________________ नानावना न वत्त 472 व्याख्यात्रयोपेतप्रकाशबोधनीयुतेन्यायकुसुमाजलौ [ 4 कारिकाव्याख्यायां विकल्पानामनुत्पादप्रसङ्गः। तद्गतस्य विशेषणस्याऽग्रहणाद् , अन्यगतस्य चानुप प्रकाशः। समवायस्य च पूर्वसिद्धत्वेनोत्पन्नं ज्ञानं मनसा सम्बद्धञ्चेत्येकः कालः / ततो ज्ञानत्वनिर्विकल्पकस्यो. त्पादो ग्राह्यज्ञानस्य विनश्यत्ता सविकल्पकस्योत्पद्यमानतेत्येकः कालः / ततः सविकल्पकस्योत्पादो प्राह्मज्ञानस्य विनाशो निर्विकल्प कस्य चिनश्यत्तेत्येकः काल इत्येवमसमानकालत्वेन विशेष्यस्य ज्ञानस्य नाशक्षण एव ज्ञाने ज्ञानत्वविशिष्टज्ञानम् / विशेष्यस्य ज्ञानस्य विशिष्टज्ञानाव्यवहितपूर्ववर्तितया कारणत्वाविरोधात् / प्रत्यक्षस्य सम्बद्धवर्तमानार्थजन्यत्वेऽपि स्वसमानकालतया विशेष्यस्याऽहेतु. त्वात् , गौरवात् , यथा द्वे द्रव्ये इत्यत्र यथार्थविशिष्टज्ञानं द्वित्वनाशकालेऽपि, अव्यवहिपूर्वकालवर्तितया द्वित्वस्य विशेषणस्य विशिष्टज्ञानहेतोर्ज्ञानात् / विशिष्टज्ञानं जानामीति स्थूलकालोपाधिर्भासते, न तु क्षणः, तस्यातीन्द्रियत्वात् / यद्धा ज्ञानं ज्ञानत्वञ्च निर्विकल्पके भासते, ततो ज्ञानत्ववैशिष्टयं ज्ञाने, ज्ञानवैशिष्टयश्चात्मनि भासते, विशेष्ये विशेषणं विशेषणे विशेषणान्तरं भासते इत्येव विशिष्टवैशिष्टयार्थः / वस्तुतो ज्ञानस्य विषयनिरूप्यतया समवायाभावयोरिव विशिष्टज्ञानसामग्रीसत्त्वाद् निर्विकल्पकं नास्त्येव, ज्ञाने विषयस्य विशेषणत्वात् तद्भाननैयत्येन सविकल्पकस्यैव सम्भूतसामग्रीकत्वात् / तथाच तदेव ज्ञानं ज्ञानत्वांशे प्रकाशिका। विशेष्यस्य समानकालत्वेन साक्षात्कारजनकत्वेऽपि विशेषणस्य च यथार्थविशिष्टज्ञानं प्रति स्वरूपतो जनकत्वेऽपि च न विरोध इत्याशयेनाह यति / तदेवेति / नरसिंहाकारकज्ञान इत्यर्थः / एवं प्रत्यक्ष विशेष्यसमसमयत्व जानामीत्यत्र तमेव क्षणमादाय वर्तमानत्वञ्चोपपन्नम् / विशेष्ये विशेषण मकरन्दः। . त्यर्थः / व्यवसायनाशक्षणे तद्विशेष्यकं न ज्ञानं, किन्त्वर्थविशेष्यकमेव, तथा च विशेष्यस्य स्वसमयवर्तितया प्रत्यक्षहेतुत्वेऽपि न दोष इत्याशयेनाह यद्धति / विषयांशे इति / तथा च सविक. रूपकतया तस्य योग्यत्वात्तत्रैव ज्ञानत्वविशिष्टधीस्तदात्मकस्यैव ज्ञानत्वरूपविशेषणहानस्य पूर्व ___ टिप्पणी त्तिक्षणे विनष्टाया निर्विकल्पककक्षणे पुनः सम्पत्तेर्दुष्करत्वात् / प्रथमज्ञानाविषयार्थस्य तृतीयक्षणे विशिष्टबुद्ध सर्वथैवासम्भवः तद्वतोर्निर्विकल्पकस्य प्रागनुत्पत्तेरुत्पत्तौ ज्ञानत्वनिर्विकल्पकासम्भवादिति भावः / अनुमिनोमीत्यनुव्यवसाय इति / उत्पन्नानुमित्यनन्तरनिर्विकल्पकेनानुमितित्वप्रहे तदनन्तरमनुमितिव्यक्त्यन्तरोत्पादासम्भवात् सिद्धेः प्रतिबन्धकत्वात् क्षणविलम्बोत्पादेऽपि तदन्यस्य तत्क्षणे तत्प्रत्यक्षस्यासम्भवादयोगपद्यात् , तदात्मकस्य जातिसाङ्कर्येणासम्भवादुत्तरकालं विशेषणज्ञानविरहेणासम्भवादिति भावः / ज्ञानत्वविशिष्टज्ञानमिति / अत्र पक्षे आत्मनोऽपि ज्ञाने विशेषणत्वमेव मयि ज्ञानमित्यनुव्यवसायाकारः / विशिष्टज्ञाने= विशिष्टज्ञानस्थले / द्वित्वनाशकालेऽपीति / इदञ्चापेक्षाबुद्धेर्द्विक्षणव्यवस्थायित्वमेव स्वीकरणीयम् , अन्यथा विभुविशेषगुणनाशत्वावच्छिन्नं प्रति स्वोत्तरोत्पन्नविभुविशेषगुणत्वेन कारणतायां नावश्यताच्छेदकेऽपेक्षाबुद्धयन्यत्वप्रवेशेन गौरवं स्यात् , तच्च निष्प्रामाणिकं द्वित्वप्रत्यक्षप्य विषयस्य पूर्ववर्तित्वमात्रेण कारणतयाप्युपपत्तेः समकालत्वस्य तत्र गौरवेणाप्रवेश्यत्वादित्यभिप्रायेण / स्थूलोपाधिर्भासते तेन ज्ञाननाशकालेऽपि तादशप्रत्यक्षस्य नार्थापत्तिः / यदा ज्ञानं ज्ञानत्वञ्च निर्विकल्पक इति। अत्र पक्षे ज्ञानस्यापि विशेषणतया तज्ज्ञानार्थनिर्विकल्पे ज्ञानस्यापि विषयत्वकथनम् / विशिष्टवैशिष्टयार्थ इति / अत्र पक्षे आत्ममनोविशेष्यत्वेन प्रत्यक्षज्ञाने विषयस्य समानकालत्वेऽपि न क्षतिः। ज्ञानं ज्ञानत्वञ्च