________________ 466 व्याख्ययात्रोपेतप्रकाशयुते न्यायकुसुमाखलौ [ 2 कारिकाव्याख्यायो तथा च साक्षात्प्रयत्नाऽधिष्ठितेतरजन्यत्वादिति साध्यसमः। इन्द्रियाश्रयेतरजन्यत्वाद् भोगायतनेतरजन्यत्वादिति द्वयमप्यन्यथासिद्धम् / कार्यज्ञोनाद्यनपेक्षत्वाच्छरीरेतरजन्यमपि स्यात्। अचेतनहेतुकत्वाचेतनाधिष्ठितमपीतिको विरोधः॥ अप्रसिद्धविशेषणश्च पक्षः / नहि चेतनानधिष्ठितहेतुकत्वं क्वचित् प्रमाणसिद्धम् / न च चेतनाधिष्ठितहेतुकत्वनिषेधः साध्यः, हेतोरसाधारण्यप्रसङ्गात् / गगनादेरपि सपक्षाघ्यावृत्तेः॥ __यत् पुनरुक्तं-कुविन्दादेः पटादौ कथमपेक्षेति / तत्र कारकतयेति कः सन्देहः / किन्तु कारकत्वमेव तस्य ज्ञानचिकीर्षाप्रयत्नवतो न स्वरूपतः। तदेव चाऽधिष्ठातृत्वम् // यत्त्वधिष्ठिते किमधिष्ठानेनेति / तत् किं कुविन्द उद्धार्यते, ईश्वरो वा, अनवस्था वाऽऽपाद्यते। न प्रथमः। अन्वयव्यतिरेकसिद्धत्वात्। न द्वितीयः / प्रकाशः। न्तराप्रेर्यमाणत्वाच्छरीरानपेक्षक्रियोऽपि स्याद् , न विरोध इत्यर्थः / क्षित्यादिकं न चेतनाधिष्ठितहेतुकं शरीरेतरजन्यत्वादित्यत्रापि शरीरपदार्थस्य विकल्पत्रये दोषमाह-तथा चेति / ___ दूषणान्तरमाह अप्रसिद्धेति / ननु चेतनाऽधिष्ठितहेतुकत्वं तावदन्यत्रावगतमतः प्रतीतप्रतियोगिकत्वे तनिषेधः शक्यसाधनः स्यादित्यत आह न चेति / कुविन्द इति / ईश्वरेणैव तन्त्वादेरधिष्टानात् किं तदर्थ कुविन्देनेत्यर्थः / ईश्वरो वेति / कुविन्देनैव च तन्त्वादेरधिष्ठानात् किं तदर्थमीश्वरेणेत्यर्थः / अनवस्था वेति / घटादेर्द्विकर्तृकतया तत्दृष्टान्तेन कार्यत्वात् क्षित्यादेरपि द्विकर्तृकत्वापत्तौ तस्यापि पक्षधर्मताबलात् सर्वज्ञेन सर्वज्ञाधिष्टातृसिद्धौ पुनर्घटादिदृष्टान्तेन क्षित्यादौ कर्तृत्रयं स्यादिति पुनर्घटवत् क्षितिः क्षितिवद् घट इतीश्वरानन्त्यं स्यादित्यर्थः / अन्व. येति / कुविन्दव्यापारस्यान्वयव्यतिरेकादित्यर्थः / ईश्वरज्ञानादीनां नित्यत्वेन सर्वविषयत्वात् पटा प्रकाशिकाः। क्षित्यादिकमिति / यद्यपि यथाश्रुते न साध्याविशेषः, उपाधिभेदात् / तथापि चेतनाधिष्ठानमपि प्रयत्नाधिष्ठानद्वारैवेति प्रयत्नाधिष्ठितहेतुकत्वमेव फलतः साध्यमिति साध्याविशेषो द्रष्टव्यः / वस्तुतः साध्यवदसिद्धो हेतुरित्येव साध्यसम इति द्रष्टव्यम् / मास्तु सर्वविषयत्वं तथापि प्रकारान्त ___ मकरन्दः / तदनपेक्षत्वादित्यत्र तत्पदेनोभयपरामर्शाद्धेतुद्वये तात्पर्यमित्याह स्वव्यापार इति / एवञ्च त्रयमिति मूलस्य चतुष्टयमिति तात्पर्यम् / क्षित्यादिकमिति / यद्यपि यथाश्रुते न साध्याविशेष उपाधिभेदात् , तथापि चेतनाधिष्ठानप्रयत्नद्वारैवेति प्रयत्नानधिष्ठितहेतुकत्वमेव साध्यमभिप्रेतम् / यद्वा साध्याविशेष उक्तः / यद्वा साध्यवद्धतुरप्यसिद्ध इति साध्यसमः / ननु सर्वविषयत्वमेव तस्या टिप्पणी। वात्। हेतोः-शरीरेतरजन्यत्वस्य / व्यावृत्तेः-विपक्षात्तु घटादेया॑वृत्तिः स्फुटैव / अनवस्था वेति। अयमाशयः व्यणुकादिकं द्विकर्तृकं कार्यत्वात् घटवत् इत्यनुमानेन शरीरिकर्तृकत्वबाधात् पक्षधर्मतावलात् सर्वाधिष्ठातैव द्वितीयोऽपि कर्ता (ईश्वरः ) सिध्येत् घटादेरपि कर्ता स्यात् तथा च घटादेस्त्रिकर्तृकत्वमायातम् / एवं घणुकादिस्त्रिकर्तृकः कार्यत्वात् घटादिवत् इत्यनुमानेन सिध्यत् तृतीयोऽपि कर्ता पक्षधर्मताबलात् सर्वाधिष्ठाता ईश्वर एवानुमितिगोचरः स्यात् एवं क्रमेणानवस्थाप्रसज्यते इति /