________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलौ [1 कारिकाव्याख्यायों . प्रकाशः। सिद्धवृत्त्यसिद्धविषया हि कृतिः सिद्धविषयप्रत्यक्ष सति भवति, न हि मृदवयवानां संस्थानविशेष कृतिसाध्येष्टसाधनत्वानुमितावपि अवयवानां प्रत्यक्षेणोपस्थिति विना प्रवृत्तिः / न चोपादानप्रत्यक्ष प्रवर्तकज्ञानोपक्षीणम् , अप्रत्यक्षे परमाणौ तक्रियायामिष्टसाधनताज्ञानेऽप्यप्रवृत्तेः / प्रवृत्तिविषयमृदङ्गादेः प्रत्यक्षत्वाद् न शब्दादिना व्यभिचारः / न चेश्वरेऽनुमित्यापत्तिः, स्वसुखादिसाधनतानुमिते हेतुताया गृहीताया ईश्वरे धर्माद्यभावेन बाधाद् , अनुमितिमात्रस्य च हेतुत्वाग्रहात् / उपादानस्य. सिद्धत्वेऽप्युपादेयवत्त्वेन चिकीर्षाविषयत्वात् / न च द्वेषसिद्धिः, तस्य कृतिद्वारा कार्याहेतुत्वात् / प्रयोजनं विना द्वेषमात्राच्छत्रुनाशानुकूलकृतेरनुत्पत्तेः। किन्तु दुःखसाधनध्वंसं तत्साध्यदुःखानुत्पादं वा फलमुद्दिश्य तत्साधनताज्ञानात् कृतिः। तथाचेष्टसाधनताज्ञानात्तत्रेच्छाऽस्त्येवेति सैव कृतिकारणम् , कृप्तत्वात् / द्वेषस्तु परम्परया तदुपक्षीणः / शत्रु द्वेष्मीत्यऽबाधितमानसप्रत्यक्षाच्च तत्सिद्धिः // नापि साध्यविकलो दृष्टान्तः, प्रयत्नवदात्मसंयोगस्य चेष्टाद्वारा घटहेतुतया प्रयत्नस्येवात्मनोऽपि हेतुत्वात् / न चात्मसंयोगे सत्यपि प्रयत्नं विना न चेष्टेति प्रयत्न एव तत्कारणं संयोगपरिचायकमात्रमात्मेति वाच्यम् / संयोगमात्रस्याकारणत्वेन संयोगिविशेषितस्य तस्य हेतुत्वात् / नात्मसंयोगः क्रियाहेतुः, संयोगाभावेन तदभावादर्शनादिति चेत् / न / यः स्पन्दो व्यधिकरणयद्गुणजन्यः स तत्संयोगाऽसमवायिकारणकः, यथा स्पर्शवद्वेगवत्संयोगजा क्रियेति तत्सिद्धः / असमवायिकारणसंयोगाश्रयस्य तत्कार्यजनकत्वनियमाच / . केचित्तु अनुकूलकृतिसमवायित्वमेव कर्तृत्वं, न तु जनकत्वविशेषितं, गौरवात् , तथाच ज्ञानेच्छाकृतिजन्यत्वस्यैव साध्यत्वात् तदाश्रयत्वमेवेश्वरस्य कर्तृत्वमित्याहुः। सामान्यादिगोचरप्रत्यासत्त्या कपालगोचरप्रत्यक्षेऽपि घटादावकर्तृत्वात् कर्तृत्वेन ज्ञानं सिद्धभत्तद्विलक्षणमेव सिद्धयतीति संक्षेपः // 1 // यद्यपि बाधस्तृतीयस्तवक एव निरस्तः, तथापि प्राधान्येन तत्र योग्यानुपलब्धिबाघो निरस्त इह त्वनुमानबाधो निरस्यः / तत्र व्यापकानुलब्धिविरोधेन बाधो विवक्षितः, प्रतिरोधो वा ? आये, न बाधोऽस्य कार्यत्वस्य धर्मिसिद्धयर्थमन्यैर्हेतुभिः कर्तृत्वादिभिरुपजीव्यस्वात् / अन्त्ये, प्रतिबन्धः प्रतिरोधो न / हीनोत्तमबलयोस्तदभावादित्यर्थः / ननु परव्याप्तिस्तम्भनार्थं विपरीतव्याप्त्युपदर्शनेन प्रकाशिका। रित्यत आह प्रवृत्तिविषयेति / नोपादानप्रत्यक्षं प्रवृत्तिकारणं ब्रूमः, किन्तु प्रवृत्तिविषयप्रत्यक्षमतो न व्यभिचार इत्यर्थः / स्वसुखादोति / यद्यपि स्वसुखसाधनतानुमित्यादिना हेतुत्वेऽननुगमात् इष्टसाधनतानुमितित्वेन हेतुत्वं वाच्यम् , इष्टश्चास्मदादिसुखादिकमेवेश्वरस्येति न तादृशानुमितौ वाधः, तथापीष्टसाधनताज्ञानत्वेनैव हेतुत्वं लाघवादित्युपादनप्रत्यक्षानुरोधेनेकमेव ज्ञानं प्रत्यक्षात्मक सिद्धयति लाघवादित्यत्र तात्पर्यम् / सैवेति / समानविषयत्वादित्यपि द्रष्टव्यम् / संयोगमात्रस्यैवे. त्यादिहेतौ हेत्वन्तरं समुच्चिनोति असमवायीति / असमवायीति प्रकृताभिप्रायेण स्वरूपनिर्वचनपरम् / नचाङ्गुलीतरुसंयोगजशरीरतरुसंयोगे नाङ्गुली कारणमिति व्यभिचार इति वाच्यम् / तत्रा. प्यङ्गुल्याः कारणत्वात् , क्रियारूपकार्येऽयं नियम इत्याशयाद्वा / सन्दिग्धव्यतिरेकित्वमप्रयोजकत्वम् // क्रमेण हेतूनाह विपक्षेति। टिप्पणी यदा च क्षितिः सकर्तृकेत्यादि न्यायस्तदाङ्कुरस्य पक्षत्वमेव नास्तीति व तत्र पक्षधर्मत्वाज्ञानमिति भावः। कर्तृत्वादिभिरुपजीव्यत्वादिति / शरीरित्वसाधकः क्षितिरकर्तृका शरीरजन्य स्वादित्यनुमानोत्थापकैरित्यादिः / तत्र प्रतियोगिविशेषणतायामित्यादि / तत्रर्थस्य यत् प्रतियोगिजन्यत्वं शरीरस्य तद्विशेषणतायामित्यर्थः /