________________ ---- 464 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ 2 कारिकाव्याख्यायो घुदाहरणम् / एवं क्षित्यादि न चेतनाधिष्ठितहेतुकं शरीरेतरहेतुकत्वादित्यतिपोडया सत्प्रतिपक्षत्वम् // ___ अपि च पटादौ कुविन्दादेः किं कारकाधिष्ठानाऽर्थमपेक्षा, तेषामचेतनानां स्वतोऽप्रवृत्ते, पाहो कारकत्वेन ? / न पूर्वः। तेषां परमेश्वरेणैवाधिष्ठानात्। न हस्य ज्ञानमिच्छा प्रयत्नो वा वेमादीन् न व्याप्नोतीति सम्भवति। न चाधिष्ठितानामधिष्ठात्रन्तरापेक्षा तदर्थमेव / तथा सत्यनवस्थानादेवाऽविशेषात् / न द्वितीयः। अधिष्ठातृत्वस्यानङ्गत्वप्रसङ्गे दृष्टान्तस्य साध्यविकलत्वापत्तेः। न च हेतुत्वेनैव तस्यापेक्षाऽस्त्विति वाच्यम् / एवन्तर्हि यत्कार्य तत्सहेतुकमिति व्याप्तिः, न तु सकत कमिति / तथा च तथैव प्रयोगे सिद्धसाधनात्॥ किञ्चानित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीवत् कार्यत्वं न बुद्धिमत्पूर्वकत्वेन स्वभावप्रतिबद्धम् / न ह्यनित्यप्रयत्नोऽपि बुद्धया शरीरवत् कारणत्वेनाऽपेक्ष्यते, येन तन्निवृत्तावष्यकार्यबुद्धिर्न निवर्तते इति // तदेतत् प्रागेव निरस्तप्रायं नोत्तरान्तरमपेक्षते। तथाहि-सातादधिष्ठातरि साध्ये परमाण्वादीनां शरीरत्वप्रसङ्ग इति किमिदं शरीरत्वं, यत् प्रसज्ज्यते ?' यदि साक्षात्प्रयत्नवदधिष्ठेयत्वं तदिष्यत एव / न च ततोऽन्यत् प्रसनकमपि / अथेन्द्रि प्रकाशः। पेक्षमपि तु तदपेक्षमेव, यथा दण्डादीति व्यतिरेकीत्यर्थः / एवं कारणपक्षकानुमानमुक्त्वा कार्यपक्षकमाह एवमिति / सिद्धसाधनमभिधातुं भूमिकामारचयति अपि चेति / अधिष्ठातृत्वस्येति / क्षित्यादेश्चेतनाधिष्ठितहेतुजन्यत्वे साध्ये पटादिदृष्टान्तः साध्यविकलः, कुविन्दादेः कारकत्वेनैवापेक्षणीयतया कारणाधिष्टातृत्वेन तदभावादित्यर्थः / तथा चेति / कर्चजन्यत्वेऽप्यचेतनसमवायादिहेतुकत्वस्य मयाऽप्युपगमादित्यर्थः / - उपाधिमाह किञ्चेति / न हीति / यथा शरीरनिवृत्तावप्यकार्या बुद्धिर्न निवर्तते, तद्वद नित्यप्रयत्ननिवृत्तावप्यकार्यबुद्धिर्न निवर्त्तते इति न / शरीरं हि बुद्धया कारणत्वेनापेक्ष्यते इति शरीरनिवृत्तौ कार्या बुद्धिनिवर्त्तते इति युक्तं, न पुनरनित्यप्रयत्नो बुद्धया कारणत्वेनापेक्ष्यते, येनानित्यप्रयत्ननिवृत्तौ कार्या बुद्धिनिवर्त्तते न नित्येति स्यात् , अपि तु व्यापकत्वमात्रेणेत्यर्थः / शरीरवदिति प्रथमासमर्थाद्वतिः / बुद्धया शरीरं यथा कारणतयाऽपेक्ष्यते, न तद्वदनित्यः प्रयत्नः कारणतयेत्यर्थः / तन्निवृत्तावपीति / अनित्यप्रयत्ननिवृत्तावपीत्यर्थः / तदेतदिति / विशेषस्य विशेष प्रति प्रयोजकत्वादित्यादिना / अत्र प्रसङ्गदशायां तावद् दूषणमाह यदीति / इष्टापादनमित्यर्थः / न चेति / आपाद्यादापादकस्याविशेष इत्यर्थः / टिप्पणी पूर्वकत्वस्योपाधित्वं तस्य व्यणुकादौ साधनाव्यापकत्वात् , उपाध्यभावेन च बुद्धिमत्पूर्वकत्वमात्रं निवर्तते नतु जन्यबुद्धिपूर्वकत्व मित्याह किंचेति / व्याप्तिम्-बुद्धिमत्पूर्वकत्वनिरूपिताम् | यथाऽस्मिन्ननुमाने शरीरपूर्वकत्वं नोपाधिरुद्भावनाहः यतो बुद्धिं प्रति शरीरस्य कारणतया उपाध्यभावेन (शरीराभावेन) कार्यबुद्धथभावस्यैव सिद्धिः स्यान्न तु नित्यबुद्धयभावस्यापीति नित्यबुद्धिसिद्धौ बाधकाभावात् , एवमनित्यप्रयत्नोऽपि यदि बुद्धिम्प्रति शरीरमिव कारणं स्यात्तदाऽयमपि नोद्भावनीयः स्यान्न त्वेवं बुद्धिम्प्रत्यनित्यप्रयत्नस्याकारणत्वादिति प्रघट्टकार्थः। शरीरत्वसाक्षाचेतनाधिष्ठितत्वयोरापाद्यापादकयोरेक्यमप्याह नचेति / अर्थाश्रयत्वमिति / अर्थः प्रयोजनं स्वीयसुखसाक्षत्कारात्मको भोगः तदाश्रयत्वमवच्छेदकतासम्बन्धेन, नित्यसुखसाक्षात्कारात्मकमीश्वरज्ञानं यद्यपेयेत यदि वा भोगभिन्नमेव