________________ चतुर्थस्तवके ] स्मृतेर्मानान्तरत्वखण्डनम् / 467 सङ्गात् , रजतावगाहिनि पुरोवर्त्तिवृत्तिज्ञातताफल इव। न चान्यमपि क्षणं ज्ञानमवगाहते, तदानीं तस्यासत्त्वात्। न तृतीयः। निःस्वभावताप्रसङ्गात् / न ह्यसौ तदानीं तदीयान्यदीया वेति / अतीतेनापि तेनैव क्षणेनोपलक्षितानुवर्तते इति चेत् / एवं तर्हि वर्तमानार्थता प्रकाशस्य न स्यात् / अन्यथा ज्ञानस्यापि तथानुवृत्ते को प्रकाशः। ननु क्षणान्तरमपि ज्ञातताजनकज्ञानस्य स्वतन्त्रो विषय इति न तद्भ्रम इत्यत आह न चेति / पूर्वक्षणे तदुत्तरक्षणस्यावर्त्तमानत्वादित्यर्थः // एवं तीति // विषयवर्तमानतया ज्ञानस्य वर्तमानाऽर्थता, सा च ज्ञानस्यातीतक्षणोपलक्षितविषयतायां न स्यादित्यर्थः // तथेति // अतीतेनापि क्षणेनोपलक्षितस्य वर्तमानार्थतयाऽनुवृत्तेरित्यऽर्थः / ननु ज्ञाततापक्षे अर्थनिरपेक्षवर्तमान प्रकाशिका। तनिष्टज्ञातताजनकत्वमिति वाच्यम्। भेदाग्रहसाहित्येन व्यवहारजनकत्ववदुपपत्तेः। विषय इति / तथा च विषयतानिष्ठैव ज्ञातवेति न तज्जनकज्ञानं भ्रम इति भावः / पूर्वक्षण इति / तथा चोत्तरक्षणस्य ज्ञानविषयत्वान्न ज्ञातताश्रयत्वमिति भावः। विषयवर्तमानतयेति / ज्ञानविषयीभूतक्षणविशिष्टज्ञाततासम्बन्धेनेत्यर्थः। विषयतायां ज्ञाततायामित्यर्थः। न स्यादिति। उत्तरक्षणे विशेषणीभूतक्षणविवक्षणादित्यर्थः। एतेनातीतक्षणोपलक्षितज्ञाततानुवृत्तौ पूर्वपक्षितायां यथाश्रुतविषयेत्यादिप्रकाशानुसारेणोत्तरम सङ्गतमिति परास्तम् / एवन्त)त्यादि फक्किकायां प्रकाशपदं ज्ञानपरमेव तेन न प्रकाशविरोधः / मूले एव च नहीत्यादौ अर्थनिरपेक्षेत्यादौ.अथ मा भूदित्यादौ च प्रकाशपदं ज्ञाततापरमित्यवधेयम् / - मकरन्दः। साच ज्ञानस्येति / यद्यपि ज्ञानस्यातीतक्षणोपलक्षितविषयता न पूर्वपक्षिता, किन्तु ज्ञातताया अतीतज्ञानोपलक्षितायाः क्षणान्तरेऽनुवृत्तिः, तत्र च ज्ञानस्य वर्तमानार्थता न स्यादित्युत्तरमसङ्गतम् , तथापि ज्ञानस्य ज्ञाततागोचरस्यातीतक्षणोपलक्षितज्ञातताविषयतायां वर्तमानार्थता न स्यादित्यर्थों बोध्यः / न चातीतक्षणस्योपलक्षणत्वमेव ज्ञाततायाश्च वर्तमानत्वमेवेति कथं वर्तमानार्थता, तज्ज्ञानस्य स्यादिति वाच्यम् / निराश्रयज्ञातताया ज्ञानगोचरत्वे ज्ञाततायामुपलक्षणस्यापि क्षणस्य ज्ञाने विशेषणत्वाभ्युपगमात् / वस्तुतो वर्तमानार्थता वर्तमानाश्रयता प्रकाशस्य शातताया न स्यादिति मूलार्थः प्रतिभाति / अत एवान्यथा ज्ञानस्यापीति फक्किका सङ्गच्छते। न हीत्यादिफक्किकायामपि प्रकाशपदं ज्ञाततापरमेव, अन्यथा तद्वैयर्थ्यापत्तेः। प्रकाशे 'नाश्रीयत' इत्यप्रिमफक्किकायामपि तथैवेति तदनुसारेण सर्व योज्यमिति युक्तमुत्पश्यामः / टिप्पणी। विषयत्वानुपपत्तावेव तात्पर्यम् अविषये ज्ञाततोत्पत्तावतिप्रसन्नात् / विषये च ज्ञाततोत्पत्तेरसम्भवानिःस्वभावं ज्ञानं स्यादिति / भ्रमत्वापादनस्य चायमाशयः-प्रत्यक्षज्ञानस्य वर्तमानावभास. कत्वानुरोधेन वर्तमानक्षणस्य विषयत्वं त्वयाभ्युपेयम् , . ज्ञाततामभ्युपगच्छताऽविषये ज्ञातत्वोत्पत्तौ ज्ञातताश्रयक्षणान्तरावच्छिनस्यापि विषयत्वमभ्युपेयमिति भ्रान्तत्वापत्तिस्तवेति / एतेनातीतप्रकारीभूतवर्तमानक्षणे ज्ञाततोत्पत्त्यसम्भवेऽपि न क्षतिः। न हि विषयता ज्ञाततानियता विषयत्वस्य स्वरूपसम्बन्धात्मकस्यैव तेन भ्युपगमात्, ज्ञातता हि विषयतानियता अन्ययातिप्रसङ्गादभ्युपेयेति सर्वमवदातम् / एवन्तींतीति / विषयवर्तमानतया शानस्येति / यद्यपि पूर्वापरमूळपर्यालोचनया प्रकाशपदम्मूलस्यं ज्ञाततार्थकमेव प्रतीयते, तथापि ज्ञातताया वर्तमानार्थत्वाभावे ज्ञानस्य वर्तमानार्थावभासत्वानुपपत्तिरेव दोषः पर्यवस्यतीति पर्यवसितार्थकथनमेवेदं बोध्यं न तु व्याख्यानम् / यद्वा ज्ञानस्य ज्ञाततागोचरस्यातीतक्षणोपलक्षितज्ञातताविषयतया वर्तमान