________________ 460 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलौ [ 2 कारिकाव्याख्यायां म स्यात् / न हि विशेषोऽस्तीति सामान्यमप्रयोजकम् / तथा सति सौरभकटुत्वमीलिमाऽऽदिविशेषे सति न धूमसामान्यमग्निङ्गमयेत् / कि नाम साधकसामान्ये साध्यसामान्यमाश्रित्य प्रवर्त्तमाने तद्विशेषः साध्यविशेषव्याप्तिमाश्रयेद् , न तु विशेषे सति सामान्यमकिञ्चित्करम् / तस्यापि विशेषान्तरापेक्षयाऽकिञ्चित्करत्व प्रसङ्गात् / सौरभादिविशेषं विहायाऽपि धूमे वह्निर्दष्टो, न तु विशेषं विहाय कार्य कर्तेति चेत् / न / कार्यविशेषः कारणविशेषे व्यवतिष्ठते, न तु कार्यकारणसामा. न्ययोः प्रतिबन्धमन्यथाकुर्यादिति। किं न दृष्टं कार्य कारणमात्रे अङ्कुरो बीजे प्रकाशः। त्वव्याप्यमित्यर्थः / तत्सामान्याऽनङ्गीकारेऽपि घटत्वादिकमेव कर्तृजन्यत्वे प्रयोजकम् , अग्निजन्यतायां धूमत्वादेरिवाननुगतस्यापि जन्यत्वावच्छेदकत्वादिति भावः / तथापि कार्यत्वसामान्यस्य कर्तृसामान्येन व्याप्तौ विशेषो नोपाधिः, न हि विशेषोऽस्तीति सामान्यमप्रयोजकम् , तथात्वे वाऽमिजन्यत्वे धूमविशेषस्य प्रयोजकत्वान्न धूमसामान्यमग्निं गमयेत् , तस्माद् यद्विशेषयोः कार्यकारणभावः, तत्सामान्ययोरपि बाधकं विना तथात्वनियम इत्याह न हीति // नन्वग्निधूमसामान्ययो. याप्तौ धूमविशेषो नोपाधिः, प्रत्येकं साध्याव्याप्तेः। कर्तृकार्यसामान्ययोर्याप्तौ शरीरप्रयोज्यजा. तिर्न साध्याव्यापिकेत्याशयमविद्वान् शङ्कते सौरभादीति // सा जातिर्न कर्तृमात्रप्रयोज्यतया कल्पिता, किन्तु शरीरप्रयोज्यतयेति तदभावाच्छरीरमेव कारणं निवर्त्तते, न कर्तृसामान्यम्, तस्यैव कार्यकारणभावप्रवृत्तौ कर्तृमात्रनिवृत्तावप्रयोजकत्वादिति परिहरति कार्यविशेष इति॥ शरीरकर्तृत्वानुमानञ्च घटत्वादिभिरेवोपपन्नमिति तज्जातौ मानाभावः / तेषाञ्च नोपाधित्वं, प्रत्येक साध्याव्यापकत्वादिति भावः / नन्वत्र बाधकाभावादस्तु तथा, प्रकृते तु ज्ञानमनित्यमेवेत्यादिप्राथमिक प्रकाशिकां। वच्छेदकैकजातिसिद्धिरित्यत आह तत्सामान्येति / तथा सति * कर्तजन्यत्वावच्छेदकमपि. तदेवेति कर्तृजन्यत्वमप्रयोजकमित्यर्थः / केचित्तु अस्तु तथा, तथापि तदेव शरीरजन्य तावच्छेदकत्वेनानुगतीकृतं कर्तृजन्यत्वं उपाधिरित्यर्थः / कर्तजन्यत्वे शरीरिकर्तजन्यत्वे इति व्याचक्षते / श्राशयमविद्वानिति शङ्कत इति योजना / अप्रयोजकत्वादित्यनन्तरमाशयेनेति शेषः / तेषाञ्चेति / शरीरजन्यतावच्छेदकरूपवत्त्वञ्च नोपाधिः, शरीरविशेषणान्तर्भावेण व्यर्थतया व्यापकत्वाग्रहात् लाघवेन जन्यत्वस्योभयसिद्धस्य कर्तुजन्यतावच्छेदक मकरन्द। तत्सामान्यानङ्गीकारे इति / न च घटत्वादीनां प्रत्येकं साध्यव्यापकत्वं, शरीरजन्यतावच्छेदकरूपवत्त्वस्य विवक्षितत्वात् / तावदन्यतमत्त्वं तथेत्यप्याहुः। केचित्त तदनङ्गीकारात्तस्यानुपाधित्वेऽपि घटत्वादिकमेव कर्तृजन्यतावच्छेदकमस्तु न तु जन्यत्वमित्यप्रयोजकमेवास्त्विति तात्पर्यमित्याहुः / इत्याशयमविद्वानिति इति शङ्कते इत्यन्वयः। तेषाञ्चेति / घटत्वादीनामित्यर्थः / यद्यपि विवक्षितोपाचौ नाऽयं दोषः, तथापि यथाश्रुताभि टिप्पणी। कार्यस्य कर्तृजन्यतायामवच्छेदकं साध्यव्यापकत्वे सति साधनव्यापकत्वं च, तथा च शरीरजन्यता. बच्छेदककार्यनिष्ठधर्मविशेष एव कर्तजन्यत्तव्याप्यो न कार्यमिति भावः // तत्सामान्यानङ्गीकारेऽपोति / क्लृप्तस्यावच्छेदकत्वसम्भव उक्तलाघवं कल्प्यविषयमकिश्चित्करमित्याशयेनाह तदिति / तथा हि क्षित्यादिनिष्ठस्येकस्य कार्यत्वाभावात् क्षितित्वस्य कर्तृजन्यतावच्छेदकत्वे ग्राहकाभावात् क्षितित्वावच्छिन्नकार्यत्वस्यापि कर्तृजन्यताव्याप्यत्वासम्भव इति भावः // बहुव्याप्तिकप्रत्यक्ष