________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ 2 कारिकाव्याख्यायो ननु यद् बुद्धिमद्धेतुकं तच्छरीरहेतुकमिति नियमे यच्छरीरहेतुकं न भवति तद्बुद्धिमद्धेतुकमपि न भवति इति विपर्ययनियमोऽपि स्यात् , तथाच पक्षधर्मताऽपि लभ्यते इति चेत् / न गगनादेः सपक्षभागस्यापि सम्भवात् केवलव्यतिरेकित्वानुपपत्तः। अन्वये तु विशेषणालामात् / हेतुव्यावृत्तिमात्रमेव हि तत्र कर्तृव्यावृत्तिव्याप्तं, न तु शरीररूपहेतुव्यावृत्तिरित्युक्तम् / व्याप्तश्च पक्षधर्म उपयुज्यते, न त्वन्योऽतिप्रसङ्गात् // . एतेन तव्यापकरहितत्वादिति सामान्योपसंहारस्याऽसिद्धत्वं वेदितव्यम् / न हि यव्यावृत्तिर्यदभावेऽन्वयव्यतिरेकाभ्यामुपसंहर्तमशक्या, तत् तस्य व्यापक प्रकाशः। नन्विति / इदं केवलव्यतिरेकितया साधनम् अन्वयव्याप्तिसत्त्वेऽपि व्यतिरेकिव्याप्तिबलेन, अन्वयव्यतिरेकितया वा ? / तत्र नाद्य इत्याह गगनादेरिति / असत्सपक्षस्यैव केवलव्यतिरे. कित्वादित्यऽर्थः / शरीररूपविशेषणवैयर्सेनान्वयव्याप्त्यभावाव्यतिरेकेऽपि तदभावान्नान्त्य इत्याह अन्वये त्विति / व्याप्यत्वासिद्धिं परिहरतश्च स्वरूपासिद्धिप्रसङ्ग इति भावः / केवलायाश्च पक्षध. मताया असाधकत्वाव्याप्त्यभावे साऽप्यनुपयोगिनीत्याह व्याप्तश्चेति / ____ ननु ज्ञानमनित्यमेवेत्यादिप्राथमिकन्याप्तिप्रत्यक्षविरोधाद् नाऽशरीरनित्यज्ञानादिकर्तृसिद्धिः, अतएव शरीरमनित्यमेवेति नियमान्न कर्तृत्वेन नित्यातीन्द्रियतत्सिद्धिरीश्वरे। न चाप्रयोजकत्वम् / निरुपाधित्वात् / कार्यत्वसकर्तृकत्वयोरपि यदि निरुपाधित्वमस्ति, तदा तुल्यबलत्वेन ज्ञातात् सत्प्रतिपक्षवत् प्रतिबन्धोऽस्तु / मैवम् / पक्षधर्मताबलाद् नित्यज्ञानादिसिद्धौ ज्ञानमनित्यमेवेत्यादिव्याप्तिग्रहस्याऽप्रतिबन्धकत्वात् / अस्मदादिज्ञानमात्रविषयत्वेन तत्प्राथमिकव्याप्तिप्रत्यक्षस्य तस्य भिन्नविषयत्वात् / एकविषयकविरोधिज्ञानस्यैव प्रतिबन्धकत्वात् / नित्यत्वानित्यत्वयोरेकजातीये द्रव्येऽविरोधात् / न च ज्ञानत्वं नित्यावृत्त्येवेति ज्ञातमतस्तत्र न नित्यवृत्तित्वज्ञानमिति वाच्यम् / उभयसिद्धनित्यावृत्तित्वज्ञानेऽप्यतिरिक्तनित्यवृत्तित्वज्ञप्तावविरोधात् / अत एव कर्ता शरीर्येवेत्याद्यपि ज्ञान प्रतिबन्धकमपास्तम् / ननु क्षित्याद्यकतृकं कर्तृव्यापकरहितत्वादित्यत्र नोक्तदोष इत्यऽत आह एतेनेति / दृष्टान्ते विशेषणासामर्थ्यप्रदर्शनेन सामान्यतः कत्तु व्यापकरहितत्वमसिद्धम् / शरीरजन्यत्वादेश्व रहितत्वमसमर्थविशेषणतयेत्यर्थः। तदेव स्पष्टयति न होति / यद्यावृत्तिः, शरीरव्यावृत्तिः। यदभावे कभावे / तच्छरीरं तस्य कर्तुापकमित्यर्थः / स एव तस्य व्यापको यस्याभावे साध्ये दृष्टान्ते अन्वयव्यतिरेकाभ्यां पक्षे उपसंहतुं शक्यते, यथा वढेरभावो धूमाभावे / प्रकृते चान्व. यिनि दृष्टान्ते विशेषणासामर्थ्य तदप्रयोजकत्वस्योक्तत्वाद्यतिरेकोऽप्यप्रयोजक इति भावः। ननु किं विशेषणस्यासामथ्र्य ? न तावन्निष्प्रयोजनकत्वं, व्याप्तिग्रहोपयुक्तविशेषणस्येव पक्षघ. प्रकाशिका। ननु कर्तव्यापकरहितत्वादित्येवं प्रयोगे व्यर्थविशेषणतेत्यत आह सामान्यत इति / असिद्धमप्रसिद्धं तादृशप्रमेयत्वस्य सत्त्वात् / न च यत्किश्चित्कर्तृव्यापकरहितत्वं हेतुः तथा सति स्वरूपासिद्धिरित्यर्थः। असमर्थविशेषणतयेति असिद्धमित्यनुषज्यते, तदर्थश्च व्याप्यत्वासिद्धत्वम् / विशिष्टे व्याप्तिरित्यस्य विशेषणविशेष्ययोरेकैव व्याप्तिासज्यवृत्तिरिति वार्थः / मकरन्दः। ननु कर्तृव्यापकरहितत्वादित्यत्र कुतो विशेषणासामर्थ्यमित्यत आह सामान्यत इति / अस. मर्थविशेषणतयेति असिद्धमित्यनुषज्यते / शरीरजन्यत्वाश्रयमात्रप्रतियोगिकयावदन्योन्याभावहेतुत्वे वैयर्थेऽपि शरीरजन्यत्वात्यन्ताभावेऽखण्डे न वैयर्थ्य, शरीरं विना तस्याज्ञामेन तत्र व्याप्ते