________________ पंचमस्तवके] ईश्वरबाधकखण्डनम्। प्रकाशः। मतपयिकस्यापि तस्य सप्रयोजनकत्वात् / व्यभिचारवारकस्यापि सार्थकत्वेऽनुमितिप्रयोजकत्वस्यव तन्त्रत्वात् / नापि व्यभिचारवारकविशेषणवत्येव व्याप्तिरिति तच्छून्यत्वं, निर्विशेषणेऽपि गोत्वादौ व्याप्तेः / तत्र व्यक्तरेव विशेषणत्वेऽन्योन्याश्रयात् / नाऽपि व्यभिचारवारकं विशेषणं विशिष्टे व्याप्तिप्राहक, सहचारदर्शनादिसत्त्वे तदभावे व्याप्तिमहाविलम्बात् / नच व्यभिचारावारकविशेषणशुन्य एव व्याप्तिप्रहः / प्रमेयत्वेन ज्ञायमाने धूमे व्याप्तिप्रहात्तत्रोपात्तव्यभिचारावारकविशेषणशून्यत्वस्य च विवक्षितत्वे विरोधः / तत्रोपात्तं तेन शून्यश्चेत्यस्यासम्भवात् / / अथ शरीरजन्यत्वाभावे न व्याप्तिः, एकवृत्तित्वबाधे सत्येव व्यासज्ज्यवृत्तित्वात् , विशेष्यतावच्छेदकस्य व्याप्त्यनवच्छेदकत्वे सत्येव विशेषणस्य तदवच्छेदकत्वाच्च, किन्तु जन्यत्वाभावे व्याप्तिः तत्र स्वरूपासिद्धिः, तन्निरांसाथ विशेषणाभिधाने व्याप्यत्वासिद्धिः / न, अन्यभिचारानौपाधिकत्वयोर्विशिष्टे सत्त्वेन तदभावसाधने बाधात् / किञ्चैवं निर्धूमोऽयम् आर्टेन्धनप्रभववहिरहितत्वादित्याद्यऽप्यनुमानं न स्यात् / यद्वा शरीरजन्यत्वाभावोऽखण्ड एव हेतुरस्तु, तत्र व्यर्थविशेषणत्वाभावात् / ____ अत्राहुः। शरीराजन्यत्वस्य व्याप्यत्वेऽपि शरीरं न व्याप्यतावच्छेदकं, गौरवात् / येन विशेषणेन विना व्याप्तिन गृह्यते, तस्यैव व्याप्यतावच्छेदकत्वनियमात् / अत एव गन्धस्यैव व्यञ्जकत्वादित्यत्राप्रसिद्धत्वेन गन्धादिषु मध्ये इति विशेषणं विना व्याप्तिर्ग्रहीतुं न शक्यते इत्यसिद्धिवारकमपि विशेषणं सार्थकम् / व्याप्यतावच्छेदकस्यैव हेतुतावच्छेदकत्वात् / धूमे च वह्निविशेषस्य कारणत्वात् कारणाभावस्य च कार्याभावव्याप्यत्वान्न तत्रोक्तदोषः / ___ शरीरजन्यत्वाभावोऽप्यखण्डो न हेतुः। यदि शरीरजन्यत्वप्रयुक्तं सकर्तृकत्वं स्यात् , तदा तदभावप्रयुक्तः सकर्तृकत्वाभाव इति तस्य साध्यव्याप्यता स्यात् / न चैवम् , किन्तु जन्यस्वप्रयुक्तं, प्रकाशिका। विशेषणं व्याप्यतावच्छेदकं विशेष्यञ्च व्याप्तेराश्रय इति वा / श्राद्ये एकवृत्तित्वेति / अन्त्ये विशेष्यतेति / ननु शरीरजन्यत्वाश्रयप्रतियोगिकयावदन्योन्याभावरूपे हेतौ वैयर्येऽपि शरीरजन्यत्वाभावेऽखण्डहेतौ न व्यर्थता शरीरं विना तस्याज्ञानेन शरीररूपविशेषणस्य व्याप्तिग्रहीपयिकत्वादित्याशयेनाह यति / येन विशेषणेनेति / यद्यपि नीलधूमत्वादी व्याप्तिरस्त्येव, तथापि नीलधूमत्वा. पच्छिन्नेव्याप्तिविरहोऽस्त्येक, गौरवेण नीलधूमत्वस्य व्याप्तथनवच्छेदकत्वात् / न च नीलधूमत्वावच्छिने व्याप्तेरप्रसिद्धिः, वह्निविशेष प्रति नीलधूमत्वस्यैव व्याप्त्यतावच्छेदकत्वात् / न च वह्निविशेषप्रतियोगिकनीलधूमत्वावच्छिन्नव्याप्तेस्सत्वात्तद्विरहोऽसिद्ध इति वाच्यम् / नीलधूमत्वावच्छिन्नव्याप्तिप्रतियोगित्वाभावस्य वह्नित्वावच्छिन्नेऽसिद्धिरूपत्वात् / केचित्तु गौरवेण नीलधूमत्वस्यावच्छेदकत्वाग्रहात् तदवच्छिन्नव्याप्त्यज्ञानरूपैवासिद्धिरत्रेत्याहुः / यनिष्ठेति। यद्विशेष्यतावच्छेदकाश्रयनिष्ठेत्यर्थः / अभावनिष्ठेति / अभावत्वविशेष्यतावच्छेदकाश्रयनिष्ठव्याप्तावित्यर्थः / न शरीरजन्यत्वमिति / प्रभावत्वाश्रये जन्यत्वाभावे शरीरं विनवाकर्तृत्वनिरूपितव्याप्तिग्रहान्न विशिष्टे व्याप्तिरित्यर्थः / . नन्वेवं जन्यत्वमपि न व्याप्यतावच्छेदकं सकारणकत्वाभावेऽभावत्वाश्रये तेन विनवाकर्तृकत्वव्याः रमहादित्याह यदेति / येन विशेषणेन विनेति / यद्यप्येवमपि नीलधूमादौ व्यभिचाराभावविशिष्टसहचारादिरूपव्याप्तेः सत्त्वात् कथं व्याप्यत्वासिद्धिः, तथाप्यनुमानप्रकाशोक्तमनुसन्धेयम् / यनिष्ठेति / यद्विशेष्यतावच्छेदकविशिष्टनिष्टेत्यर्थः। अभावनिष्ठव्याप्तौ अभावत्वरूपविशेष्य