________________ चतुर्थस्तवके स्मृतेर्मानान्तरत्वखण्डनम् / विषयत्वेन तदुपपत्तेः। स्वाभाविकफलनिरूपकत्वञ्च तुल्यम् / * ननु ज्ञानमतीन्द्रियत्वादसाधारणकार्यानुमेयं तदभावे कथमनुमीयेत, अप्रतीतश्च कथं व्यवहारपथमवतरेदिति ज्ञानव्यवहारान्यथानुपपत्त्या शातताकल्पनम् / तदप्यसत् / परस्पराश्रयप्रसङ्गात् / ज्ञाततया हि ज्ञानमनुमीयेत, ज्ञातेच तयवहारान्यथानुपपत्तिस्तां ज्ञापयेत् / कुतश्च ज्ञानमतीन्द्रियम् ? इन्द्रियेणानुपलभ्यमानत्वादिति चेत् / न / अनुमानोपन्यासे साध्या विशिष्टत्वात् , अनुपलब्धिमात्रोपन्यासे तु योग्यताऽविशेषिताऽसौ कथमैन्द्रियकोपलम्भाभावं गपयेत् , तद्विशेषणे तु कथमतीन्द्रियं ज्ञानमिति / तथाविधज्ञाततानाश्रयत्वादिति चेन्न / आश्रया. सिद्धः। व्यवहारान्यथानुपपत्त्यैव सिद्ध प्राश्रय इति चेन्न। ज्ञानहेतुनैव तदुपपत्तेः। तस्यात्ममनःसंयोगादिरूपस्य सत्त्वेऽपि सुषुप्तिदशायामर्थव्यवहाराभावानैवमिति चेन्न / तावन्मात्रस्य व्यवहाराहेतुत्वात् / अन्यथा ज्ञानस्वीकारेऽपि तुल्यत्वात् / स्मरणान्यथानुपपत्त्येति चेन्न / तस्याप्यसिद्धः। अस्ति तावद्यवहा. रनिमित्तं किञ्चिदिति चेत् / किमतः ? / न ह्येतावता ज्ञानं तदिति सिद्धयति, प्रकाशः। अतीतादेरप्यर्थत्वात् ; कारकविशेषस्य च कर्मत्वात् / अतीतानागतं जानामीति द्वितीयाप्रयोगः साधुरिति तु तत्त्वम्। स्वाभाविकेति। यथा कर्तृव्यापारफलं विनाशः प्रतियोगिनिरूप्यः, तथा ज्ञानमपि विषयनिरूप्यमित्यर्थः। तद्विशेषणे त्विति। यदि योग्यानुपलब्ध्या योग्यस्य ज्ञानस्याऽभावो गृह्यते, तदा सिद्धमैन्द्रियकत्वं ज्ञानस्येत्यर्थः। तथाविधेति। साक्षात्कृतताऽनाश्रयत्वादित्यर्थः। श्राश्रयेति। ज्ञानस्याप्रत्यक्षत्वे मानान्तरासम्भवेनाश्रयस्य ज्ञानस्यासिद्धरित्यर्थः / ज्ञानस्य प्रत्यक्षतया स्वरूपासिद्धेश्चेति भावः / अज्ञाते घटादिव्यवहारो न स्यात् , तस्य व्यवहर्तव्यज्ञानसाध्यत्वादिति कार्येण कारणानुमानात् सिद्ध आश्रय इत्याह व्यवहारेति। ज्ञानहेतुत्वेनाभिमतादेवावश्यकाव्यवहारोपपत्तौ न तेन ज्ञानानुमानमित्याह ज्ञानेति / ज्ञानहेतुसद्भावेऽपि व्यवहाराभावान्न तेनान्यथासिद्धिरित्याह तस्येति / ज्ञानहेतुसद्भावे सुषुप्तौ कुतो ज्ञानमेव न जायते ? तावन्मात्रस्याहेतुत्वादिति यदि, तदा या ज्ञानसामग्री सा व्यवहारसामग्न्यस्तु किमान्तरालिकेन ज्ञानेनेत्याह तावन्मात्रस्येति / अन्यथेति / ज्ञानमेव तदा किं न स्यादित्यर्थः / तस्यापीति। स्मरणस्यापि ज्ञानत्वेनातीन्द्रियत्वादसिद्धिरित्यर्थः / अत्राप्यनुभ प्रकाशिका। आह अत्रापीति। मकरन्दः। . अस्तु वा स्मरणं, तथापि तदन्यथाऽनुपपत्त्या नानुभवसिद्धिः, तत्कारणेनान्यथासिद्धरित्याह अत्रापीति / टिप्पणी। योग्यानुपलब्ध्या योग्यस्य ज्ञानस्येति / ज्ञानोपलम्भस्येत्यर्थः। अन्यथा ज्ञानाभावसाधनस्यानुपक्रान्तत्वात् तथात्वे ज्ञातताया अप्यभावप्रसङ्गात् , अग्रे ज्ञानसाधनेन विरोध. प्रसङ्गाच्च / अतीतानागतं जानामीति द्वितीयाप्रयोगः साधुरिति। यथान्वादियोगे कर्मसंज्ञायामपि न तस्य कर्मता, यथा च क्रियाविशेषणस्य कल्पितकर्मसंज्ञकत्वेऽपि न कर्मता, संज्ञाफलन्तु द्वितीयाप्रयोगसाधुतैव, तथा प्रकृतेऽपि सविषयकार्थकधात्वर्थयोगे कर्मसंज्ञां प्रयोगबलात् परिकल्प्य द्वितीयो. पपादनीया इति / द्वितीयाप्रयोगेन सार्वजनीनेन साधुः न कर्मार्थकतया तस्यादिवन्द्वितीया प्रयोगकल्पितसंज्ञामात्रफलीभूततया साधुरित्यर्थः // अत्राप्यनुभवकारणादेवेति / अस्तु स्मरणं