________________ 42 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ 2 कारिकाव्याख्यायी धात् सिद्ध्यत्येव। अवश्यञ्चैतदेवमङ्गीकर्त्तव्यम् / अन्यथा कार्यत्वस्याकस्मिकत्वप्रसङ्गात् // ___ स्यादेतत् / अन्वयव्यतिरेकि तावदिदं कार्यत्वमिति परमार्थः। तत्राकाशादेविपक्षात् किं कर्तृव्यावृत्तेः कार्यत्वव्यावृत्तिराहोस्वित् कारणमात्रव्यावृत्तेरिति सन्दिह्यते / तदसत् / कर्तुरपि कारणत्वात्। कारणेषु चान्यतमव्यतिरेकस्यापि कार्यानुत्पत्ति प्रति प्रयोजकत्वादन्यथा कारणत्वव्याघातात् / करणादिविशेष प्रकाशः। अपि च शरीरजन्यत्वं हस्तादिजन्ये साध्याव्यापकम् / न च साक्षात्प्रयत्नाधिष्टेयजन्यत्वं तदर्थः, साधनव्यापकत्वात् , परमाण्वादेस्तत्साक्षात्प्रयत्नाधिष्ठेयत्वात् / शरीरिकर्तृकत्वमपि नोपाधिः / कार्यमाने कर्तुः शरीरसहकारित्वाभावात् , तस्य साध्यव्यापकत्वाऽनिश्चयात् // / .. ननु घटादौ कृतिसाध्यता शरीरव्यापारद्वारैव, न साक्षात् / न चाऽशरीरस्य तत्सम्भव इति तद्बाधात् कर्तुरपि बाध एव / शरीरव्यापारजन्यत्वं वोपाधिः / मैवम् / कार्यमाने हि तथा न कृतिसाध्यता, क्षित्यादौ व्यभिचारात् / घटादौ च तथात्वेऽपि कार्यमाने कृतिमात्रस्य जनकत्वाविरोधात्। विशेषयोहतुहेतुमद्भावे बाधकं विना सामान्ययोरपि तथात्वात् / न च चेष्टेतरकार्ये शरीरव्यापारद्वारैव कृतेर्जनकत्वम् , क्षित्यादौ व्यभिचारात् किन्तु घटादावित्युक्तम् // अत एव सहभावनिरूपकत्वे सति नियतपूर्ववर्तित्वं कारणत्वम् / न च कृतेः कार्यसहभावनिरूपकत्वं, स्वतः कार्यकाले तदभावात् , तथा च तत्परिचायितव्यापारद्वारा तस्याः सहभावनिरूपकत्वम् / अतः शरीरव्यापारद्वारैव कृतेर्जनकत्वं न तु केवलाया इत्यऽपास्तम् / कार्यमात्रे तथास्वाभावात् // - कार्यत्वसकर्तृकत्वव्याप्तौ विपक्षबाधकमाह अन्यथेति // कारणान्तरस्येव कर्तुरप्यभावेन कार्याभावात् कर्बभावे कारणान्तरस्याऽप्यनुत्पादकत्वे कार्यमाकस्मिकं स्यादित्यर्थः। __ यदि व्यतिरेकसन्देहात् प्रकृते नानुमानं, तदा तादृशव्यतिरेकसन्देहश्च कार्यात् कारणविशेषानुमानेष्वपि कर्तुं शक्यते इति तेषामप्यनुमानाभासत्वं स्यादिति शङ्कोत्तराभ्यामाह-स्यादेतदिति॥ प्रकाशिका। साधनव्यापकत्वादिति / नचादृष्टाद्वारकचेष्टाश्रयजन्यत्वमुपाधिश्चेष्टात्वश्च जातिरिति वाच्यम् / विपक्षबाधकेनेत्यादिसमाधेरनुपदमेवोक्तत्वादिति भावः / ननु कारणान्तरसत्त्वे कथमाकस्मिकत्वमित्यत आह कारणान्तरस्येति / कारणविशेषेति / उपादानाद्यनुमानेष्वपीत्यर्थः। संयोग मकरन्दः / मनतिप्रयोजक बोध्यम् / साधनव्यापकत्वादिति / ननु चेष्टाश्रयजन्यत्वमुपाधिरस्तु, तथा च नोक्तदोषः / न चादृष्टद्वारा क्षित्यादौ शरीरजन्यत्वादिदमपि साधनव्यापकमेवेति वाच्यम् / अदृष्टाद्वारकत्वस्यापि तद्विशेषणत्वादिति चेत् / न, विपक्षबाधकेन हेतोः साध्यव्याप्यतया तदव्यापकत्वेनानुपाधित्वात् / ननु कारणान्तरसत्त्वे कथमाकस्मिकत्वमित्यत आह कारणान्तरस्येति / कारणविशेष उपादानादिः / शरीरव्यापारे शरीरानपेक्षत्वमसम्भवीत्यत आह स्वक्रियायामिति। टिप्पणी र्णायकतर्करहितत्वं साधन इव तदुभयवति न साध्यव्यापकतानिश्चयसम्भव इति भावः // कारणान्तरस्येवेति / यथा हि कारणान्तराभावात् कार्याभावो घटादिस्थले दृष्टः, तथा कञभावोऽपि स इति तुल्यत्वेऽपि क्षित्यादिस्थले तदुत्पत्तीय ?" // कार्यहेतौ संदिग्धव्यतिरेकित्वात्संदिग्धानेकान्तिकत्वमाशंकते स्यादेतदिति / संदिह्यत इति /