________________ चतुर्थस्तवके] स्मृतेर्मानान्तरत्वखडनम् / 473 योगात् , किं लिङ्गग्रहणसहकारिस्यादिति / एतेन शब्दादिप्रत्यक्षं व्याख्यातमिति / . स्यादेतत् / विषयनिरूप्यं हि शानमिष्यते। न चातीन्द्रियस्य परमाण्वादेर्मनसा वेदनमस्ति / न चागृहीतस्य विशेषणत्वम् / न च नित्यपरोक्षस्यापरोक्षविशिष्टबुद्धिविषयत्वं व्याघातादिति / न। बाह्येन्द्रियग्राह्यस्याग्राह्यस्य वा पूर्वशानोपनीतस्यैव मनसा वेदनात् / अन्यथाऽतीन्द्रियस्मरणस्याप्यनुत्पत्तिप्रसङ्गात्। इयांस्तु विशेषः-तस्मिन् सति तबलादेव, असति तु तजनितवासनाबलात् / न चैवंसति स्मरणमेतत् / अगृहीतानगोचरत्वात् / न च विषयांशे तत्तथा प्रकाशः। निर्विकल्पकं, विषयांशे सविकल्पकमित्युभयरूपमेव, अंशभेदेनाविरोधात् / अनुमिनोमीत्यादौ तु न तथा, अनुव्यवसाये अनुमितित्वाभावात् / ग्रन्थस्तु ज्ञानान्तरस्य सामग्रीसत्त्वाद् यत्र सम्भवस्तत्परतया नेयः // . एतेनेति // एकगकारादिनिष्ठतया गत्वादिनिर्विकल्पकेन गत्वादिविशिष्टज्ञानकाले एकगादिव्यक्ते शेऽपि गादिव्यक्त्यन्तरे गत्वादिविशिष्टज्ञानमित्यर्थः / ननु ज्ञानस्य विषयावच्छिन्नस्यैव मानसप्रत्यक्षत्वादतीन्द्रियार्थविषयज्ञानस्य न मानसत्वं, परमाण्वादेरतीन्द्रियत्वात्. अतस्तदृष्टान्तेनेतरज्ञानस्याप्यमानसत्वमनुमेयम् , न चाप्रयोजकत्वम् , बाह्येन सह मनसः सन्निकर्षाभावलक्षणप्रतिकूलतर्कस्य विपक्षबाधकत्वादिति शङ्कते स्यादेतदिति // ज्ञानोपनीतविषयेण संयुक्तसमवेतविशेषणताऽऽत्मकज्ञानरूपमनःप्रत्यासत्त्या मनसैव प्रत्यक्षाऽप्रत्यक्षविषयग्रहः, न चाऽतीन्द्रियत्वव्याघातः, योगजधर्माजन्य-जन्यस्वविषयकसविकल्पकाजन्यजन्यप्रत्यक्षाऽविषयस्यातीन्द्रियत्वादिति परिहरति बाह्येति // यदि च ज्ञानसंस्काराद्यपेक्षमपि मनो नातीन्द्रियार्थग्राहकं ततस्तत्करणिका स्मृतिरतीन्द्रिये न स्यादित्याह अन्यथेति // ननु यदि ज्ञानादनुव्यवसायः स्मरणश्च स्यात् , तदाऽनुव्यवसायः साक्षात्कारी, न तु स्मरणमिति कुतो नियम इत्यत आह इयांस्त्विति // तस्मिन्निति // ज्ञाने विद्यमाने तद्रूपप्रत्यासत्तेस्तदनुव्यवसायः साक्षात्कारी, ज्ञाने त्वऽसति संस्काररूपप्रत्यासत्तेस्तदन्यप्रत्यासत्यभावाच्च स्मरणं परोक्षमेवेत्यर्थः / तथाप्यनुव्यवसायो व्यवसायगृहीतगोचरत्वेन गृहीतग्राहित्वात् स्मृतिः स्यादित्यत आह न चैवमिति // अगृहीतेति // ज्ञानस्य व्यवसायाविषयस्यैवानुव्यवसायविषयत्वादित्यर्थः / अर्थाशे गृहीतग्राहित्वेऽपि न घटस्य विशेष्यता, प्रकाशिका। मिति न्यायेन नरसिंहाकारकज्ञानोत्पत्यनन्तरमेव जानामीति प्रत्ययोत्पत्तेरिति भावः / अनुमिनोमीति / आदिपदादुपमिनोमोत्यादिसंग्रहः / इदमुपलक्षणम्-पश्यामीत्यादावपि नेयं गतिरिति द्रष्टव्यम् / योगजेति। सामान्यलक्षणाप्रत्यासत्यजन्येत्यपि विशेषणमत्र द्रष्टव्यम् / संयुक्तविशेषणताया इति। इदमुपलक्षणम् -संस्कारातिरिक्तविशेष्यसनिकर्षसत्त्वादित्यत्र तात्पर्यम् / मकरन्दः। सत्त्वादिति भावः / अत एवाह अनुमिनोमीत्यादाविति / योगजधर्माजन्येति / अत्र सामान्यलक्षणप्रत्यासत्यजन्येत्यपि विशेषणं बोध्यम् / टिप्पणी निर्विकल्पके भासते इति यदुक्तं तत्राह घस्तुत इत्यादि / अनुमिनोमीत्यादाविति / तथा च व्यवसायोत्तरक्षणे व्यवसायगृहीतविषयविशिष्टत्वेन ज्ञानविषयकतया सविकल्पकस्य ज्ञानत्वविष 60 न्या० कु० भकाशका