________________ पंचमस्तवके ] ईश्वरबाधकखण्डनम् / याश्रयत्वम् ? / तन्न। तदवच्छिन्नप्रयत्नोत्पत्तौ तदवच्छिन्नज्ञानजननद्वारेणेन्द्रियाणामुपयोगात्। अनवच्छिन्ने प्रयत्ने नायं विधिः / नित्यत्वात् / अत एव नाऽर्थाश्र. यत्वम् / न हि नित्यज्ञानं भोगरूपमभोगरूपं वा यत्नमपेक्षते तस्य कारणविशेष. त्वात् / न च नित्यसर्वज्ञस्य भोगसम्भावनाऽपि / विशेषादर्शनाभावे मिथ्याज्ञानानवकाशे दोषानुत्पत्तौ धर्माधर्मयोरसत्त्वात्॥ तस्मात् साक्षात्प्रयत्नानधिष्ठेयत्वात् स्वव्यापारे तदनपेक्षत्वाञ्चेति द्वयं साध्याविशिष्ठम् / श्रनिन्द्रियाश्रयत्वादभोगायतनत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति त्रयमष्यन्यथासिद्धम् / अभोगायतनत्वादनिन्द्रियाश्रयोऽपि, भोक्तृकर्मानुपग्रहादभोगायतनमपि, स्पर्शवद्वेगवद्रव्यानुद्यत्वात्तदनपेक्षमपि स्यात्। अचेतनत्वाञ्चेतनाधिष्ठितमपि स्यादिति को विरोधः॥ प्रकाशः। अथेति / तथा च श्रापाद्यापादकयोर्भेद इत्यर्थः / तत्राप्रयोजकत्वमाह तदवच्छिन्नेति / साक्षात्प्रयत्नाधिष्टितत्वेऽपि तस्यैवेन्द्रियाश्रयत्वम् / यदवच्छिन्न अात्मनि प्रयत्नस्तदवच्छिन्नात्मनिष्टज्ञाने नेन्द्रियकार्येण भोगो जनयितव्यः / अकार्यों तु ज्ञानप्रयत्नाविन्द्रियाश्रयत्वं विनाऽपि स्यातामिति न विरोध इति मूलशैथिल्यमित्यर्थः / प्रयत्नोत्पत्ताविति, निमित्तसप्तमी / अत एवेति / सोपाधित्वेन मूलशैथिल्यादेवेत्यर्थः / उपाधिमाह न हीति / ज्ञानानित्यत्वमुपाघि रित्यर्थः / न च नित्येति / यदवच्छिन्नात्मन्यर्था भोगं जनयन्ति तस्यार्थाश्रयत्वम् , नित्यज्ञा. नाश्रयस्य त्वीश्वरस्य भोगाभावान तदर्थ तदपेक्षेत्यर्थः / प्रसङ्गदूषणेनैव तदनुप्राह्यो हेतुरपि दूषित इत्याह तस्मादिति / शरीरत्वं यदि साक्षात्प्र. यत्नाधिष्ठेयत्वं, तदा शरीरेतरत्वं साक्षात्प्रयत्नानघिष्ठितत्वम् / तथा स्वव्यापारे शरीरानपेक्षत्वं साक्षात्प्रयत्नाऽधिष्ठेयानपेक्षत्वमेव, तथाच साध्याविशेष इत्यर्थः / यदि चेन्द्रियाऽऽश्रयत्वं भोगाश्रयत्वं वा शरीरत्वं, तदा शरीरेतरत्वादित्यस्यानिन्द्रियाश्रयत्वादभोगायतनत्वावेत्यर्थः / स्वव्यापारे इन्द्रियाश्रयानपेक्षत्वाद्भोगायतनापेक्षत्वादिति वा द्वितीयहेत्वर्थः। तदेतत् सर्वमन्यथासिद्धमित्याह अनिन्द्रियाश्रयत्वादिति / अन्यथासिद्धिमेवाह अभोगायतनत्वादिति / ईश्वरे ह्यदृष्टाभावेन भोगाभावात् परमाण्वादिभॊगानवच्छेदकत्वेनानिन्द्रियाश्रयोऽपि स्यात् , स्पर्शवद्वेगवद्रव्या प्रकाशिका। ज्ञानानित्यत्वमिति / अनित्यज्ञानवत्वमित्यर्थः / अर्थाश्रयत्वमर्थप्रयोज्यभोगाश्रयत्वमित्यर्थः। तथेति / स्वव्यापारे साक्षात्प्रयत्नाधिष्ठेयानपेक्षत्वमेव परम्परानधिष्ठेयत्वमिति साध्याविशेष इत्यर्थः / तदनपेक्षत्वादित्यत्र तच्छब्देनोभयपरामर्शाद्धेतुद्वयलाभ इत्याह स्वव्यापार इति। एवं च त्रयमिति मूलमग्रिमसाध्यहेत्वोस्तत्साध्यकत्वेनैकत्वं विवक्षित्वा समाधेयम् / वस्तुतश्चतुष्टयमिति बोध्यम् / मकरन्दः। ज्ञानानित्यत्वमिति / अनित्यज्ञानवत्त्वमित्यर्थः / अर्थाश्रयत्वं = अर्थप्रयोज्यभोगाश्रयत्वमित्यर्थः / तथेति / स्वव्यापारे साक्षात्प्रयत्नाधिष्ठेयापेक्षत्वमेव परम्पराधिष्ठेयत्वमिति साध्याविशेष इत्यर्थः / यदवच्छिन्ने आत्मनि ऐन्द्रियकार्यज्ञानेन प्रयत्नो भोगश्च जनयितव्यस्तस्यैवेन्द्रियाश्रयत्वमित्यर्थः / यद्यपि भोगान्तर्भावेन न मूलार्थस्तथापि तात्पर्यार्थोऽयमिति भावः / . . टिप्पणी। तज्ज्ञानमुपेयेत उभयथापि नित्यत्वान्न प्रयत्नमपेक्षते इत्यर्थः / कारणविशेष(रूप)त्वात्-तथा च तत्सत्कार्यनिरूपितमेव कारणं यत्नः स्यादित्यर्थः / अनुद्यत्वात्-प्रदर्शितद्रव्येण नोदनाख्यसंयोगाभा.