________________ 468 व्याख्ययात्रोपेतप्रकाशते न्यायकुसुमाजलो [4 कारिकाव्याख्यायां दोषः। न हि धर्तमानार्थप्रकाशसम्बन्धमन्तरेण ज्ञानस्यान्या वर्तमानावभासता प्रकाशः। ज्ञाततासम्बन्धमात्रेणेव तजनकज्ञानस्य वर्तमानाभताऽर्थात्ययेऽप्युपपद्यते / त्वनयेऽर्थस्यातीतत्वाज्ज्ञाततायाश्चाभावात् सा नोपपद्यतेत्यत आह न हीति // विषयवर्तमानतया वर्तमानाभताज्ञानस्य न स्ववर्त्तमानतया / ज्ञाततायाश्च क्षणिकत्वेन तज्ज्ञानकाले नाशा प्रकाशिका। अन्यथेतिमूलम् / प्रथमे क्षणे तद्विशिष्टज्ञाततासम्बन्धमात्रेणेवोत्तरक्षणेऽपि ज्ञानस्य वर्तमानार्थत्व इत्यर्थः / विषयवर्तमानतयेति / ज्ञानविषयीभूतक्षणविशिष्टज्ञाततासम्बन्धेनेत्यर्थः / नस्वर्त्तमानतयेति / ज्ञाततामात्रवर्त्तमानतयेत्यर्थः / शाततायाश्चेति पूर्वक्षणविशिष्टाया विशेषणविरहादुत्तरक्षणेऽसत्त्वमेव क्षणिकत्वम् / तदुत्तरज्ञानकाल इति वस्तुगतिमनुरुध्योक्तम् , तदुत्तरकाल इत्येव विवक्षितम् / न विषयवत्तेमानतेति / न पूर्वक्षणात्मकविषयविशिष्टज्ञाततावत्तेमानत्वमित्यर्थः / मकरन्दः / तज्जनकेति / तद्विषयज्ञानस्येत्यर्थः, तेन नोत्तरविरोधः / ननूक्तं वर्तमानज्ञाततासम्बन्धमात्रेणैव वर्तमानाभत्वमित्यत आह शाततायाश्चेति / यदि च स्थूलकालाश्रयत्वान्न तस्याः क्षणि टिप्पणी। कालस्याविषयतया वर्तमानावभाषता न स्यादित्यर्थः / यतः प्रकाशस्य ज्ञातताया न वर्तमानार्थता न वर्तमानार्थस्वरूपताऽतीतकालघटितत्वात् स्वज्ञानक्षणे स्वस्यावर्त्तमानत्वाच्चेति मूलार्थः / वर्त्तमानज्ञाततासम्बन्धमात्रेणेति / जन्यजनकभावरूपसम्बन्ध इत्यर्थः / वर्तमानाभतार्थात्ययेऽपीति / वर्तमानक्षणावच्छिन्नस्य द्वितीयक्षणेऽत्ययेऽपि / उपपद्यत इति / तत्रेव द्वितीयक्षणेऽपि यदि ज्ञानं स्वीक्रियते तदाभ्युपपद्यते इत्यर्थः, तेनेदानीमप्रत्यक्षत्वाय ज्ञाने क्षणिकस्वस्य स्वीकृतत्वेऽपि न विरोधः / त्वन्नये-न्यायनये / सा नोपपद्यत इति / द्वितीयक्षण इति शेषः / विषयवर्तमानतयेति / ज्ञानविषयीभूतक्षणोपलक्षितज्ञाततासम्बन्धेन ज्ञानस्य द्वितीयक्षणे वर्तमानतयेत्यर्थः / वस्तुतो विषयस्य या वर्तमानता ज्ञानक्षणरूपा तेनैव ज्ञाततोपलक्षकेन वर्तमान क्षणोपलक्षितज्ञाततयेत्यर्थः / वर्तमानाभताज्ञानस्य न स्ववर्तमानतया इति / ज्ञाततामभ्युपगभ्यापि त्वया ज्ञातताया उपलक्षिकया विषयस्य वर्त्तमानतया ज्ञानविषयवर्तमानक्षणरूपया अर्थात्ता शक्षणोपलक्षितज्ञाततयैव वर्तमानाभता वाच्या, तथासति मयापि ज्ञानस्य वर्तमानावभासता तादृशक्षणोपलक्षितविषयकत्वेनैव द्वितीयक्षणेऽप्युपपादयितुं शक्येति क्षणिकत्वस्य ज्ञाने ज्ञाततायाश्च स्वीकारो नावश्यक इत्याशयः / न ज्ञानस्य वर्तमानाभासता स्वस्य ज्ञानस्य वर्त्तमानतया त्वया वाच्या। तथात्वे वेत्यस्य तथात्वे चेत्यर्थः / तथात्वे ज्ञानवर्तमानतया वर्तमानावभासरूपत्वे / इदश्च प्रकाशव्याख्यानम् / अतीते ज्ञानत्वासम्भवात् मूलस्थप्रकाशानुवृत्तीत्यत्रापि प्रकाशपदस्य ज्ञानार्थत्वमभ्युपेत्य / ननु मया न वर्तमानक्षणोपलक्षितज्ञाततया न वा ज्ञानवर्तमानतया किन्तु वर्तमानक्षणावच्छिन्नार्थनिष्टज्ञाततया सोच्यत इति यद्यापत्तितो ब्रूयात्तत्राह ज्ञाततायाश्चेति / घटादिज्ञानस्थलेऽपि यद्यपि ज्ञातताया तथात्वासम्भवस्तथापि ज्ञातताज्ञानस्थले तादृशज्ञातताया ज्ञानविषयस्य ज्ञातत्वस्यैवासम्भवेन सर्वथाऽसम्भव इति तथोक्तम् / यद्वा स्ववर्तमानतया इत्यर्थस्य ज्ञाततामात्रवर्त्तमानतयेत्यर्थः / मूलस्थप्रकाशपदमपि ज्ञाततापरमेव भवति तदेव युक्तन्नहीत्यादिपूर्वग्रन्थे प्रकाशपदस्य तदर्थकत्वात् ज्ञानरूपप्रकाशस्य ज्ञानेनासम्बन्धादिति तस्यैव क्षणिकस्य ज्ञातत्वस्य ज्ञानसत्वकाले ज्ञाततानिष्ठज्ञाततोत्पत्त्या आधारत्वेनाभिमत अभावात्तत्र ज्ञाततोत्पत्तरसम्भवेन ज्ञाततावतमानत्वेन वर्तमाना