________________ 485 पंचमस्तवके] ईश्वरबाधकखण्डनम् / न बाधोऽस्योपजीव्यत्वात् प्रतिबन्धो न दुर्बलैः॥ - सिद्ध्यसिद्ध्योर्विरोधो नो नासिद्धिरनिवन्धना // 2 // ___ तथाहि-अत्र ये शरीरप्रसङ्गमुद्घाटयन्ति, कस्तेषामाशयः?। किमीश्वरं पक्षयित्वा कर्तृत्वाच्छरीरित्वं ततः शरीरव्यावृत्तरकर्तुत्वम् / अथ तित्यादिकमेव पक्षयित्वा कार्यत्वाच्छरीरिककत्वम्। यदा शरीराऽजन्यत्वादकार्यत्वम् , परव्याप्तिस्तम्भनार्थ विपरीतव्याप्त्युपदर्शनमात्रं वेति। तत्र प्रथमद्वितीययोराधयासिद्धिबाधापसिद्धान्तप्रतिज्ञाविरोधाः। तृतीये तु व्याप्तौ सत्यां नेदमनिष्टम् , असत्यान्तु न प्रसङ्गः। चतुर्थे बाधानकान्तिको। पञ्चमे त्वसमर्थविशेषणत्वम् / षष्ठेऽपि नागृह्यमाणविशेषया व्याप्त्या बाधः / न चागृह्यमाणविशेषव्याप्त्या गृह्यमाणविशेषायाः सत्प्रतिपक्षत्वम् / अस्ति च कार्यत्वव्याप्तः पक्षधर्मतापरिग्रहो विशेषः। कर्ता शरीरी, विपरीतो न कर्तेति चानयोस्तद्विरहः // प्रकाशः। तद्विरोधमात्रं स्यात् , यद्वा-व्याप्तिपक्षधर्मतोपस्थाप्यविशेषयोविरोधेन विशेषविरोधः स्यादित्यत श्राह सिद्ध्यसिद्ध्योरिति // श्राये कार्यत्वस्य पक्षधर्मत्वसिद्धौ कर्तृत्वादेश्च तदसिद्धौ सत्यां तुल्यबलस्वाभावेन विरोधाभावादित्यर्थः / अन्त्ये अभिमतविशेषसिद्धयसिद्धयोः सहोपलम्भविरोधि'विशेषानुपलम्भाभ्यां विरोधस्य प्रत्येतुमशक्यत्वादित्यर्थः। सन्दिग्धव्यतिरेकित्वाप्रतीतव्याप्तिकत्वोपाधिभिरसिद्धिरपि नेत्याह नासिद्धिरिति // विपक्षबाधकोपदर्शनव्याप्तिज्ञानोपायोपाधिविरहप्रतिपादनैरसिद्धिनिबन्धनस्याभावादित्यर्थः // कारिकार्थ सङ्कलयितुं पराभिप्राय विकल्पयति तथाहीति // सत्तयानुपलब्धेः प्रागेव निरासाज्ज्ञातायास्तथात्वं वाच्यम् , तत्र पक्षादिविभागं पृच्छति किमीश्वरमिति // कर्तृत्वादिति // तथा चाशरीरस्य कायनिर्माणशक्त्यभावापत्तिरिति भावः // तत एव-शरीराजन्यत्वादित्यर्थः // परव्याप्तिः-कार्यत्वसकर्तृकत्वव्याप्तिः // तत्रेति // ईश्वरस्य धर्मिणः प्रमाणेन ज्ञानाज्ञानयो। र्धर्मिप्राहकमानबाधाश्रयासिद्धी / ईश्वरद्वेषिणः परस्य कर्तृत्वात् तच्छरीरित्वस्वीकारेऽपसिद्धान्तः / ईश्वरः शरीर्यकर्ता वेत्यत्र माता बन्ध्येतिवत् प्रतिज्ञापदयोाधातः। ईश्वरपदस्याशरीरकर्तृवाचकत्वादित्यर्थः / कार्यत्वशरीरिकर्तृत्वयोर्व्याप्तिबलात् क्षित्यादौ शरीरिकर्तृसाधनेऽपि नाऽशरीरिकर्तृ. निरास इत्याह तृतीय इति // क्षित्यादौ शरीरिणः कर्तुर्योग्याऽनुपलम्भेन बाध इति भावः / वस्तुतः शरीरकभावेऽप्यकुरादौ कार्यत्वाव्यभिचारेण न व्याप्तिरित्याह असत्यान्विति // क्षित्यादेः सर्वस्य पक्षत्वे बाधः, कस्यचिदपक्षत्वे तत्रानेकान्तः, प्रमितसाध्याऽभाववद्धर्मिकस्यैव बाधत्वादित्याह चतुर्थ इति / जन्यत्वमात्रस्यैव गमकत्वे शरीरं व्यर्थं व्याप्यतानवच्छेदकत्वरूपम् / शरीरजन्यत्वाभावादिति नत्रः प्रतियोगिविशेषणतायामखण्डस्यैव हेतुतायामजन्यत्वमेवोपा. धिरिति न साधनं साध्यव्याप्यमित्याह पञ्चमे त्विति / स्तम्भनं बाधः प्रतिरोधो वा न सम्भवतीति क्रमेणाह षष्ठेऽपीति / विशेषः पक्षधर्मता / अस्ति चेति, चो हेतौ / यस्मादऽस्मद्याप्ती पक्षधर्मतास्ति, त्वदीयव्याप्तौ च सा नास्ति धर्म्यज्ञानात् / ज्ञाने वा धर्मिप्राहकमानबाधः / केवल. व्याप्तेश्वासाधकत्वमित्यर्थः / . ननु क्षित्यादिकं न बुद्धिमद्धेतुकं शरीराजन्यत्वादित्यत्र यद् बुद्धिमद्धेतुकं तच्छरीरजन्यमिति व्यतिरेकव्याप्तौ पक्षधर्मतालाभः स्यादित्याह