्रत्येकं सामोपलब्धौ सम्भूयकारित्वोपपत्तेः॥ अस्ति तत्र वैजात्यमिति चेत् / इहापि किश्चिद्भविष्यतीति / न चाकुर्वतः कुलालादेः कायसङ्क्षोभादिसाध्यो भोगः सिद्धयेदिति तदर्थमस्य कर्तृत्वमीश्वरोऽनुमन्यते, तदर्थमात्रत्वादैश्वर्यस्येति // __ यत्त्वनित्यप्रयत्नेत्यादि। भवेदप्येवं यद्यनित्यप्रयत्ननिवृत्तावेव बुद्धिरपि निवतंत, न त्वेतदस्ति, उदासीनस्य प्रयत्नाभावेऽपि बुद्धिसद्भावात्। हेतुभूता बुद्धिनिवर्तते इति चेन्न / उदासीनवुद्धरपि संस्कारं प्रति हेतुत्वात्। कारक विषया बुद्धिर्निवर्त्तते इति चेन्न / उदासीनस्यापि कारकबोद्धृत्वात्। न हि घटादिकम 'प्रकाशः। युपादानविषयत्वमपीति कथं न तेषां पटादिकारणत्वं, कुविन्दज्ञानादितुल्यत्वादित्याह परमाण्विति / पटाकाशसंयोगादिकं प्रति ईश्वरस्य कर्तृत्वात् पटादिगोचरमपि ज्ञानं सिद्धमिति भावः / न त्विति / न त्वधिष्ठिताधिष्ठानार्थमेवेत्यर्थः / यथा कुविन्दाधिष्ठानमन्वयव्यतिरेकाभ्यां तथेश्वरस्याधिष्ठानं, ज्ञानादीनां नित्यतया सर्वविषयत्वात् / तद्वदधिष्ठात्रन्तरकल्पनायां न मानमस्ति, येनानवस्था स्यात् / कार्ये हि कर्तृत्वेन कारणता, न द्विकर्तृत्वादिनेति न तत्सिद्धिरित्याह प्रमाणाभावादिति / वैजात्यमिति / प्रत्येकजन्यव्यावृत्तं कारणमेलकव्यङ्गयमित्यर्थः / इहापीति / द्विकर्तृके घटादावेकर्तृकक्षित्यादेवैजात्यमित्यर्थः / उदासीनस्येति / कारणानि अव्यापारयत प्रकाशिका। रेणापि घटादिगोचरत्वं तस्य सिद्धमित्याह पटाकाशेति / ननूदासीनो निःप्रयत्न एवोच्यते तथा च प्रयत्नाभावेपीति व्यर्थमत आह कारणानीति / उदासीनशब्दस्य कारकाव्यापारयितृत्वमर्थपूर्व मकरन्दः। सिद्धमिति पटादिविषयत्वासिद्धेस्तदुपादानाधिष्टानं न स्यादित्यत आह पटाकाशेति। वस्तुतो नियतविषयता कारणाधीनेति नित्यतयैव सर्वविषयत्वमिति भावः / तदिदमाह नित्यतयेति / टिप्पणी। प्रमाणाभावादिति / कार्य प्रति कर्तृत्वेन कारणता नतु द्विकर्तृत्वेन तथा च द्विकर्तृकत्वानुमानमनुकूलतर्कशून्यमित्यर्थः। संभेदे-द्वयोःप्राप्तौ सत्याम्। सम्भूयेति।प्रचयजन्यतूलकपरिमाणोत्पत्तिस्थले प्रत्येकं स्वस्वकार्य प्रति कारणयोरपि संख्यापरिमायोरबर्जनीयतयाऽऽगतत्वात् यथा त्रयाणां सनिपातस्तथेत्यर्थः / त्रयाणां सन्निपातस्थले वैजात्यमाशंकते अस्तीति / स्वीकरोति इहापीति / कायसंक्षोभादिः-कायव्यापारादिः / किंचित्कार्यमकुर्वतः कुलालादेः कायव्यापारसाध्यो भोगश्चन सिध्येदतः कुलालादेरपि कर्तृत्वमित्याह नचेति / अनित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीवत्कार्यत्वमित्यादिनाऽभिहितमुपाधि निरस्यति यत्त्विति।अनित्यप्रयत्नस्य बुद्धिव्यापकत्वे तन्निवृत्तौ बुद्धिर्निवर्तेतातस्तस्य व्यापकत्वं विघटयति उदासीनस्येति / अव्यवहितपूर्वत्वसम्बन्धेन कृतिविशिष्टा या 63 न्या० कु०