________________ 476 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलौ [5 कारिकाव्याख्यायो करणमिति त्विष्यत एव, प्रमया सम्बन्धाभावात् / तदाश्रयस्य तु प्रमातृत्वमेतदेव, यत् तत्समघायः। कारकत्वे सतीति तु विशेषणं पूर्ववनिरर्थकमनुसन्धेयम् / यद्येवम् 'प्राप्तप्रामाण्यात्' (न्याय०२. 6. 67) इति सूत्रविरोधः। तेन हीश्वरस्य प्रामाण्यं प्रतिपाद्यते, न तु प्रमातृत्वमिति चेन्न / निमित्तसमावेशेन व्यवहारसमावेशाविरोधात् / प्रमासमवायो हि प्रमातृव्यवहारनिमित्तं, प्रमया त्वयोगव्यवच्छेदेन सम्बन्धः प्रमाणव्यवहारनिमित्तं, तदुभयञ्चेश्वरे। अत्रापि कार्ययेति विशेषणंपूर्ववदनर्थकमूहनीयम् / ___ स्यादेतत्-प्रमीयतेऽनेनेति प्रमाणं, प्रमिणोतीति प्रमातेति कारकशब्दत्वमनयोः, तथा च कथमकारकमर्थ इति चेत् / न। एतस्य व्युत्पत्तिमात्रनिमित्तत्वात् / प्रवृत्तिनिमित्तन्तु यथोपदर्शितमेव व्यवस्थापनात् / अन्यथा अस्मदादिषु न प्रमातृव्यवहारः स्यात् , सर्वत्र स्वातन्त्र्याभावात् / करणव्यवहारस्त्वन्यत्र यद्ययन्यनिमित्तकोऽपि, तथापीहोक्तनिमित्तविवक्षयैवेति / एवन्तर्हि पञ्चमप्रमाणाम्युपगमेऽपसिद्धान्तः। न हि तत् प्रत्यक्षमनुमानमागमो वा, अनिन्द्रियलिङ्ग प्रकाशः। करणत्वमिष्यत एवेत्यर्थः। अस्मदादिप्रमा प्रति तु तत्करणत्वं वर्त्तत एव, तस्य सव्यापारत्वादिति भावः // तदाश्रयस्येति // प्रमासमवायित्वस्यैव प्रमातृत्वात् तत्र तत्कारणान्तर्भावस्य व्यर्थत्वादित्यऽर्थः // पूर्ववदिति // सिद्धयसिद्धयोरुभयोरपि व्यावाभावादित्यर्थः / यदीश्वरस्य न प्रमाणत्वमिष्यते, तदा न्यायसूत्रप्रतिपादिततत्प्रमाणत्वविरोध इत्याह यद्येवमिति // प्रमया त्विति // चक्षुरादीनामपि चरमसहकारिक्षणे प्रमयां अयोगव्यवच्छेदेन सम्बन्धस्य विद्यमानस्वादित्यर्थः // पूर्ववदिति // सिद्धयसिद्धयोरुभयोरपि व्यावाप्रसिद्धरित्यर्थः // सर्वत्रेति // यदि प्रमाकर्तृत्वेन प्रमातृत्वं, तदा अस्मदादीनामपि तदभावात् प्रमातृव्यवहारो न भवेत्-तदनुकूलप्रयत्नवत्वं हि स्वातन्त्र्यम् , तत्कर्तृत्वं सर्वप्रमायामस्मदादीनामपि नास्ति, अस्मदादिप्रयत्नं विनाऽप्यस्मदादिप्रमोत्पत्तेरित्यर्थः // अन्यत्रेति // लोक इत्यर्थः // अन्यनिमित्तकोऽ. प्रकाशिका। प्रमामित्यर्थः / तदनुकूलेति / तदुपादानगोचरतदनुकूलज्ञानेच्छाकृतिमत्त्वलक्षणमित्यर्थः / अस्मदादीनामपीति / जन्यात्मविशेषगुणमात्रस्यैवेश्वरमात्रकर्तृकत्वाभ्युपगमादिति भावः // 5 // मकरन्दः / यदीश्वरस्येति / यद्यपि पूर्व तज्ज्ञानस्य न प्रामाण्यमित्युक्तं न तु तस्य, तथापि तुल्यन्यायतया तदप्युक्तप्रायमेवेति भावः। तदनुकूलेति / तदुपादानगोचरतदनुकूलज्ञानेच्छाकृतिमत्त्वलक्षणमित्यर्थः / अस्मदादीनामिति / जन्यात्मविशेषगुणमात्रस्यैवेश्वरकर्तृकत्वेनाभ्युपगमादिति भावः // 5 // टिप्पणी। रणस्याभावात् / तदुत्पत्यन्तरश्च विशिष्टवैशिष्टयावगाहिधटमहलानामोत्याकारकं प्रत्यक्षंजायते प्रथमस्या नुव्यवसायस्य व्यवसायमादायोपलक्षितवैशिष्टयावगाहिज्ञानस्यानुव्यवसायरूपमेव वर्तमानज्ञानमादाय