________________ 464 व्याख्यात्रयोपेतप्रकाशबोधनीयुतेन्यायकुसुमाखली [ 4 कारिकाव्याख्यायो तस्यैवासिद्धः। तथापि नियतस्य कर्तुः प्रवृत्तेः कर्तृधर्मणैव केनचित् प्रवृत्तिहेतुना भवितव्यमिति चेत् / अस्त्विच्छा प्रत्यक्षसिद्धा, न तु ज्ञानम् / सैव कथं नियताधिकरणे उत्पद्यतामिति चेन्न / ज्ञानाभ्युपगमेऽपि तुल्यत्वात् / स्वहेतोः कुतश्चिदिति चेत् / तत एव इच्छा अस्तु, किं शानकल्पनयेति। __स्यादेतत् / प्रकाशमाने खल्वर्थ तदुपादित्सादिरुपजायते, न तु सुषुप्त्यवस्थायामप्रकाशमानेऽप्यर्थे इत्यनुभवसिद्धम् / तत इच्छायाः कारणं विलक्षणमेव किञ्चित् परिकल्पनीयं, यस्मिन् सति सुष्वापलक्षणमौदासीन्यमर्थविषयमात्मनो निवर्त्तते इति चेत् / हन्तैवं सुष्वापनिवृत्तिमनुभवसिद्धां प्रतिजानानेन शानमेवापरोक्षमिष्यते। अचेतयन्नेव हि सुषुप्त इत्युच्यते, अचैतन्यनिवृत्तिरेव हि चैतन्यं ज्ञानमिति / तथाच कालात्ययापदिष्टो हेतुः। एतेन क्षणिकत्वादिति निरस्तम्। अपि च किमिदं क्षणिकत्वं नाम ? यद्याशुतरविनाशित्वं, तदाऽनैकान्तिकम् / अथैकक्षणावस्थायित्वं, तदसिद्धं प्रमाणाभावात् / ननु स्थायिविज्ञानं यादशमर्थक्षणं गृहृदुत्पद्यते, द्वितीयेऽपि क्षणे किं तादृशमेव गृह्णाति, अन्यादृशं वा, न वा कमपीति / न प्रथमः। तस्य क्षणस्यातीत प्रकाशः। वकारणादेव स्मरणोत्पत्तिरित्य न्यथासिद्धिरिति भावः / तदिति / व्यवहारनिमित्तमित्यर्थः / तस्यैवेति / ज्ञानासिया व्यवहारे तजन्यत्वानिश्चयादित्यर्थः। कर्तृधर्मप्रवृत्तेः कर्तृधर्मकार्यत्वात् कर्तृधर्मतया ज्ञानं सिद्धयेदित्याह तथा पीति / इच्छा स्व विषयविषयकात्मधर्मजन्या नियतविषयकधर्मत्वात् प्रयनवदित्यभिप्रेत्याह सैवेति / अनुमानं ज्ञान एवानकान्तिकमित्यभिप्रेत्याह ज्ञानेति / न च ज्ञानहे. तोरननुगमाद् व्यभिचारेण कारणत्वासम्भवः, परेषामेकशक्तिमत्त्वेनापि कारण प्रहसम्भवादिति भावः / अनुभवसिद्धमिति / यद्यप्येकत्रात्मन्येकदा आशुतरविनाशिगुणत्रयानवस्थानादिच्छाज्ञानयोः पौर्वापर्याऽनुभवो न सम्भवति, तथापि ज्ञानव्यतिरेकाऽव्यवहितोत्तरकाले इच्छाव्यतिरेकनियमात् कार्यकारणभावग्रह इति भावः / एतेनेति। कालात्ययापदेशेनेत्यर्थः। तदानैकान्तिकमिति / इच्छादावित्यर्थः। यादृशं, वर्तमानक्षणावच्छिन्नम् / अन्यादृशं द्वितीयक्षणावच्छिन्नम् / तस्येति। द्वितीये क्षणे इत्यनुषज्ज्यते। वर्त्त - प्रकाशिका। परेषामिति तथा च तद्रीत्या ज्ञानहेतुनान्यथासिद्धिः स्यादेवेति भावः। यद्यपीति / कार्यकारणभावग्रहमादाय एकत्रेत्युक्तं प्रत्यक्षे विषयस्य समसमयतया हेतुत्वमित्यभिमानेन चैतदुपपादनीयम् / तथापीति / व्यतिरेकपदं प्रागभावपरम् , अन्यथा ज्ञाननाशेऽपीच्छासत्त्वानियमभङ्गापत्तेः।वर्तमानतेति। मकरन्दः / परेषामिति / तथा च तन्मते ज्ञानहेतुना तदन्यथासिद्धिः स्यादेवेति भावः / तथापीति / अत्र व्यतिरेकपदंप्रागभावपरम् / अन्यथा ज्ञाननाशेऽपीच्छासत्त्वान्नियमभङ्गापत्तेः। टिप्पणी। तथापि तदनुपपपत्या नानुभवकल्पनं युज्यते, अनुभवं विनाप्यनुभवकारणत्वेनाभिमतादेव संस्कारा