________________ 480 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जली [1 कारिकाव्याख्यायां प्रकाशः। जन्यकृतिसाक्षादजन्यं जन्यम् , घटादेरपि पक्षतापत्तेः / नापि सकर्तृकत्वविवादविषयः, तत्सन्देहविषयो वा(१) पक्षः, एकरूपाभावे क्षित्यादिसकलविषयविवादसंशययोरभावात् / किञ्च न वादिनोः संशयः, तयोनिश्चितत्वात् / वाद्यनुमानयोस्तुल्यत्वेन मध्यस्थसंशय इति चेत् / तद्यनुमानाभ्यां तत्संशयो, मध्यस्थसंशयानन्तरश्च वाद्यनुमानमित्यन्योन्याश्रयः / न च क्षितिरेव पक्षः, अङ्कुरेण सन्दिग्धानेकान्तिकत्वात् / हेतौ साध्याभाववद्गामित्वसंशयस्य दूषकत्वात् / तस्य च साध्याभाववति हेतुसन्देहादिव हेतुमति साध्याभावसन्देहादपि दूषकत्वात् / पक्षे तत्सद्भावेऽप्यनुमानमात्रोच्छेदकत्वेन तस्यादूषकत्वात् / न चाङ्कुरेऽपि तत एव साध्यानुमितिः / तस्यापक्षत्वेन स्थापनानुमानाविषयत्वात् / अनुमानान्तरस्य च क्षित्या सन्दिग्धानेकान्तिकत्वात् / तथा चाऽन्योन्याश्रया देकस्याप्यनुमानस्याप्रवृत्तिः। एकैकमात्राभिज्ञसिद्धावपि सकल विषयज्ञानवदसिद्धिश्च // साध्यमपि न कृतिमत्सहभावः, तज्जन्यत्वं वा, अस्मदादिना सिद्धसाधनात् / नाप्युपादानगोचरापरोक्षज्ञानादिमज्जन्यत्वं, यत्किश्चिदुपादानविवक्षायां घटोपादानगोचरज्ञानादिमताऽस्मदादिना. ऽर्थान्तरात् / न च ज्ञानादीनामपि जनकत्वं विवक्षितम् / न च घटोपादानगोचरज्ञानादेः क्षित्यादि. जनकत्वसम्भव इति वाच्यम् / तथापि क्षितिजनकादृष्टजनकज्ञानादीनामुपादानविषयत्वनियमेनादृष्टद्वारा तैरेव सिद्धसाधनात् / न च साक्षात्तज्जन्यत्वं विवक्षितम् / घटादेदृष्टान्तस्य साध्यवैकल्या. पत्तेः / न च शरीरक्रिया दृष्टान्तः / घटे व्यभिचारात् , तत्क्रियात्वस्यैवोपाधित्वाच्च / क्षित्युपादान विवक्षायामप्रसिद्धिः / न चोपादानशब्दस्य सम्बन्धिशब्दतया तत्तत्समभिव्याहारात्तत्तदुपादानबोधकत्वम् / शाब्द एव बोधे तथा व्युत्पत्तेः। अनुमितौ च येन रूपेण व्यापकत्वं, तेनैव रूपेण तस्य विषयत्वात् / तच्चोपादानत्वमेवेत्युक्तदोषापरीहारात् / किञ्च घटे चिकीर्षाद्वारा कृतिसाध्येष्टसाधनताज्ञानमनुमितिरूपं जनकमिति साध्यविकलो दृष्टान्तः, साध्याप्रसिद्धिर्वा / प्रत्युत घटेऽनुमिति प्रकाशिका। सिद्धिः / वाक्यपदं संसर्गविशेषप्रतिपादकशब्दपरम् , तादृशशब्दकारणसंसर्गज्ञानाधिकरणतया परमेश्वरसिद्धिः / संख्यापदं उत्तमपुरुषाभिधेयसंख्यापरम् कठकलापकादिसंज्ञाविशेषपरं वा, तथा च वेदस्थोत्तमपुरुषाभिधेयसंख्याधिकरणत्वेन समाख्यानिबन्धनतत्तजातीयशरीरावच्छिन्नोच्चारणकर्तृत्वाश्रयतया वा परमेश्वरसिद्धिरिति / ___ सन्देहविषयत्वं वा पक्ष इति पाठे पक्षपदं पक्षतावच्छेदकपरम् / अपनत्वेनेति प्रतिज्ञाविषय. स्यैव पक्षत्वमित्यभिमानेनेदम् / नन्वङ्कुरे सकर्तृकत्वमनुमाय क्षितौ तदनुमेयमत अाह अनुमानान्तरस्येति। मकरन्द। सन्देहविषयत्वं वा पक्ष इति पाठे पक्षपदं पक्षतावच्छेदकपरम् / अपक्षत्वेनेति प्रतिज्ञाविषयस्यैव पक्षत्वमित्यभिमानः / ननु प्रथममङ्कुरे तदनुमाय क्षितौ तदनुमेयमित्यत आह अनुमानान्तरस्येति / टिप्पणी। भिन्नशरीरिणमादायार्थान्तरात् सिद्धसाधनाद्वा पक्षासिद्धर्वेत्यर्थः / पक्षतागतेरिति / अर्थान्तरतादवस्थ्यञ्च सन्देहविषयत्वम् / वापक्षः पक्षबोध्यः। पक्षतावच्छेदकमिति। यावत् सिद्धसाधनादिति। अदृष्टद्वाराऽस्मदादेरपि जनकत्वात् विवक्षायामप्रसिद्धिः दृष्टान्तेऽसत्त्वम् तच्चोपादानत्वमिति / व्यापकतावच्छेदकञ्चेत्यर्थः / उक्तदोषपरिहारात् सिद्धसाधनम् // साध्यप्रसिध्यानुरोधेनापरोक्ष प्रवेशे त्वाह प्रत्युतेति। - (1) सन्देहविषयत्वं वा पक्ष इति प्रकाशिकामिमतोऽत्र पाठोद्रष्टव्यः /