________________ पंचमस्तवके ] ईश्वरसिद्धिः। 481 - प्रकाशः। जन्यत्वदर्शनादीश्वरेऽनुमितिः सिद्धयेत् / यथा च प्रत्यक्षस्येन्द्रियजन्यत्वेऽपि नित्यं तदीश्वरे, तथाऽनुमितेर्लिङ्गजन्यत्वेऽपि नित्यैव सा तत्र स्यात् / द्वेषयोनिकृतिसाध्ये चिकीर्षा विरहायभिचारश्च / तदृष्टान्तेन क्षित्यादौ द्वेषसाध्यत्वानुमानादीश्वरे द्वेषोऽपि सिद्धयेत् / द्वेषवतश्च संसारित्वे भगवतोऽपि(२) तथा स्यात् / कथं वा उपादानगोचरा चिकिर्षा, प्रसिद्धत्वात् / किश्च कार्यत्वं न योगोपस्थितकृत्यहत्वम् , असिद्धेः / नापि कादाकित्कस्वं, प्रागभावे व्यभिचारात् / नापि प्रागभावप्रतियोगित्वं, ध्वंसे व्यभिचारात् / न च सत्त्वेन हेतुविशेषणम् / सत्ताजातेः परं प्रत्यसिद्धः, स्वरूपसत्त्वस्य ध्वंसेऽपि सत्त्वात् / नापि पूर्वकालासम्बन्धित्वे सत्युत्तरकाल: सम्बन्धः, सकलपूर्वकालस्याप्रसिद्धः, तत्तत्पूर्वकालस्य चाननुगमात् // ___ घटादिरपि दृष्टान्तः साध्यविकलः , अन्वयव्यतिरेकाभ्यां ज्ञानादेरेव जनकतया तदाश्रयस्याजनकत्वात् , धर्मिप्राहकस्यान्वयव्यतिरेकस्य वा तद्ग्राहकस्याभावात् / न च ज्ञानवत् कार्यत्वेनात्मजन्यत्वमनुमेयम् , अात्मसमवेतत्वस्यैवोपाधित्वात् , अन्यथा शब्दवदाकाशजन्यत्वानुमानापत्तेः / एतेन-सर्गाय कालीनव्यणुकं ज्ञानेच्छाकृतिसमानकालीनसामग्रीजन्यं, कार्यत्वात् , अदृष्टसामग्री प्रकाशिका। रागवत इति। चिकीर्षावत इत्यर्थः। कचित्त भगवत इति पाठः / तत्र च द्वेषवत्वे इष्टा. पत्तौ संसारित्वं मिथ्याज्ञानलक्षणं प्रसज्येत भगवत इत्यर्थः / यद्वा द्वेषवत्त्वे संसारित्वं नोपाधिः, तस्याप्यापाद्यत्वादित्यर्थः / श्रारमसमवेतत्वस्येति / आत्मवृत्तित्वस्येत्यर्थः / तेन न सुखादिध्वंसे साध्याव्यापकत्वम् / नन्वदृष्टद्वारा प्राम्भवीयज्ञानादिसमानकालीनादृष्टसामग्रीजन्यत्वेनार्थान्तरमत आह अदृष्टेति। नचाधिकस्यादृष्टस्यैव कारणतया न तदापत्तिरिति वाच्यम् , तथा सत्यदृष्टसामग्यामधिकानुप्रवेशेन जायमानस्य द्वथणुकस्यादृष्टविशेषत्वापत्तेः, वृक्षसामग्यामधिकानुप्रवेशेन जायमानाया: शिंशपाया वृक्षविशेषत्ववत् लाघवेनादृष्टसामग्रीजन्यत्वस्यैवादृष्टत्वनियामकत्वाच्च , तथा चादृष्ट मकरन्दः। . रागवत इति चिकीर्षावत इत्यर्थः। ननु ज्ञानेच्छाकृतिसमानकालीनसर्गान्तरीयादृष्टजनकसामग्यैवादृष्टद्वारा घणुकजनकतयाऽर्थान्तरमत आह अदृष्टसामग्रीजन्यत्वे चेति। न चादृष्टमधिकं कारणमिति न तदापत्तिरिति वाच्यम् / तथात्वे क्षित्यादेरदृष्टविशेषत्वापत्तेः, यथा शिंशपावृक्षविशेष इत्याशयात् , लाघवाददृष्टसामग्रीजन्यत्वस्यैवादृष्टत्वप्रयोजकत्वाच्च, तथा चादृष्टसामग्री अदृष्टप्रागमावादिघटिता नान्यत्र जनिकेति भावः। टिप्पणी। . न योगोपस्थितेति / अन्वयगृहीतेत्यर्थः। अवयववृत्युपस्थितस्य वा। प्रसिद्धरिति / पक्ष इति शेषः / कालस्याप्रसिद्धरिति / असम्बन्धित्वस्येत्यादि / न च शानवत्का र्यत्वेनेति / ज्ञानवत्कृतिसाधनत्वेन / ननु दृष्टान्तद्वारा प्राग्भवीयज्ञानादिसमानकालीनादृष्टोत्पादकसामग्रीजन्यत्वमादायार्थान्तरमाह अदृष्टेति / अदृष्टद्वारकेति। वीणादिगोचरकृतिजन्ये शन्दे संग्राह्ये वीणाया अपि स्वीयरूपायुपादानतया तद्वोचरकृतिजन्यत्वात् पक्षतावच्छेदकसत्वं स्यादिति स्वोपादानेति वाच्यम् , तथा सति पृथिव्याधुपादानगोचरकृतौ जन्यत्वाभावादप्रसिद्धिरिति स्वोपादानगोचरकृतिजन्यं यत्तद्भिन्नत्वं विवक्षणीयम्, तत्र चेहिकपुष्टशरीरकामनाकृतप्रयागस्नानजन्यपुष्टशरीरस्येश्वरकर्तृकस्य प्रयागस्नानानुकूलशरीरावयवगोचरकृतिजन्यत्वात् तत्संग्रहो न स्यादित्यदृष्टा.(२.) रागवत इति प्रकाशिकाभिमतोऽत्र पाठो द्रष्टव्यः / 61 न्या० कु०