________________ पंचमस्तवके] ईश्वरबाधकखण्डनम्। तद्विशेषो धान्य तद्विशेषः शालौ तद्विशेषः कलमे इत्यादि बहुलं लोके / क का दृष्टमणुद्रव्यारभ्यं द्रव्यं नित्यरूपाद्यारब्धं रूपादि / तथापि सामान्यव्यावरपिरो. प्रकाशः। बहुव्याप्तिकप्रत्यक्षबाधः, तुल्यत्वेऽपि व्याप्तिसंशयाधायकत्वात् / न च कार्यकारणभावमूलकत्वेन कार्यत्वसकर्तृकत्वव्याप्तिर्बलीयसीति वाच्यम् / विरोधिप्रत्यक्षेण कार्यकारणभावस्यैासिद्धरित्यत माह क्क वेति // एवं सति अवयवो महानेव रूपारम्भक रूपमनित्यमेव, तेज उद्भूतरूपमेवेत्यादि-व्याप्तिप्रहात् परमाणुतद्रूपचक्षुरादेरप्यसिद्धिः स्यात् // अथ द्रव्यचाक्षुषत्वेऽनेकद्रव्यवत्त्वस्य रूपे स्वाश्रयसमानाधिकरणरूपस्य साक्षात्कारे विषयेन्द्रियसन्निकर्षस्य कारणत्वात् तन्मूलविपक्षबाधकेन परमाण्वादिसाधकस्य बलवत्त्वात् परमाण्वादिसिद्धौ विरोधिव्याप्तेर्बाधो, न तु वैपरीत्यम् , विपक्षबाधकाभावेन तस्या बलवत्त्वात् / तर्हि ज्ञानादिकार्ययोः कार्यकारणभावावधारणात् तन्मूलविपक्षबाधकेन * व्याप्तिग्रहात् पक्षधर्मतासचिवान्नित्यज्ञानादिसिद्धौ व्यभिचारान्न व्याप्तिः / न च कार्यकारणभावे बाधः, साध्यं पक्षातिरिक्त एव, सुखं दुःखसम्भिनमेवे. त्यादिव्याप्तिमहात् कार्यात् कारणानुमानोच्छेदे निरीह जगजायेतेत्यर्थः // ननु शरीरजन्यत्वमुपाधिः, पक्षेतरत्ववत् पक्षमात्रव्यावर्तकविशेषणत्वात् साधनविशेषितत्वात् साधनतुल्ययोगक्षेमत्वेन साध्यव्यापकत्वानिश्चयाच न तदुपाधिरिति चेन्न / तेषामनुपाधित्वे साध्याहकमानाभावस्य तन्त्रत्वात् / प्रकृते तु चेष्टेतरकार्ये शरीरव्यापारद्वारैव कर्तुः कारणत्वाच्छरीरसह कृतस्यैव स्वकार्यजनकत्वाच्च विपक्षबाघकात्तन्निश्चयात् / अत एव बाधोनीतं पक्षेतरत्वमग्निमत्त्वेन धूमवत्त्वे साध्ये आर्दैन्धनप्रभवाग्निमत्त्वं रसवत्त्वेन गन्धवत्त्वे साध्ये पृथिवीत्वमुपाधिः, विपक्षबाध. कैस्तेषां साध्यव्यापकत्वनिश्चयात् // _ मैवम् / कर्तुर्हि शरीरसहकारिता यदि घटादौ कर्त्तव्ये तदा शरीरं विना तस्य घटायकरणेऽपि किमायातं कर्तुः कार्यमात्रकरणे / न च कार्यमात्रकरणे सा, तस्य त्वया कर्तृजन्यत्वानभ्युपगमात् / तथात्वे वा शरीराजन्यमपि कार्य कर्तृजन्यमिति तस्य साध्याव्यापकत्वम् / नापि स्वकार्ये, तत्रैव तस्यानवच्छेदकत्वादात्माश्रयात् // ___तथापि सन्दिग्धोपाधिः स्यात्तुल्ययोगक्षेमतया साध्याव्यापकतासंशयाधायकत्वादिति चेन / लाघवेन बाधकं विना कर्तृजन्यत्वे जन्यत्वस्यैवावच्छेदकत्वात् / न तु शरीरजन्यत्वस्य, गौरवात् / तथा च न शरीरजन्यत्वं सकर्तृकत्वव्यापकम् / घटादौ त्वार्थः समाजः, घटत्वेन शरीरजन्यत्वनियमाद् , न तु व्यापकत्वप्रयुक्तः // . प्रकाशिका। स्वमिति विपक्षबाधकेन हेतोः साध्यव्याप्यतया तदव्यापकतया साध्याव्यापकत्वाच्चेति भावः / प्रायेणेदम् / विपक्षबाधकेन च हेतौ साध्यव्यापकतया नायमुपाधिरित्यत्र तात्पर्य्यम् / रूपारम्भक टिप्पणी बाध इति / उक्तप्रत्यक्षस्य प्रबलत्वात् तद्बाधो दोष इति भावः / तुल्यत्वेपीति / उक्तप्रत्यक्षस्य समत्वेपीत्यर्थः ।व्यभिवारान्न व्याप्तिरिति। ज्ञानमनित्यमेवेत्यादिव्याप्तिः। साध्यव्यापकस्वामिबयाञ्चेति / यथा हि साध्यं साधनप्रयोजकमिति साधनव्यापकतानिर्णायकविपक्षबाधकतर्कसनावात् साध्यसाधनव्यापकतानिर्णयः तथा साधनं साध्यप्रयोजकमिति साध्यव्यापकतानिर्णायकतर्कामावात् साध्यव्यापकतानिर्णयो न सम्भवति, साधने एवमेव हि साधनघटितत्वेन साधनतुल्ययो. गक्षेमे साधनस्य यत्प्रयोजकता तदव्यापकतानिर्णायकतर्कसहितत्वं न यत्प्रयोजकता तदुव्यापकतानि