________________ 462 व्याख्ययात्रोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलो [4 कारिकाव्याख्यायां तथा, क्रिययैव विशेषो हि व्यवहारेषु कर्मणाम् // 4 // किं न पश्यसि, घटक्रिया पटक्रियेतिवत् कृतो घटः करिष्यते घट इत्यादि, तथैव गृहाण, घटज्ञानं पटशानमितिवज्ज्ञातो घटो ज्ञायते इति / कथमसंबद्धयोर्धमधर्मिभाव इति चेद्, ध्वस्तो घट इति यथा। एतदपि कथमिति चेद् , नूनं ध्वंसेनापि घटे किञ्चित् क्रियते इति वक्तुमध्यवसितोऽसि / तन्निरूपणाधीननिरूपणो ध्वंसः स्वभावादेव तदीय इति किमत्र संबन्धान्तरेणेति चेत् / प्रकृतेऽप्येवमेव / एतेन फलानाधारत्वादर्थः कथं कर्मेति निरस्तम् / विनाश्यवत् करणव्यापार प्रकाशः। बुद्धित्वमुपाधिः / घटसंयोगादिजनकाऽवयवसंयोगादौ साध्याव्यापकत्वात् / मैवम् / अप्रयोजकत्वात् / अन्यथेच्छा स्वविषयनिष्ठकिञ्चिद्धजनिका सविषयकत्वात् बुद्धिवदित्यादेरापत्तेः / तथापि जातो घट इति ज्ञानं विशेषणविशेष्ययोः सम्बन्धविषयकं विशिष्टज्ञानत्वात्, गौरिति ज्ञानवत् / वर्तमानेऽर्थे बाधकाभावात् / अन्यथा समवायोऽपि न सिद्वयेदिति चेन्न / अतीतानागतयोतिताया अभावेन ज्ञातव्यवहाराभावापत्तेः / तस्य ज्ञाततासाध्यत्वात् / तत्र ज्ञानविषयावेव तद्विषयाविति चेन्न / वर्तमानेऽपि तयोरेव तद्विषयत्वापत्तेः / अतीतादिवर्त्तमानतत्प्रतीत्यो(लक्षण्याऽननुभवात् / अथ घटपटयोरेकज्ञानविषयत्वेऽपि घटत्वेन घटो ज्ञातः, पटत्वेन पटो 'ज्ञात इति ज्ञातताभेदभानाज्ज्ञानभिन्ना ज्ञाततेति चेन्न / तस्यैव ज्ञानस्य सम्बन्धस्तत्र तत्र तेन तेन धर्मेण निरूप्यते इति ज्ञानस्वभावादेव नियमादिति भावः / प्रतिबन्धिमुक्त्वा मूलयुक्तिमाह तन्निरूपणेति। ननु ज्ञानजन्यफलानाश्रयत्वादः कर्म न स्यादित्यत आह__ एतेनेति / परसमवेतक्रियाफलशालित्वं न कर्मत्वम् / आत्मानं जानातीत्यत्राव्याप्तेः, किन्तु करणव्यापारविषयत्वम्, तच्चात्राऽस्त्येवेत्याह विनाश्यवदिति / अर्थो ज्ञानस्य कर्मैव न भवति, प्रकाशिका। शित्वं क्षणिकत्वरूपमसिद्धमित्यत आह क्षणचतुष्टयेति / अप्रयोजकत्वादित्युपलक्षणम् , पक्षधर्मावच्छिन्नसाध्यव्यापकस्यापेक्षाबुद्धित्वस्योपाधित्वाच्चेत्यपि द्रष्टव्यम् / सम्बन्धत्वेन ज्ञाततासिद्धिमाशङ्कते तथापीति / अन्यथेति / सम्बन्धं विनापि विशिष्टधीस्वीकार इत्यर्थः / प्रतिवन्दीमुत्क्वा मूलयुक्तिमाह अर्थ इत्यादि / ऐन्द्रियकोपलम्भाभावमिति मूलं अतीन्द्रियत्वं ज्ञानस्य तद्विषयकसाक्षात्काराभावः / स च ज्ञानातीन्द्रियतया न स्वरूपसदनुपलब्धिग्राह्य इत्यर्थः / मम इन्द्रियग्राह्यत्वेनाभिमतो य उपलम्भाभाव इति योजना। अनुपलब्धेस्तत्रैव त्वन्मते सामर्थ्यादिति भावः / अस्तु वा स्मरणम् तथापि तदनुपपत्या नानुभवसिद्धिः, तत्कारणेवान्यथासिद्धिरित्यत मकरन्दः। अप्रयोजकत्वादित्युपलक्षणम्-पक्षधर्मावच्छिन्नसाध्यव्यापकमपेक्षाबुद्धित्वमुपाधिरित्यपि द्रष्टव्यम्। अन्यथेति / यदि सम्बन्धं विना विशिष्टधीः, तदेत्यर्थः /