________________ चतुर्थस्तबके] स्मृतेमानान्तरत्वखण्डनम्। नाम / अर्थनिरपेक्षप्रकाशनानुवृत्तिमात्रेण तथात्वे भूतभाविविषयस्यापि शनियं . तथाभावप्रसङ्गात् / अथ मा भूदयं दोष इति स्थूल एव वर्तमानः प्रकाशनाधीयत इत्यभ्युपगमः, तदा तज्ज्ञानस्यापि स एव विषय इति तस्यापि न क्षणिकत्वमिति / ___ ननु ज्ञानमैन्द्रियकं चेद् विषयसञ्चारो न स्यात् / संजातसम्बन्धत्वात् / न च जिज्ञासानियमान्नियमः। तस्याः संशयपूर्वकत्वात् / तस्य च धर्मिज्ञानपूर्वकत्वात्। धर्मिणश्च सन्निधिमात्रेण ज्ञाने जिज्ञासापेक्षणे वा उभयथाऽप्यनवस्थानादिति / तन्न / ज्ञाततापक्षेऽपि तुल्यत्वात् , तस्या अपि हि शेयत्वे तत्परम्पराज्ञानापाताजिज्ञासानियमस्य च तद्वदनुपपत्तेः / न च इन्द्रियसम्बन्धविच्छेदाद्विराम इति युक्तम्। आत्मप्रकाट्याव्यापनात्। स्वभावत एव काचिदसावजिज्ञासितापि ज्ञायते, न प्रकाशः। नार्थविषयवर्तमानता तथात्वे वा अतीतादिविषयकमपि ज्ञानं वर्त्तमानाभं स्यात् / एवञ्चाग्रिम क्षणे अतीतज्ञातताविषयकं ज्ञानं न वर्तमानाभं स्यादित्यर्थः // ननु यदि ज्ञानं मानसं स्यात्तदा विषयान्तरग्रहो न स्यात् , संयुक्तसमवायरूपाया मनःप्रत्यासत्तेः सदा सत्त्वेन ज्ञानपरम्पराया एव ज्ञयत्वादित्याह नन्विति // ननु ज्ञानं योग्यं मनःप्रत्यासन्नमपि जिज्ञासाज्ञेयमिति तन्नियमानोक्तदोष इत्यत आह न चेति // सामान्यतो ज्ञाते विशेषतचाज्ञाते जिज्ञासा जायते इति सामान्यतो ज्ञानानुभवो वाच्यः, तस्यापि यदि जिज्ञासानैरपेक्ष्येणं सन्निकर्षभात्राद् ग्रहः, तदाऽस्य सदातनत्वाद् ग्रहण परम्पराया अविच्छेदादनवस्था / अथ तद्प्रहेऽपि सा नियामिका, तदा तस्या अपि सामान्यतो ज्ञानार्थं जिज्ञासा वाच्या। साऽपि सामान्यज्ञानपूर्विका, तदपि जिज्ञासाऽधीनजन्मेति पूर्वपूर्वज्ञानापेक्षायामनवस्थेत्युभयथानवस्थार्थः / अत्र किञ्जिज्ज्ञानमजिज्ञासितं ज्ञायते, किञ्चिज्जिज्ञासितं, किश्चिन्न ज्ञायत एवेत्यनियमान्नोक्तदोष इत्यभिप्रेत्य समाधातुं प्रतिवन्दिमुखेनाह ज्ञाततापक्षेऽपीति // ननु चक्षुरादिना सम्बन्धविच्छेदाज्ज्ञातताप्रहविच्छेदः स्यादित्यत आह न चेति // बाह्य तथा प्रकाशिका। तथात्वे वेति / ज्ञाततावर्त्तमानत्वमात्रेणैव ज्ञानस्य वर्तमानाभावत्व इत्यर्थः / अतीतेति / क्षणरूपविशेषणात्ययादेवातीतत्वम् , एवञ्चैतत्प्रघट्टकस्य कुटिलिकाव्याख्यां विना मूलप्रकाशयोन परस्परं मकरन्दः। कत्वं, तदा ज्ञानस्यापि न स्यादित्याकर एव स्फुटम् / तथात्वे वेति। यदि स्ववर्तमानतया वर्तमा. टिप्पणी। वभासत्यासम्भव इत्यर्थः / अतीतादावपि यदि ज्ञाततोत्पत्तिरभ्युपेयते तदाह तथात्वे वेति / अथवा स्वाविषयनिष्ठयापि यदि वर्तमानज्ञाततया ज्ञातताज्ञानस्य स्वविषयघटादिनिष्ठवर्त्तमानज्ञाततया वर्तमानावभासत्वं स्यात्तत्राह तथात्वे वेति / अतीतादिज्ञानस्थलेऽपि कदाचित् स्वाव्यवहितपूर्व क्षणोत्पन्नवर्तमानविषयज्ञानजन्यज्ञाततायाः स्वोत्पत्तिक्षण उत्पत्तिसम्भवेन तया वर्त्तमानया तस्यापि वर्तमानाभासत्त्वं स्यादित्यर्थः। एवञ्चेति / विषयवर्तमानतयैव वर्तमानाभत्वे चेत्यर्थः / ज्ञाततीज्ञानस्थले ज्ञातताया कथमपि वर्तमानावभासत्वं नोपपादयितुं शक्यते इति ज्ञानविषयक्षणोपलक्षितविषयकत्वेन ज्ञानस्य वर्तमानावभासता द्वितीयक्षणेऽप्युपपादयितुं शक्येति न ज्ञानस्य क्षणिकत्वं न वाऽप्रत्यक्षत्वम् , नापि च ज्ञानज्ञानोपपादनाय ज्ञातत्वश्च स्वीकरणीयमिति तात्पर्य्यार्थः। ज्ञाततायाच क्षणिकत्वेन तज्ज्ञानकाल इति / इदमुपलक्षणम्-ज्ञाततावर्त्तमानतया वर्तमानावभासत्वे विनश्यदवस्थविषयक्षणोत्पन्नप्रत्यक्षस्य तथात्वं न स्यात् स्वोत्तरक्षणे विषयाभावेन ज्ञाततोत्पत्तेर