________________ श्रीगणेशाय नमः॥ न्यायकुसुमाञ्जली पञ्चमः स्तबकः। तत्साधकप्रमाणाभावादिति पञ्चमी विप्रतिपत्ति निराकर्त्तमुपन्यस्यति कन्वीश्वरे प्रमाणोपपत्तौ सत्यां सर्वमेतदेवं स्यात् तदेव तु न पश्याम इति चेत् / न ह्येष स्थाणोरपराधो यदेनमन्धो न पश्यति / तथाहि कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः॥ वाक्यात् संख्याविशेषाच साध्यो विश्वविदव्ययः॥१॥ क्षित्यादि कर्तपूर्वकं कार्यत्वादिति // 1 // प्रकाशः। नन्विति // सर्वमिति // प्रागुक्तान्यथासिद्धयादिनिरासरूपमित्यऽर्थः // स्थाणोरीश्वरस्य, अथ च दारुविशेषस्य // अन्धस्तत्र प्रमाणाऽदर्शी, चक्षुत्नश्च / कारिकायां संगृहीतं कार्यत्वं हेतुं विवृणोति / क्षित्यादीति / / ___ नन्वत्र प्रत्येकं क्षित्यादि न पक्षः, तस्य स्वशब्देनाभिधातुमशक्यत्वात् / नापि मिलितम् , एकरूपाभावात् / न च शरीराजन्यं जन्यं पक्षः / वेदाद्यव्याप्तः, अदृष्टद्वारा शरीरिणोऽपि क्षित्या. दिकर्तृत्वात् / नाप्यदृष्टजनककृत्यजन्यं जन्यम् , ईश्वरकृतेरदृष्टजनकत्वेन क्षितौ तदभावात् / नापि प्रकाशिका। कार्येत्यादिमूलं तदर्थश्च कार्यपदम् भावपरं तेन क्षितिः सकर्तृका कार्यत्वादित्यनुमानमुक्तम् / भायुज्यते संयुज्यते ऽनेनेत्यायोजनं=परमाणुकर्म / अत्रापि भावपरतया परमाणुकर्म प्रयत्वजन्यं कर्मत्वादित्यनुमानमुक्तम् / प्रतिपदमपि भावपरं, तेन ब्रह्माण्डधृतिः प्रयन्तवत्संयोगसाध्या धुतित्वादित्यनुमानमुक्तम् / आदिपदेन च संहरणं विवक्षितम् , तथा च ब्रह्माण्डादि प्रयन्तविनाश्यं संहासत् = संहारप्रतियोगित्वादित्यनुमानमुक्तम् / पदं-वृद्धव्यवहारः, पद्यते गम्यतेऽर्थोऽनेनेति व्युत्पत्यैतदपि भावपरम् , तथा च घटादिव्यवहारो स्वतन्त्रपुरुषविश्रान्तो व्यवहारत्वादित्यनुमानमुक्तम् / प्रत्ययशब्देन प्रामाण्यं विवक्षितम्, तथा च प्रमा गुणजन्या प्रामाण्यादिनुमानमुक्तम् / श्रुतेरिति भावपरं, तथा च वेदाः सर्वज्ञप्रणीताः श्रुतित्वादित्यनुमानमुक्तम् / चाक्यपदमपि भावपरं, तेन वेदः पौरुषेयो वाक्यत्वाद् भारतवदित्यनुमानमुक्तम् / संख्यापदमपि परमाणुगणुकवृत्तिद्वित्वत्रित्वपरं भावपरमेव, तेन परमाणुद्वित्वं घणुकत्रित्वं वा अपेक्षाबुद्धिजम् अनेकवृत्तिसंख्यात्वादिल्यनुमानमुक्तमिति / __ यद्वा कार्यपदं तात्पर्यपरम् , तथा च वेदप्रामाण्यसम्पादकतात्पर्याधारतया परमेश्वरसिद्धिः / आयोजनं = व्याख्यानम् , तथा च वेदव्याख्यातृतया भगवतः सिद्धिः / धृतिरवधारणम् , तथा चार्थावधारकोऽपि वेदस्य परमेश्वर एव। श्रादिपदग्राह्यमध्ययनम् , तथा चाध्येतापि वेदस्य प्रथममीवर एव / पदमीश्वरप्रणवादिपदम् , तद्वाच्यतयापि परमेश्वरसिद्धिः। प्रत्ययपदं लिप्रत्ययपरम् , तथा च लिभिधेयाप्ताभिप्रायाधिकरणतया परमेश्वरसिद्धिः / श्रुतेर्वेदादेव शब्दविधया परमेश्वर टिप्पणी। वेदाचव्याप्तेरिति / पक्षतावच्छेदकेन तस्यासमहात् / तित्यादिकर्तृत्वाञ्चेति। ईश्वर