________________ 470 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाअलौ / 4 कारिकाव्याख्यायां तु सर्वेति चेत् , तुल्यम् / प्रागुत्पन्नज्ञाततास्मरणजनितजिज्ञासः समुन्मीलितनयनः सातज्ञानसमुत्पादितप्राकट्यं जिज्ञासुरेव प्रतिपद्यते इत्यतो नानवस्थेति चेत् / तुल्यमेतत् // ननु शानं न सविकल्पकग्राह्य, तस्य निर्विकल्पकपूर्वकत्वाद् निर्विकल्पकगृहीतस्य तावत्कालानवस्थानात् तस्य तेनैव विनाशात् / नापि केवलनिर्विकल्पकवेद्यम् / तस्य सविकल्पकोन्नेयत्वेन तदभावे प्रमाणाभावात् / न च समवायाभाववनिर्विकल्पकनिरपेक्षसविकल्पकगोचरत्वं ज्ञानस्येति साम्प्रतम् / तयोविशेषणां. शस्य प्राग्ग्रहणादनुमानादिवत्तदुपपत्तेः। प्रकृते तु ज्ञानत्वादेरनुपलब्धेरगृहीत. प्रकाशः। सम्भवेऽप्यात्मज्ञाततायां मनःसम्बन्धविच्छेदो न सम्भवतीत्यर्थः // तुल्यमिति // ज्ञानमपि किश्चिदुद्भवत्वाभावात्तद्ग्राहकात्ममनःसंयोगविशेषाभावाद्वा न ज्ञायते इत्यर्थः / पूर्वोत्पन्नज्ञाततायाः सामान्यतोप्रहादिदानीन्तन्यपि ज्ञातता ज्ञातैवेति तत्संस्काराधीनज्ञाततासामान्यजिज्ञासायामिन्द्रियसन्निकर्षादिदानीन्तनी ज्ञातता ज्ञायते इत्येवमनवस्थापरीहारो ज्ञानप्रत्यक्षत्वेऽपि तुल्य इति शङ्कोत्तराभ्यामाह प्रागिति // तावत्कालेति // घटज्ञानस्य तन्निर्विकल्पकाज्ज्ञानत्वविशिटज्ञानकाल एव नाशाद् विशेष्यनाशे सति तद्विशेष्यकज्ञानत्व विशिष्टज्ञानानुत्पादः स्यात् / प्रत्यक्षविशिष्टज्ञानस्य स्वसमानकालीनविशेष्यकत्वनियमादित्यर्थः // तस्येति // निर्विकल्पकस्यातीन्द्रियत्वाभ्युपगमेन सविकल्पकैकोन्नेयतया तदभावे तत्र मानान्तराभावादित्यर्थः // समवायेति // समवायवदभाववच्चेत्यर्थः // तयोरिति // समवायाभावयोर्विशेषणयोः सम्बन्धिप्रतियोगिनोर्ज्ञानानन्तरमेव ज्ञानाद्विविशिष्टज्ञानसामग्रीनियमेन तथात्वेऽपि ज्ञाने ज्ञानत्वरूपविशेषणस्य पूर्वमज्ञानात् कथं तद्विशिष्टज्ञानमित्यर्थः / तथाच जानामीति वर्तमानज्ञानवैशिष्टयज्ञानमात्मनि न जायतेति भावः। अत्र किञ्चिज्ज्ञानं निर्विकल्पकैकवेद्यं किञ्चित्सविकल्पकैकवेद्यं किञ्चिच्चावेद्यमेवेत्यऽनियम प्रकाशिका। सङ्गतिरिति निपुणेन निरूपणीयम् / उद्भवत्वाभावादिति / योग्यविशेषगुणत्वेन ज्ञानेऽप्युद्भवत्वस्वीकार इत्ति भावः। मनासंयोगेति / अन्यतरकर्मजत्वव्याप्यजातिविशेषविशिष्टसंयोगाभावादित्यर्थः / इदं च समाधिद्वयमापाततो वस्तुतः फलबलेन विषयान्तरज्ञानसामग्रो सुखादिसामग्री च प्रतिवन्धिकेति कल्पनीयमिति सिद्धान्तो द्रष्टव्यः / ननु विषयस्य पूर्ववर्तितामाणैव साक्षात्कारहेतुत्वमिति ज्ञाननाशक्षणे अनुव्यवसायोत्पत्तौ न विरोध इत्यत आह तथाचेति / तथा स्वीका. रेऽपि जानामीति वर्तमानतत्प्रतीतिरनुपपन्नेवेत्यर्थः / निविकल्पककेति। निविकल्पकत्वं च ज्ञानत्वांशे विषयस्य पूर्वज्ञातत्वेन तदंशे विशिष्टज्ञानसामग्रीसत्त्वादित्यवधेयम् / इदश्चाग्रे वस्तुतो मकरन्दः / नाभत्वमित्यर्थः / एवञ्चेति।वर्तमानज्ञाततासम्बन्धस्यापि तदानीमभावादिति भावः। उद्भवत्वाभावादिति, प्राचीनमते / निर्विकल्पकैकेति / तज्जन्याग्रिमविशिष्टज्ञानस्यैव तत्र मानत्वान्न पूर्व टिप्पणी सम्भवात् / एतेन ज्ञाततायाः क्षणिकत्वस्य तदभिमतत्वेऽपि न क्षतिः। संयोगविशेषाभावादानशायत इत्यर्थ इति / इदमापाततः, वस्तुतः फलबलेन बहिरर्थज्ञानसामग्याः सुखादिसामग्रथाश्च प्रतिबन्धकत्वकल्पनाद् विषयान्तरसञ्चरसम्भवः। तथा च जानामोति वर्तमानशानेति / विषयस्य पूर्ववत्तितयैव हेतुत्वे निर्विकल्पकोतरं ज्ञानप्रत्यक्षसम्भव इत्यत आह घर्तमानेति / तथा च विषयस्यावर्त्तमानत्वेन वर्तमानाभासो न स्यादिति भावः / किञ्चिदशानं निर्विकल्पकैकेति / प्रथमज्ञानं तस्य सविकल्पकासम्भवात् / किञ्चित् सविकल्पकैकवेद्य.