________________ पंचमस्तवके] ईश्वरवाधकखण्डनम् / 463 व्यतिरेकसन्देहप्रसङ्गाच्च / कथं हि निश्चीयते किमाकाशात् कारणव्यावृत्त्या कार्यत्वव्यावृत्तिः, उत करणव्यावृत्या। एवं किमुपादानव्यावृत्त्या, किमसमवायव्यावृत्या, किं निमित्तव्यावृत्त्येति। कार्यत्वात् करणमुपादानमसमवायि निमित्तं चा बुद्ध्यादिषु न सिद्धयेत् / कर्तुः कारणत्वे सिद्धे सर्वमेतदुचितं, तदेव त्वसिद्धमिति चेत् / किं पटादौ कुविन्दादिरकारणमेव कर्ता, प्रस्तुते चोदासीन एव साधयितुमुपक्रान्तः। तस्माद् यत्किञ्चिदेतदपीति // ननु कर्ता कारणानामधिष्ठाता साक्षादा शरीरवत् , साध्यपरम्परया वा दण्डादिवत् ? / तत्र न पूर्वः, परमाण्वादीनां शरीरत्वप्रसङ्गात् / न द्वितीयः, द्वाराभावात् / न हि कस्यचित् सातादधिष्ठेयस्याऽभावे परम्परया अधिष्ठानं सम्भवति // तयं प्रमाणार्थः-परमाण्वादयो न साक्षाच्चेतनाऽधिष्ठेयाः, शरीरेतरत्वात् / यत्पुनः साक्षादधिष्ठेयं न तदेवं, यथास्मच्छरीरमिति / नापि परम्परया अधिष्ठेयाः, स्वव्यापारे शरीरानपेक्षत्वात् , स्वचेष्टायामस्मच्छरीरवत् / व्यतिरेकेण वा दण्डा प्रकाशः। अन्यथा सत्प्रतिपक्षाभिधानाय भूमिकामारचयति नन्विति // यत्र प्रयत्नवदात्मसंयोगा समवायिकरणकक्रियोत्पादको यः, स तत्र साक्षादधिष्ठाता, यथा स्वशरीरे अस्मदादिः / शरीरक्रियया यो यत्क्रियाजनकः, स तत्र परम्पराऽधिष्ठाता, यथा दण्डादौ कुलालादिः / आये पर. माण्वादिः शरीरं स्यात् तादृशक्रियांश्रयत्वादित्याह परमाण्वादीनामिति // स्वव्यापार इति // स्वक्रियायां शरीरव्यापारानपेक्षत्वादित्यर्थः // स्वचेष्टायामिति // शरीरक्रियायास्तस्कियानपेक्षत्वादित्यर्थः // व्यतिरेकेणेति // यत् परम्पराऽधिष्ठेयं तन्न स्वव्यापारे शरीरक्रियान प्रकाशिका। लक्षणस्वव्यापारापेक्षतया स्वशरीरं दृष्टान्तः साधनविकलमित्यत आह स्वक्रियायामिति / यदवच्छिन्न इति / यदवच्छिन्ने आत्मन्येन्द्रियकार्थज्ञानेन प्रयत्नो भोगश्च जनयितव्यः, तस्यैवेन्द्रिया। श्रयत्वमित्यर्थः / यद्यपि मूले न भोगान्तर्भावः, तथापि तात्पर्यार्थोऽयमिति भावः / टिप्पणी। तस्माद्यतिरेकव्याप्तिसंदेह इत्यर्थः / तथा च कर्प्रभावोऽपिं कार्याभावप्रयोजकः सामान्यतः कारणाभावोऽपीत्युभयोरेव प्रयोजकत्वम् / किं निमित्तव्यावृत्त्येति / तस्मात् कारणेष्वन्यतमव्यतिरेकस्यापि कार्यानुत्पादप्रयोजकत्वं सिध्यति, अन्यथा धूमादावपि तार्णवह्नयभावप्रयुक्तोऽतार्णवह्नयभाव. प्रयुक्तो वा धूमाभाव इत्यादेवक्तुं शक्यत्वात् क्वचिदपि व्यतिरेकव्याप्तिर्न सिध्येदित्यन्वयव्यतिरेकानु. मानमात्रमुच्छिद्यतेत्यर्थः / दूषणान्तरमप्याह कार्यत्वादिति / न सिध्येदिति। तत्रापि हि कारणाभावप्रयुक्त उपादानाद्यभावो वा कार्यत्वाभाव इति संदिहानो न व्यतिरेकव्याप्ति परिच्छेत्तमहतीत्यर्थः / अकारणमेब कर्तेति / तथाच कुविन्दादिव्यतिरेकेऽपि पटादिः प्रादुर्भवेत् नचैवम्. तस्मात् कुविन्दादेरपि कारणत्वमिष्टमेव, कारणेषु चोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमतो भवति कर्तृत्वं नाकारणस्येत्यर्थः। प्रस्तुते सकर्तृकत्वानुमाने, यदि कर्ता कारणं न स्यात् तदा कथं कार्यत्वेन हेतुना स सिध्येत् , न चेष्टापत्तिः प्रकरणपराहतत्वादिति / प्रकारान्तरेण सत्प्रतिपक्षत्वमाशंकते ननु कतत्यादिना। तदर्थमेव-अधिष्ठानार्थमेव / तथासति-अधिष्ठितस्याप्यधिष्टानापेक्षितत्वे सति / ईश्वराधिष्ठितस्यापि कारणस्य कुविन्दादिरूपाधिष्ठानापेक्षायामविशेषात् कुविन्दाधिष्टितस्याप्यधिष्ठानापेक्षा स्यात् , एवं क्रमेणानवस्था स्यादित्यर्थः। कार्यत्वेन हेतुना बुद्धिमत्पूर्वकत्वे साध्ये जन्यप्रयत्न