________________ चतुर्थस्तवके]. स्मृतेर्मानान्तरल्याण्डलम् / ननु नेश्वरज्ञानं प्रमा, नित्यत्वेनाफलत्वात् / नापि प्रमाणम् / कालान् / छत यच च न तदाश्रया प्रमातेति / उच्यते मितिः सम्यक् परिच्छित्तिस्तद्वत्ता च प्रमातृता॥ तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते // 5 // समीचीनो हनुभवः प्रमेति व्यवस्थितम् / तथा च अनित्यत्वेन विशेषणमनर्थकम् / नित्यानुभवसिद्धौ तद्व्यवच्छेदस्यानिष्टत्वादसिद्धौ च व्यवच्छेद्याभावात् / नचेदमनुमानम् , आश्रयासिद्धिबाधयोरन्यतराकान्तत्वात् / न तत्प्रमा . प्रकाशः मे प्रत्यक्षं ज्ञानं, नास्ति मे प्रत्यक्ष ज्ञानमित्याकारणात्मना मनसा संवेद्यते इत्यर्थः। न्यायन्विं प्रति वायुविनाश्यात्मविशेषगुणत्वेन मुखक्त प्रत्यक्षल्बमनुमेयमिति भावः // / नित्यत्वेनेति // नित्यत्वेन फलामात्मकत्वादित्यर्थः। प्रमायाव क्रियास्वेन जन्यत्वादिति मायः // नापीति // मियापारबेनाकारकतया त्तद्विशेषकरणत्वस्याभाव इत्यर्थः / अत एकति॥ समवायिकारणस्य प्रमातृत्वादित्यर्थः // अनित्यत्वेनेति // यथार्थानुभवत्वमेव प्रमात्वं नित्यानित्यसाधारणम् / न च क्रियात्वविरोधः, धात्वर्थमात्रस्यैव नित्यानित्यसाधारणस्य सत्तादेरिव क्रियात्वात् / अनित्यत्वेन तद्विशेषणस्य गौरवेण. व्यर्थत्वादित्यर्थः। दूषणान्तरमाह नित्येति // न चेश्वरज्ञानं न प्रमा फलानात्मकत्वाद् गगमवदित्यनुमानमपि सम्भवतीत्याहू न चेदमिति // नापि प्रमाणमित्यत्र सिद्धसाधनत्वमेवेत्याह न तत्प्रमाकरणमिति // स्वप्रमा प्रति तस्या प्रकाशिका। मिति / आशुविनाशीति धर्मादौ व्यभिचारवारणाय विशेषणमिदम् / द्वित्वादौ व्यभिचारइति विशेषेति / रूपादौ व्यभिचार इत्यात्मेति। न चोभयत्र साध्यमेव स्वरूपयोग्यताया एव साध्यत्वात् , अन्यथा प्रत्यक्षविषयज्ञानव्यक्तौ व्यभिचारादिति वाच्यम् / मानसप्रत्यक्षविषयगुणत्वव्याप्यजातिमत्त्वस्य साध्यत्वात् / चतुर्थक्षणवर्तिध्वंसप्रतियोगिताव्याप्यजातिमदात्मविशेषगुणत्वञ्च हे. तुरतो नाशुविनाशिसंस्कारव्यक्तौ व्यभिचारः। निव्यापारत्वेनेति / प्रभानुकूलव्यापारशून्यतया प्रमा प्रत्यकारकतयेत्यर्थः / न च क्रियात्वेति / तथा च न क्रियासम्बन्धनिमित्तकस्य कारणपदस्य प्रयोग इति न प्रमातुपदप्रयोगः स्यादिति भावः / स्वप्रमामिति / रुसमानाविवरण इत्यर्थः / प्राशुक्निाशीति धर्मादौ व्यभिचारवारणार्थमिदम् / अन्त्यशब्दस्याप्रत्यक्षत्वपक्षे तक व्यभिचारादाह अात्मेति / आत्ममनोद्वित्वे व्यभिचारादाह विशेषेति / न च निर्विकल्पकजीवनयोनियत्नयोर्व्यभिचारः, मानसप्रत्यक्षजातीयत्वस्य साध्यत्वात् / वस्तुतस्तु तदन्यत्वेन विशेषणान व्यभिचार इति। निर्व्यापारत्वेनेति / प्रमाऽनुकूलव्यापारशून्यतया तदाकारकतया इत्यर्थः। अद्यपि कूटलिशांदिस्थलेऽनुमितिप्रमाकरणत्वं तस्येष्यत एव, तथापि स्वप्रमा प्रति न तथात्वमिति भावः / न च क्रियात्वेति / क्रियासम्बन्धं विना कारकत्वाभावात्तद्विशेषप्रमातृत्वाद्यसम्भव इत्यर्थः / स्वप्रमामिति / स्वसमानाधिकरणप्रमामित्यर्थः / टिप्पणी। गाहिज्ञानं जायते ज्ञानत्वविशिष्टवैशिष्टयावगाहिज्ञानस्य सम्भवात् पूर्व मानत्वप्रकारकज्ञानस्य तत्का--