________________ चतुर्थस्तवके] स्मृतेर्मानान्तरत्वखण्डनम् / विशेषणायाश्च बुद्धेर्विशेष्यानुपसंक्रमात् कथमेवं स्यात् / न। उत्पन्नमात्रस्यैव बाह्यविषयज्ञानस्यालोचनात् / ततस्तत्पुरःसरं प्रथमत एव तजातीयस्य ज्ञानान्तरस्य विकल्पनात् / इन्द्रियसन्निकर्षस्य तदेव विशेषणग्रहणलक्षणसहकारिसम्पत्तेः। व्यक्त्यन्तरसमवेतमपि हि सामान्यं गृहीतं तदेवेत्युपयुज्यते, अन्यथा अनुमानादि प्रकाशः। इति नोक्तदोष इत्यभिप्रेत्याह उत्पन्नेति // व्यवसायनाशक्षणोत्पन्नज्ञानान्तरे ज्ञानत्व विशिष्टज्ञानं प्रथमत एव जायते, व्यवसायनिष्ठविशेषणस्य ज्ञानत्वस्य निर्विकल्पकेन विषयीकृततया सम्भूतसामप्रीकत्वात् , तनिष्ठतया विशेषणज्ञानस्य गौरवेणाप्रयोजकत्वात् / नन्वन्य व्यक्तिसमवेतत्वेन विशेषणज्ञानं न विशिष्टज्ञानजनकं, घटान्तरवृत्तित्वेन गुणक्रियादीनां विशेषणानां ज्ञानेऽपि घटान्तरे तद्विशिष्टज्ञानानुत्पादात् / ग्राह्यग्यक्तिवृत्तितया च तस्य प्रकृतेऽसम्मवात् / तदुत्पादानन्तरं प्राथज्ञानव्यक्तिनाशात् प्रत्यक्षानुपपत्तरित्यत आह व्यक्त्यन्तरेति // व्यक्त्यन्तरवृत्तित्वेनापि ज्ञानत्वस्य ज्ञानं तज्जातीयव्यक्त्यन्तरेषु विशिष्टज्ञानं जनयति, विशेषणस्य ज्ञानत्वस्यामेदात् / यथा पर्वतोsग्निमानित्यनुमितिमन्य व्यक्तिनिष्ठतया वह्निमत्त्वस्य विशेषणस्य ज्ञानं जनयति, वहेर्भेदेऽपि वह्निमत्त्वस्य उपाधेविशेषणस्याभेदात्, अन्यथा अनुमित्युच्छेद इत्यर्थः / / ___ननु ज्ञानान्तरस्य निर्विकल्पक विषयस्य सविकल्पकवेद्यस्योत्पत्ती हेत्वभावः, अनुमिनोमीत्यनुव्यवसाये तदसम्भवश्व, सामान्यऽभावात् / उच्यते। आत्ममनःसंयोगस्य ज्ञानात्म प्रकाशिकाः। ज्ञानस्येत्यादिप्रन्थेन प्रकाशकृदेव व्यक्तीकरिष्यति / अत एव तत्र मानान्तराभावादिति पूर्वदूषणम पास्तम् , तादृशनिर्विकल्पके प्रत्यक्षस्यैव मानत्वात् / तजन्यविशिष्टज्ञानस्य वा मानत्वात् / ननु इन्द्रियसन्निकर्षादिसामग्रीबलादेव तादृशं प्रत्यक्षं स्यादत आह अनुमिनोमीति / तत्रानुमित्यनन्तरस्य सिद्धथप्रतिबन्धकत्वादिति भावः / व्यवसायनाशक्षणे तद्विशेष्यकं न ज्ञानं किन्त्वात्मविशेष्यकमिति मकरन्दः। दोष इति भावः / ननु सामग्रीबलात्प्रत्यक्षं सम्भवत्येवेत्यत आह अनुमिनोमीति / क्वचित् प्रत्यक्षस्य सम्भवेऽपि तत्रानुमितित्वस्य बाधादनुमित्यन्तरस्य सिद्धसाधनेनानुत्पादात्तत्रासम्भव एवे. टिप्पणी। मिति / प्रथमज्ञाननाशक्षणोत्पन्नस्त्रस्थितिक्षणोत्पन्नसविकल्पकविषयीभूतं तदानीं तस्य निर्विकल्पकासम्भवात् सविकल्पकारणस्य विशेषणनिर्विकल्पककस्य प्राग्धृतत्वात् / किञ्चिच्चावेद्यमिति / प्रतिबन्धकीभूतबहिरर्थप्रत्यक्षसामग्रीक्षणोत्पन्नन्तदुत्तरक्षणे बहिरर्थप्रत्यक्षस्यैवोत्पादात् / प्रथमत एव जायत इति / एतेन तन्निर्विकल्पककापेक्षाव्यवच्छेदः, विशेष्यज्ञानस्याकारणत्वात् / प्रायव्यक्तिवृत्तितयेति। तथाचान्यवृत्तित्वज्ञानस्य प्रतिबन्धकत्वं वाच्यं स्यात् तदभावस्य च कारणत्वं तदपेक्षया लाधवात्तदवृत्तितया विशेषणज्ञानस्य कारणत्वमेव वाच्य मिति भावः / एतेन ग्राह्यव्यक्तिवृत्तितयेत्यस्य नासङ्गतिः। विशेषणज्ञानत्वस्यामेदादिति / तथाचैतादृशस्थले नोक्तप्रतिबन्धकत्वस्य कारणत्वस्य बावश्यकत्वमिति भावः / विशेषणस्यामेदादिति / इदञ्च सामान्यलक्षणानभ्युपगमेन तदभ्युपमे क्वचित् पर्वते कस्यचिद् वह्निज्ञाने तत्पर्वतवृत्तितयापि तद्वहेर्शानात् / यद्वा यत्रानुमितिपूर्व महानसादावेव वह्निमत्वं गृहीतं तदभिप्रायेण योजनेयम् / अन्यथानुमित्युच्छेद इति / उक्त प्रतिबन्धकत्वे कारणत्वे च / उत्पत्ती हेत्वभाव इति / बहिरर्थविषयकप्रथमझानसामप्रयास्तदुत्पत्तिक्षणे सत्वे तस्याः प्रतिबन्धकत्वाज्ज्ञानत्वनिर्विकल्पकमेव न स्यात् / ज्ञानोत्प