________________ पंचमस्तवके ] ईश्वरबाधकखण्डनम् / 486 स्यादेतत् / अस्ति तावत् कार्यस्यावान्तरविशेषो यतः शरीरिकर्तृकत्वमनुमीयते, तथाच तत्प्रयुक्तामेव व्याप्तिमुपजीवेत् कार्यत्वसामान्यमिति स्यात् / प्रकाशः। यो मिथोधर्मिपरीहारोऽन्योन्यधर्मिप्रतिक्षेपः, तस्यानुपलम्भेन निरस्तो विशेषविरोधो न शङ्कामप्यधिरोहतीत्यर्थः। असिद्धिनिबन्धनमुपाधिमाह अस्तीति। शरीरजन्यकार्ये यदवच्छेदेन शरीरस्य कारणत्वं गृह्यते, तत् सामान्यात्मकमेकमङ्गीकार्यम् , अतस्तत्सामान्यवत्त्वमेवोपाधिरिति न कार्यत्वसामान्यं कर्तृजन्य प्रकाशिका। त्वयोः कदापि न सहोपलम्भः, तथापि कर्तृत्वाशरीरित्वयोः सहोपलम्भ इत्यर्थः / कर्तृजातीये शरीरित्वाशरीरित्वयोरविरोध इति वा फक्किकार्थः / यो मिथ इति / शरीरिकर्तृत्वा. शरीरिकर्तृत्वयोरिति शेषः। कर्तृत्वाशरीरित्वयोश्च मिथो धम्मिपरिहारोपलम्भेऽपि तद्विरोधस्य प्रसिद्धमात्रविषयकत्वे पक्षधर्माताबललभ्याप्रसिद्धकर्तृवाधकत्वादप्रसिद्धविषयत्वे च तत्साधकमानेन तयोस्सहोपलम्भेन विरोधस्यैवासिद्धरतः एवावयवो महानेवेत्यादिव्याप्तिविरोधान्न परमाण्वाद्यसिद्धिरित्यत्र तात्पर्यम् / ननु घटत्वादिकमेव शरीरजन्यतावच्छेदकमिति न शरीरजन्यता मकरन्दः / एव सहोपलम्भो बोध्यः। यद्वा कर्तृत्वाशरीरित्वयोः सहोपलम्भो बोध्यः / यो मिथो धर्मोति / शरीरिकर्तृत्वाशरीरिकर्तृत्वयोरिति शेषः / न च कर्तृत्वाशरीरित्वयोः प्रत्यक्षविरोधात्तथापि कयं समावेश इति वाच्यम् / तस्य प्रसिद्धमात्रविषयकत्वेन पक्षधर्माताबललभ्यकर्तरि तदुभयसिद्धौ विरोधाभावात् , अन्यथा अवयवो महानेवेत्यादिधीविरोधात् परमाण्वादेरसिद्धिप्रसङ्गादिति भावः / टिप्पणी। न चैकत्र धम्मिणि विरुद्धयोः शरीरित्वाशरीरित्वयोः कथं सिद्धिः किञ्च साधकमिति वाच्यम् / स वै शरीरी प्रथम' इत्यादि 'अपाणिपादो जवनो गृहीते'त्यादिश्रुतयो हि मानम् , तत्प्रामाण्याभ्युपगमेऽनाहाय॑शरीराभिमानस्य शरीरित्वप्रयोजकस्य मुख्यस्य विरहेणाशरीरित्वस्याहार्य्याभिमानस्य शरीरप्रयुक्त कार्यप्रयोजकस्य मुख्यस्य शरीरित्वप्रयोजकस्य सत्त्वेन शरीरित्वस्य चोपपन्नतया तत्सिद्धौ बाधकाभावात् / एवञ्च शरीर्य्यकर्तृत्वस्य मुख्यशरीरित्वघटितस्य प्रत्यक्षोपलब्धस्य न सकर्तृकत्वप्रतिक्षेपकत्वम् / यद्वा शरीरित्ववदशरीरित्वस्य सिद्धावित्यर्थः / अभ्युपगम्यमान इति शेषः / कर्तरीत्यनन्तरं कर्तृत्वाशरीरित्वयोरिति शेषः / तथा च यथाकथश्चित् कर्ता शरीरी प्रमाणेन प्रत्यक्षादिना सिद्धस्तथा कश्चित् कर्तानुमानादिना त्यशरीरी सिद्धोऽस्तीति त्वया यापेयते तदा रूपरसवत् कर्तृत्वाशरीरित्वयोः सह गृहीतत्वेन क्षित्यादेः शरीर्यकत्र्तृकत्वेऽ. प्यशरीरिकर्तृकत्वमादाय सकर्तृकत्वस्य सम्भवेन तत्प्रतिक्षेपकत्वलक्षणविरोधासम्भवेन तदग्रहणविशेषविरोधो निरस्त इति पर्य्यवसितार्थः / तदसिद्धाविति / श्रुतेः प्रामाण्यानभ्युपगमे क्षित्यादिकर्तरि शरीरित्वाशरीरित्वयोरसिद्धावित्यर्थः / यद्वा प्रत्यक्षप्रमाणसिद्धशरीरकर्तृत्वसिद्धावभ्युपगममवेऽ(?)प्यनभ्युपगनेनाशरीरिकर्तृसिद्धावित्यर्थः / तदुभयासिद्धाविति। शरीरित्वाशरीरित्वोभयासिद्धावित्यर्थः / कर्तृत्वाशरीरित्वोभयासिद्धावित्यर्थः / मिथ इति / सकर्तृकत्वशरीर्यकर्तृकत्वयोरन्योन्यमित्यर्थः। तस्यानुपलम्मेनेति / अशरीरिणः कर्तुरप्रसिद्धौ तदभावस्य प्रमाणेन क्षित्यादौ गृहीतुमशक्यतयाऽशरीरिकर्तृनिर्वाह्यस्य सामान्यरूपस्य सकर्तृकस्य तत्राभावनिश्चयासम्भवे तत्प्रतिक्षेपस्य विरोधस्याप्रहणेनेत्यर्थः / तत्सामान्यत्मकमेकमङ्गीकार्यमिति / शरीरकत्रुभयजन्यतावच्छेदकमेकमेवादरणीय लाघवात् न तु भिनमिति भावः॥ सामान्यवत्त्वमेवोपाधिरिति / 62 न्या० कु०