________________ पंचमस्तवके] ईश्वरसिद्धिः। 453 प्रकाशः। तैः सन्दिग्धानकान्तिकत्वम् / यदि च कस्यचित् पक्षे नान्तर्भावः, तदा तमादाय निरुक्तस्य पक्षत्वे समूहालम्बनानुमितावविरोधः / जन्यकृत्यजन्यत्वञ्च जन्यकृतिजन्यान्यत्वमित्यन्यत्वेन रूपेण सामान्यलक्षणप्रत्यासत्त्या तावतामुपस्थितिः। जन्यत्वश्च कृतौ स्वपक्षे विशेषणं, परं प्रत्युपरजकमात्रं प्रमेयो घट इतिवत् तत्प्रकारकज्ञानोपयोगि / उभयसिद्धसप्रयोजनत्वमात्रं तन्त्रं, न तु प्रयोजनस्योभयसिद्धत्वम् / क्षितिरेव वा पक्षः। पक्षपक्षसमनरपेक्ष्येण घटादौ निश्चितव्याप्तेर्लिङ्गस्य तयोर्दर्शनेनोभयत्राऽनुमित्यविरोधान्न सन्दिग्धानकान्तिकम् / अनुमित्योरन्योन्यानपेक्षणान्नान्योन्याश्रयः। न चाङ्गुरे पक्षधर्मताज्ञानाभावः, सिषाधयिषाविरहसहकृतसाधकप्रमाणाभाववत एव पक्षत्वात् / तच्च क्षितौ पञ्चावयववाक्येनाङ्कुरेऽन्यत इति न विशेषः // यदि च क्षितौ लिङ्गनिश्चयदशायां तद्वत्तयाऽङ्करस्य न निश्चयः तदा व सन्दिग्धानकान्तिकम् / पक्षसमे साध्याभावसामानाधिकरण्यसन्देहाल्लिङ्गे व्याप्तिग्रह एव नोत्पद्यते इति चेत् / तर्हि धूमेऽपि व्याप्तिप्रहो न स्यात् / सन्दिग्धवह्निपर्वतधूमवतामेकधर्माभावेन अपक्षत्वात् / तस्मादनुमानोच्छेदप्रसन्मात् सन्दिग्धसाध्ये लिङ्गनिश्चयो न दोषः / लाधवादेकज्ञानसिद्धावुत्पत्तिमतोऽनादिकार्यप्रवाहाऽजनकत्वे नित्यत्वसिद्धौ, कारणं ततो निवर्तमानं नियतविषयतामादायैव निवर्तते, तस्याः कारणाधीनत्वात् / अनित्यासर्वविषयकज्ञानाजन्यत्वेन पक्षविशेषणाद्वा ज्ञानस्य सर्वविषयकत्वसिद्धिः // ___ साध्ये च ज्ञानादीनां विशेषणतया विशिष्टस्य साधनत्वेन विवक्षितत्वान्न तदुपलक्षितक्षेत्रज्ञेनार्थान्तरम् / अदृष्टप्रागभावेति विशेषणाचादृष्टद्वारा नास्मदादिभिः सिद्धसाधनम् / नापि साध्याप्रसिद्धिः। * प्रकाशिका। विस्तरः / निश्चितसाध्याभाववद्गामित्वज्ञानमेव प्रतिबन्धकमिति मनसि कृत्याह यदि चेति। पक्षसमे व्यभिचारसन्देहस्यादोषत्वे किमिति गुरु पक्षतावच्छेदकमुपादेयमित्याशयेनाह क्षितिरेवेति / अनुमित्योरिति / एतच्च समाधिसौकार्येण / वस्तुतः समूहालम्बनरूपैकैवानुमितिरिति ध्येयम् / पक्षविशेषणादिति। यद्यपि तादृशज्ञानजन्यत्वबाधाबतारं विनापि पक्षविशेषणमभिमतसिद्धिः वाधानवतारे तु पक्षविशेषणासिद्धावाश्रयासिद्धिः, तथापि वाधावतारदशायामेवोक्तपक्षकानुमित्याभिमत. सिद्धिरित्येतावन्मात्रतात्पर्य्यम् / ननूपादानप्रत्यक्षं न प्रवृत्तिकरणम् तद्विनापि शोकार्थिप्रवृत्ते मकरन्द। पक्षसमे सन्दिग्धानकान्तिकं न दोष इत्यनुपदवक्ष्यमाणावष्टम्भादभ्युपगमवादेनाह यदि चेति / तमादाय समूहालम्बनानुमितावित्यर्थः / अनुमित्योरिति एतच्च पराभ्युपगमरीत्योक्तं, पक्षभेदमाश्रित्य भेदारोपाद्वा / वस्तुत एकैव समूहालम्बनाऽनुमितिरिति ध्येयम् / ननूपादानप्रत्यक्षं विनाऽपि शब्दार्थप्रवृत्तेर्व्यभिचार इत्यत आह प्रवृत्तिविषयेति / न घुपादानप्रत्यक्षत्वेन हेतुत्वं ब्रूमः, किन्तु प्रवृत्तिविधेयप्रत्यक्षत्वेनेति न व्यभिचार इत्यर्थः / यः स्पन्द इत्याद्यनुमानप्रकाशे द्रष्टव्यम् / असमवायीति असमवायिपदं प्रकृताभिप्रायेण स्वरूपनिर्वचनम् / यद्यप्यङ्गुलीतरुसंयोगासमवायिकारणके शरीरतरुसंयोगेङ्गुली न कारणमिति व्यभिचारः, तथापि क्रियायामेवेत्याशय इत्यन्ये / तत्राप्यङ्गुली कारणमित्येके / सन्दिग्धव्यतिरेकित्वमप्रयोजकत्वम् / टप्रागभावेत्याद्यप्रतियोगित्वान्तं वोध्यम् / अदृष्टप्रागभावव्याप्येति। प्रागभावविशेषणं तेन साध्यवेकल्यम् / पक्षधमताज्ञानाभाव इति / अनुमित्युद्देश्यतया निर्दिश्यमानत्वमेव पक्षत्वम् / त्व' टिप्पणी।