________________ व्याख्ययात्रोपेतप्रकाशयुते न्यायकुसुमाजलो [1 कारिकाव्याल्यायो प्रकाशः। जन्यत्वे चादृष्टत्वापत्तिः / व्यणुकासमवायिकारणसमानकालीनकृतिजन्यमिति वा साध्य-मित्यापास्तम् / आये, ज्ञानादिसिद्धावपि यणुकाजनकत्वादुदासीनसिद्धावप्रयोजकत्वात् / अन्त्ये, गौरवाद् द्यणुकासमानकालीनकृतित्वेनाजनकत्वात् / अपि च सामान्यज्ञानादिप्रत्यासत्तिजन्योपादानज्ञानादिमतार्थान्तरम् / न चानागतगोचर-प्रत्यक्षजनकप्रत्यासत्त्यजन्यं ज्ञानविशेषणम् / तादृशप्रत्यासत्तेस्तजन्यत्वस्य च परं प्रत्यसिद्धेः॥ / अत्रोच्यते-अष्टाद्वारकोपादानगोचरजन्यकृत्यजन्यं समवेतं जन्यम् , अष्टप्रागभावव्याप्य. प्रागभावाप्रतियोग्यपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यम् समवेतत्वे सति प्रागभावप्रति. योगित्वात् , यदेवं तदेवं, यथा घटः, तथा चैतत् , तस्मात्तथा / एवञ्च शब्दफूत्कारादीनां पक्षत्वान प्रकाशिका। प्रागभावादिघटिता सामग्रो नान्यत्र जनिकेति भावः / अदृष्ट सामग्यार्थान्तरवारणाय प्रकारान्तरेण साध्यमाह इयणुकेति / स्वासमवायिकारणे समानकालीन कृतिजन्यत्वं साध्यम् , अतो नोक्तार्थान्तरतादवस्थ्यम् / तज्जन्यत्वस्येति / तथा च तदजन्यत्वस्याप्यप्रसिद्धिरिति भावः। पक्ष. समेऽपि सन्दिग्धानकान्तिकमिति सम्प्रदायमतानुसायेण अनुगतं पक्षतावच्छेदकमाह अदृष्टाद्वारकेति। मृदङ्गादिगोचरकृतिजन्यशब्दादिसंप्रहायोपादानपदम् , तच्च स्वोपादानपरम् , अन्यथा तदसंग्रहात् / स्वोपादानगोचरजन्यकृतिजन्यान्यत्वं पक्षतावच्छेद कमतो न क्षित्याधुपादानगोचरजन्य. कृत्यप्रसिद्धया तदप्रसिद्धिः। ऐहिकशरीरपुष्टिकामनया तीर्थस्नानाद्यव्यभिचारेण पुष्टशरीरं जायते तन्नास्मदादिकर्तृकं शरीरान्तरवत् / तथा च प्रयागस्नानानुकूलशरीरावयवगोचरकृत्यादृष्टद्वारा अनिते पुष्टशरीरेऽव्याप्तिवारणायादृष्टाद्वारकेति। साध्ये चोपादानगोचरत्वे न जनकता विवक्षितेति न मृदङ्गगोचरकृत्यादिजन्यत्वमादाय शब्देशतः सिद्धसाधनम् / स्वविषयसमवेतकार्य प्रत्येव तथा जनकत्वात् , निरुक्ते पुष्टशरीरेंऽशतःसिद्धसाधनवारणायादृष्टप्रागभावेत्यादिविशेषणमित्यन्यत्र मकरन्दः।। सम्प्रदायभते उक्तसन्दिग्धानकान्तिकभियाऽनुगतं पक्षतावच्छेदकमाह अदृष्टादारकति। तत्रोपादानपदं स्वोपादानपरम् / तथा च स्वोपादानगोचरजन्यकृतिजन्या घटादयः प्रसिद्धाः, तदन्यत्वं पक्षतावच्छेदकम् / एतेन उपादानपदं यदि यत्किञ्चिदुपादानपरं तदा अदृष्टद्वारकरूपाधुपादानमृदङ्गादिगोचरास्मदादिकृतिजन्यानां शब्दादीनां पक्षता न स्यात् , क्षित्याधुपादानपरत्वेऽप्रसिद्धिरित्यपास्तम् / नन्वेवमदृष्टाद्वारकेति व्यर्थ अदृष्टद्वारककृतिमादाय प्रकृते दोषास्पर्शनादिति चेत् / अत्राहुः। कालीशरीरे यद् गौरं रूपमुत्पन्नं, तत् कालीशरीरगोचरतपश्चरणादिकृत्या जन्यते सा च कृतिरदृष्टद्वारिका तद्रूपोपादानकालीशरीरगोचरा चेति तद्रूपेऽव्याप्तिवारणाय तद्विशेषणमिति / केचित्तु ऐहिकपुष्टशरीरकामनया कामनातीर्थस्नानानन्तरं चिराद् यदिहैव पुष्टं शरीरमुत्पद्यते, तन्न शरीरान्तरवदस्मदादिकर्तृकम् / तथा च प्रयागस्नानानुकूल-शरीरावयवगोचरकृत्याऽदृष्टद्वारा जनिते पुष्टशरीरेऽव्याप्तिवारणाय तदित्याहुः / साध्येऽप्युपादानगोचरत्वेन जनकता विवक्षिता, तेन मृदङ्गगोचरकृतिजन्यत्वमादाय न शब्दाद्यशे सिद्धसाधनम् / एवञ्च कालीरूपायंशे सिद्धसाधनवारणाय तत्रादृष्टेत्यादिविशेषणमित्यवधेयम् / शेषं प्रपञ्चितमनुमानप्रकाशेऽनुसन्धेयम् / टिप्पणी। द्वारककृतिजन्यत्वं विवक्षणीयमिति भावः। प्रतियोग्युपादानगोचरेति / वीणादिगोचरकृतिजन्ये शब्दे त्वंशतः सिद्धसाधनवारणायोपादानेति / उपादानगोचरत्वेन जनकता विवक्षिता सा च स्वविषयसमवेतम्प्रत्येवेति शब्दे न तज्जन्यत्वप्रसङ्गः / पुष्टशरीरेऽशतः सिद्धसाधनवारणाया