________________ व्याख्ययात्रोपेतप्रकारायुते न्यापकुसुमाखलौ [ 4 कारिकाव्याश्याक स्थादिति युसम् / अवच्छेदकतया प्रामवस्थाक्दवभासनात् / न च प्रत्यभिज्ञानमपि ग्रहणस्मरणाकारम् / विरोधात् / श्रथ ग्रहणस्मरणयोः कियती सामग्री ? अधिकोऽर्थसभिकर्षों ग्रहणस्य, संस्कारमात्रं सन्निकर्षः स्मरणस्य / अथ ग्रहमत्वेऽपि कुत एतदपरोक्षाकारम् ? कारणान्तरनिरपेक्षण संस्काराधिकसन्निकर्षक्तेन्द्रियेण जनितत्वात् / श्रथ कः सन्निकर्षः ? ज्ञानेन संयुक्तसमवायः, तदर्थेन संयुक्तसमवेतविशेषणत्वमिति / मनसो निरपेक्षस्य बहिव्यापारेऽन्धबधिराद्यभावप्रसङ्ग इति चेत् / ज्ञानावच्छेदकं प्रति नायं दोषः / न च ज्ञानापेक्षया बहिरित्यस्ति / नापि तद्विषयापेक्षया निरपेक्षत्वं, तस्यैव ज्ञानस्यापेक्षणात् / अथापि ज्ञानं प्रत्यक्षमित्यत्र किं प्रमाणम् ? प्रत्यक्षमेव / यदसूत्रयत्'ज्ञानविकल्पानां भावाभावसंवेदनाध्यात्मम्' (न्याय० 5. 1. 31) इति // 4 // प्रकाशः। किन्तु ज्ञाने विशेषणता तत्तावदित्याह अवच्छेदकतयेति // यथा प्रागवस्थास्मरणसहकारिणा चक्षुषा जनिते प्रत्यभिज्ञाने प्रागवस्थायाः संयुक्तविशेषणतया स्फुरणं, न स्मरणं, तथा व्यवसाय सहकारिणा मनसा जनितेऽनुव्यवसाये संयुक्तसमवेतविशेषणतया विषयस्फुरणेऽपि न तस्य स्मरणत्वमित्यर्थः / ननु प्रत्यभिज्ञानमपि तत्तांशे स्मरणमेव, इदन्त्वांशे त्वनुभव इत्यत आह न चेति॥ स्मृतित्वानुभूतित्वजात्योाप्यवृत्तित्वेनांशावृत्तेरित्यर्थः // अथेति // संस्कारजत्वाविशेषात् प्रत्यभिज्ञानमनुभवो, न स्मृतिरिति कुतो नियम इत्यर्थः / अधिक इति // संस्कारातिरिक्तायाः संयुक्तविशेषणतायाः प्रत्यासत्तेः प्रत्यभिक्षाने सत्त्वादित्यर्थः // अथ संस्कारजन्यत्वेन स्मृतिवत्प्रत्यभिज्ञानं परोक्षमेव कुतो नेत्याशयेन पृच्छति अथेति // उत्तरंकारणान्तरेति // लिझायनपेक्षेणेत्यर्थः / न च विनिगमकाभावः / प्रत्यऽभिज्ञाने अनुभवामीत्य. नुव्यवसायसाक्षिकत्वादनुभवत्वस्येति भावः / वस्तुतस्तत्तास्मृतिजन्यमेव प्रत्यभिज्ञानं, न संस्कारजन्यम्, अन्यथा संस्कारद्वारा पूर्वानुभवस्य तत्करणतया ज्ञानकरणतया तस्य परोक्षत्वापत्तिः, तत्तास्मृतेश्च निर्व्यापारत्वेनाऽकरणत्वादिति तत्त्वम् // शानेति // इन्द्रियादिजनितव्यवसायापेक्षस्य मनसो बहिःप्रवृत्तेन स्वातन्त्र्येणेति नोक्तदोष इत्यर्थः / समाधानान्तरमाह न चेति // साधकबाधकाभावात् संशयः स्यादित्याशयेन पृच्छति अथेति // उत्तरं-प्रत्यक्षमेवेति // जानामीति मानसप्रत्यक्षमेव ज्ञानप्रत्यक्षत्वे मानमित्यर्थः / तत्र सूत्रकारसम्मतिमाह यदिति // ज्ञानविकल्पानां ज्ञानभेदानां प्रत्यक्षादीनां भावाभावौ, अस्ति प्रकाशिका। न तु तत्तयैव समं संयुक्तविशेषणतेत्यस्यार्थोऽतीतेन विषयेण सह लौकिकसन्निकर्षस्याजनकत्वात् / न च स्मृतिघटिता संयुक्तसमवेतविशेषणतेति तत्परोऽयं प्रन्थ इति वाच्यम् / संस्कारजन्यत्वं प्रत्यभिज्ञानस्येति मतेनेतद्वन्थावतार इति, अन्यथा स्वसंस्कारजन्यत्वेनेत्यग्रिमप्रन्थानुत्थानात् / न च विनिगमकेति / इन्द्रियजन्यतया तत्प्रत्यक्षत्वे संस्कारजन्यतया च स्मृतित्व इत्यर्थः / शानावच्छेदकतयेत्यादिना समं नापि तद्विषयत्यादेौनरुक्त्यनिरासायाह समाधानान्तर मकरन्दः / न च विनिगमकेति / इन्द्रियजन्यतया प्रत्यक्षत्वं संस्कारजन्यतया स्मृतित्वं वेत्यत्र विनिगमकाभाव टिप्पणी यकस्वेन निर्विकल्पकस्यैव ज्ञानस्य जायमानस्योत्तरं विशेष्ये विशेषमिति रीत्या ज्ञानाशे ज्ञानत्वाव