________________ चतुर्थस्तवके] . स्मृतेर्मानान्तरत्वखण्डनम्। शब्दकरणत्वात्। न, साक्षात्कारिप्रमावत्तया प्रत्यक्षान्तर्भावाद् इन्द्रियार्थसन्निकर्षोत्पन्नत्वस्य च लौकिकमात्रविषयत्वात् / स्यादेतत्-तथापीश्वरज्ञानं न प्रमा, विपर्ययत्वात् / यदा खल्वेतदस्मदादिविभ्रमानालम्बते, तदैतस्य विषयमस्पृशतो न ज्ञानावगाहनसम्भव इति तदर्थोsप्यालम्बनमभ्युपेयम्, तथा च तदपि विपर्ययः, विपरीतार्थालम्बनत्वात् / तदनवगाहने वा अस्मदादेर्विभ्रमानविदुषस्तदुपशमायोपदेशानामसर्वज्ञपूर्वकत्वमिति। न / विभ्रमस्याप्रामाण्येऽपि तद्विषयस्य तत्त्वमुल्लिखतोऽभ्रान्तत्वात् / अन्यथा भ्रान्तिसमुच्छेदप्रसङ्गः / प्रमाणाभावात् / तथाप्यारोपितार्थावच्छिन्नज्ञानालम्बनत्वेन कथं न भ्रान्तत्वमिति चेत्। न यद् यत्र नास्ति तत्र तस्यावगतिरिति भ्रान्त्यर्थत्वात् एतदालम्बनस्य चैवमुल्लिखतः सर्वत्र यथार्थत्वात् / न हि न तद्रजतं, नापि तत्रासत , नापि तनावगतमिति // 5 // प्रकाशः। पीति // अयोगव्यवच्छेदेन जनकत्वनिमित्तकोऽपीत्यर्थः / कारकविशेषवाचकः प्रमाणशब्द ईश्वरे वर्त्तते, किन्त्वन्यथेति भावः // साक्षात्कारीति // साक्षात्कारिप्रमया त्वयोगव्यवच्छेदेन सम्बन्धस्य सम्भवेन प्रत्यक्षप्रमाणान्तर्भावान्नोक्तदोष इत्यर्थः / साक्षात्कारित्वं त्वीश्वरप्रमाया धर्मिप्राहकमानसिद्धमित्यऽर्थः / यथाश्रुतं सूत्रन्तु लौकिकप्रत्यक्षविषयमित्याह इन्द्रियार्थेति // नन्वीश्वरस्य सर्वज्ञत्वेन सविषयभ्रमज्ञप्तावीश्वरोऽपि भ्रान्तः स्यात् , भ्रमस्येव तस्या अपि भ्रमविषयविषयकत्वादित्याह-तथापीति / शुक्तौ रजतत्वप्रकाशकज्ञानवानिति ज्ञानं न भ्रमः, भान्तस्य तथा त्वात् / शुक्ताविदं रजतमिति ज्ञाने रजतत्वं प्रकारः तेन तद्भमः, ईश्वर ज्ञाने तु रजतत्वप्रकारकत्वं प्रकार इति न भ्रमत्वम् / अंत एवास्मदादिरपि भ्रान्तिज्ञो न भ्रान्त इत्याह विभ्रमस्येति // प्रमाणाभावादिति // भ्रमत्वप्राहकज्ञानस्य भ्रमविषयमुल्लिखतो भ्रमस्येवायथार्थत्वादित्यर्थः / भ्रमविषयविषयकत्वेन न भ्रमत्वं, किन्तु यद्यत्र नास्ति तत्र तज्ज्ञानत्वेन, तथाच शुक्ताविदं रजतमिति ज्ञानं रजतत्वाभाववति रजतत्वविषयमिति भ्रमः, तदनुव्यवसायश्च यत्र रजतज्ञाने रजतत्वप्रकारकत्वमस्ति, तत्र तदुल्लिखन न भ्रमो विषयाबाधादित्याह यद् यत्रेति // तदेव स्पष्टयति न हीति // एतेन यद् यत्रास्ति, तत्र तज्ज्ञानं प्रमेत्यपि निरुक्तम् // 5 // टिप्पणी। सूक्ष्मकालगोचरत्वेनापि वर्तमानावभासता उत्पद्यते विशिष्टवैशिष्टयावगाहिनचोपलक्षितवैशिष्टयावगाह्यनुव्यवसायात्मकमेव वर्तमानं स्वकाले ज्ञानमादाय वर्तमानावभास इति / नन्वनुमिनोमीति विशिष्टवैटयावगायनुव्यवसाये कथं वर्तमानावभासता तत्क्षणेऽनुमितित्वाश्रयस्य व्यवसायस्य चिरातीतत्वात् तदनन्तरजायमानस्यानुव्यवसायद्वयस्य प्रत्यक्षत्वेनानुमितित्वाभावादित्यत आह अनुमिनोमीत्यादाविति / स्वगत्या दृष्टान्त एव तस्य तथात्वं सूक्ष्मकालमादायैव च तशत्वम् , तदेव चेष्टं क्षणस्यातीन्द्रियत्वात् जानामीत्यत्र तथोपपादनं प्रौदिप्रकटनमेवेति भावः। आदिपदेन पश्याम्युपमि