________________ 45 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ 2 कारिकाव्याख्या नामेति / विशेषविरोधस्तु विशेषसिद्धौ सहोपलम्मेन तदसिद्धौ मिथोधर्मिपरिहारानुपलम्मेन निरस्तो नाशङ्कामप्यधिरोहतीति // प्रकाशः। लाघवात् , तथा चाजन्यत्वमेवोपाधिः / न च सत्प्रतिपक्षोच्छेदात् पूर्वसाधनव्यतिरेको नोपाधिः, श्राभासस्थापनायां पूर्वसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वेन तत्र सत्प्रतिपक्षावकाशात् // यद्वा यनिरूपिता यन्निष्ठा व्याप्तिर्येन विशेषणेन विना न गृह्यते, तत्र विशिष्टं व्याप्यतावच्छेदकम् / अकर्तृत्वनिरूपिताभावनिष्ठव्याप्तौ च शरीरं विनैव प्रतियोगितया जन्यत्वमवच्छेदकं क्लुप्तमिति न शरीरजन्यत्वमवच्छेदकम् / अतो गौरवेण शरीरजन्यत्वमप्रतियोगितया च जन्यत्वं नावच्छेदकमिति व्याप्यतावच्छेदकाभावान्न शरीरजन्यत्वाभावोऽकर्तृत्वव्याप्यः, अन्यथाऽदृष्टाजन्यत्वस्यापि क्षित्यादावनुमित्यापत्तेः। अस्मपितृवरणास्तु-प्रतिपक्षानुमानस्य प्रसिद्धकर्तृजन्यत्वाभावविषयत्वात् , अप्रतीतप्रतियोगिकाभावस्य निरूपयितुमशक्यत्वात् / स्थापनानुमानस्य च पक्षधर्मताबलात् प्रसिद्धकर्तृसाधकखाद् भिन्नविषयतया न प्रतिबध्यप्रतिबन्धकभावः / न च कर्तृजन्यत्वस्योपाधेः स्थापनाविषयतया तदभावः साध्यः, तस्यायप्रसिद्धकर्तृव्यक्तिमादाय पर्यवसानात् / न चैवं सत्प्रतिपक्षोच्छेदः / तस्य गोत्वाद्येकभावाभावसाधकविषयत्वादित्याहुः / . अर्थान्तरेण सिद्धथसिद्धयोरिति व्याचष्टे विशेषेति / व्याप्तिपक्षधर्मताभ्यामानीयमानशरीरत्वाशरीरित्वसिद्धौ रूपरसवत् कर्तरि सहोपलम्भेन, तदसिद्वौ कर्तरि तदुभयासिद्धौ प्रकाशिका। प्तिप्रहादित्यानुशयेनाह अस्मपितृचरणा इति / सामान्यलक्षणानङ्गीकारेण, तन्मते विभिन्नविषयत्वमिति केचित् / वस्तुतो नित्यज्ञानादिमतः कर्तुरप्रामाणिकतया न सामान्यलक्षणयापि मन्मते उपस्थितिः, अन्यथा शशशृङ्गादेरपि शृङ्गत्वेनोपस्थित्यापत्तिरिति परं प्रति विरोधोद्भावनं द्रष्टव्यम् / इदच्चापाततः, वस्तुतः स्थापनानुमानेऽस्य तर्कसहायत्वात् प्रत्यनुमानस्य चातयात्वाद् व्यर्थविशेषणत्वाच्च न तुल्यबलवत्तेति न सत्प्रतिपक्ष इति तात्पर्यम् / तस्य गोत्वेति / गोत्वायेकभावाभावविषयत्वेन त्वया वाच्यत्वादित्यर्थः / रूपरसवदिति / यद्यपि शरीरित्वाशरीरि मकरन्दः। तावच्छेदकविशिष्टनिष्ठव्याप्तावित्यर्थः / न शरीरेति / अभावत्वावच्छिन्ने जन्यत्वाभावे शरीरं विनवाकर्तृकत्वनिरूपितव्याप्तिग्रहान्न तद्विशिष्टे व्याप्तिरित्यर्थः / नन्वेवं जन्यत्वाभावोऽपि तद्व्याप्यो न स्यात् सकारणकत्वाभावादी जन्यत्वविशेषणं विनाऽपि अभावत्वावच्छिन्ननिष्ठव्याप्तेहादित्यनुशयादाह अस्मपितृचरणास्त्विति / सामान्यलक्षणाऽनङ्गीकारेण तन्मते भिन्नविषयत्वं बोध्यम् / वस्तुतस्तु स्थापनानुमानस्य तर्कसचिवत्वादस्य च तदभावाद् व्यर्थविशेषणत्वादिदोषाच्च न्यूनबलत्वमिति न सत्प्रतिपक्ष इति भावः / तस्येति / गोत्वाद्येकभावाभावसाधकत्वविषयत्वेन त्वया समाधेयत्वादित्यर्थः। रूपरसवत् कर्तरीति / यद्यपि शरीरित्वाशरीरित्वयोस्तथा न सहोपलम्भः, तथापि कर्तृजातीये तथोपलम्भ टिप्पणी। शरीरित्वाशरीरित्वसिद्धाविति / अथ घटादिकर्तर्येव शरीरित्वं प्रमाणेन प्रत्यक्षेण सिद्धं तत्र न व्याप्तायुपयोग इति न व्याप्त्याद्यानीयमानत्वमिति चेन्न / आनीयमाने क्षितिः सकर्तृका कार्यत्वादित्यायनुमानोपस्थिते क्षित्यादिकर्तरि शरीरित्वाशरीरित्वयोः सिद्धावित्यत्र तात्पर्य्यात् /